"अग्निपुराणम्/अध्यायः ११" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
→‎श्रीरामावतारकथनम्: अग्निपुराणम् using AWB
पङ्क्तिः ४०: पङ्क्तिः ४०:
अग्निरुवाच
अग्निरुवाच
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्।
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।।


इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।।
इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।।


</poem>
</poem>

[[वर्गः:अग्निपुराणम्]]

०९:०४, १९ जनवरी २०१६ इत्यस्य संस्करणं

श्रीरामावतारकथनम्

नारद उवाच
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः।
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ।। १ ।।

ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ।। २ ।।

नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः।
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ।। ३ ।।

कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ।। ४ ।।

इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली।
हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ।। ५ ।।

इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ।। ६ ।।

अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्।
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ।। ७ ।।

शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ।। ८ ।।

भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ।। ९ ।।

पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ।। १० ।।

राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः।
दशवर्षसहस्त्राणि दशवर्षसतानि च ।। ११ ।।

राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ।
सपौरः सानुजः सीतापुत्रो जनपदान्वितः ।।
                     
अग्निरुवाच
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।।

इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।।