"अग्निपुराणम्/अध्यायः १८९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem><font size="4.9"> अथैकोननवत्यधिकशततमोऽध्यायः श्रवणद... नवीन पृष्ठं निर्मीत अस्ती
 
अग्निपुराणम् using AWB
पङ्क्तिः ४७: पङ्क्तिः ४७:
टिप्पणी
टिप्पणी
१ त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च
१ त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च
- - - - - - - -- - - -- - - - -- - - -
- - - - - - - -- - - -- - - - -- - - -




</font></poem>
</font></poem>

[[वर्गः:अग्निपुराणम्]]

०९:२४, १९ जनवरी २०१६ इत्यस्य संस्करणं


अथैकोननवत्यधिकशततमोऽध्यायः


श्रवणद्वादशीव्रतम्
अग्निरुवाच
श्रवणादशीं वक्ष्ये मासि भाद्रपदे सिते ।१८९.००१
श्रवणेन युता श्रेष्ठा(१) महती सा ह्युपोषिता ॥१८९.००१
सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं(२) ।१८९.००२
बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥१८९.००२
निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।१८९.००३
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥१८९.००३
उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।१८९.००४
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥१८९.००४
सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।१८९.००५
स्नापयामि जलैः शुद्धैर्विष्णुं(३) पञ्चामृतादिभिः ॥१८९.००५
छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।१८९.००६
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः(४) ॥१८९.००६
भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।१८९.००७
वामनाय नमो गन्धं होमोऽनेनाष्टकं शतं ॥१८९.००७
- - - - - - - -- - - -- - - - -- - - -
टिप्पणी
१ श्रवणेन समायुक्तेति घ..
२ द्वादशद्वादशीफलमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. च
३ शुद्धैर्हरिमिति ग.. , ट.. च
४ मुदार्चित इति ग..
- - - - - - - -- - - -- - - - -- - - -
ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।१८९.००८
श्रीधराय मुखं तद्वत्कण्ठे कृष्णाय वै नमः ॥१८९.००८
नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।१८९.००९
व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥१८९.००९
त्रैलोक्यजयकायेति(१) मेढ्रं जङ्घे यजेद्धरेः ।१८९.०१०
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः ॥१८९.०१०
घृतपक्वञ्च नैवेद्यन्दद्याद्दध्योदनैर्घटान् ।१८९.०११
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥१८९.०११
गन्धपुष्पादिभिः पूज्य वदेत्पुष्पाञ्जलिस्त्विदं ।१८९.०१२
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥१८९.०१२
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।१८९.०१३
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥१८९.०१३
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।१८९.०१४
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥१८९.०१४
द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।१८९.०१५
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥१८९.०१५

इत्याग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मोऽध्यायः ॥
- - - - - - - -- - - -- - - - -- - - -
टिप्पणी
१ त्रैलोक्यजननायेति झ.. , ञ.. च । त्रैलोक्यजनकायेति ङ.. , ट.. च
- - - - - - - -- - - -- - - - -- - - -