"नारदपुराणम्- पूर्वार्धः/अध्यायः ९९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> श्रीब्रह्मोवाच ।। अथातः संप्रवक्ष्यामि तवा... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ७७: पङ्क्तिः ७७:
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः ।। ९९ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः ।। ९९ ।।
</poem>
</poem>

[[वर्गः:नारदपुराणम्- पूर्वार्धः]]

१०:५४, १९ जनवरी २०१६ इत्यस्य संस्करणं

श्रीब्रह्मोवाच ।।
अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् ।।
ईशानकल्पवृत्तांतं वसिष्ठायानलोऽब्रवीत् ।। ९९-१ ।।

तत्पंचदशसाहस्रं नाना चरितमद्भुतम् ।।
पठतां श्रृण्वतां चैव सर्वपापहरं नृणाम् ।। ९९-२ ।।

प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा ।।
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः ।। ९९-३ ।।

अग्निकार्यं ततः पश्चान्मंत्रमुद्रादिलक्षणम् ।।
सर्वदीक्षाविधानं च अभिषेकनिरूपणम् ।। ९९-४ ।।

लक्षणं मंडलादीनां कुशापामार्जनं ततः ।।
पवित्रारोपणविधिर्देवालयविधिस्ततः ।। ९९-५ ।।

शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् ।।
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः ।। ९९-६ ।।

विनायकादिपूजा च नानादीक्षाविधिः परम् ।।
प्रतिष्ठा सर्वदेवानां ब्रह्मंडस्य निरूपणम् ।। ९९-७ ।।

गंगादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् ।।
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ।। ९९-८ ।।

ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ।।
षट्कर्म च ततः प्रोक्तं मंत्रमंत्रौषधीगणः ।। ९९-९ ।।

कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा ।।
कोटिहोमविधानं च मन्वंतरनिरूपणम् ।। ९९-१० ।।

ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः ।।
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च ।। ९९-११ ।।

प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् ।।
वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम् ।। ९९-१२ ।।

मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ।।
नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् ।। ९९-१३ ।।

व्रतानां चापि दानानां निरूपणमिहोदितम् ।।
नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः ।। ९९-१४ ।।

गायत्र्यर्थस्य निर्द्देशो लिंगस्तोत्रं ततः परम् ।।
राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम् ।। ९९-१५ ।।

स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ।।
मंडलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः ।। ९९-१६ ।।

रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ।।
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ।। ९९-१७ ।।

देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् ।।
गजादीनां चिकित्सा च तेषां शांतिस्ततः परम् ।। ९९-१८ ।।

गोनरादिचिकित्सा च नानापूजास्ततः परम् ।।
शांतयश्चापि विविधाश्छन्दः शास्त्रमतः परम् ।। ९९-१९ ।।

साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः ।।
सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः ।। ९९-२० ।।

प्रलयानां लक्षणं च शारीरकनिरूपणम् ।।
वर्णनं नरकाणां च योगाशास्त्र परम् ।। ९९-२१ ।।

ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् ।।
एतदाग्नेयकं विप्र पुराणं परिकीर्तितम् ।। ९९-२२ ।।

तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् ।।
तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ।। ९९-२३ ।।

पुराणार्थविदे सोऽथ स्वर्गलोके महीयते ।।
एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा ।। ९९-२४ ।।

श्रृण्वतां पठतां चैव नृणां चेह परत्र च ।। ९९-२५ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः ।। ९९ ।।