"रामायणम्/युद्धकाण्डम्/सर्गः ६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ७५: पङ्क्तिः ७५:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२४, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षष्ठः सर्गः ॥६-६॥

लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।
राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥

अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।
धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥

तेन वानर मात्रेण दृष्टा सीता च जानकी ।
प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥

आविला च पुरी लंका सर्वा हनुमता कृता ।
किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥

उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।
मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥

तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।
त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥

तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।
मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥

मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।
सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥

दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।
एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥

एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।
गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥

करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।
यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥

एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।
ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥

मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।
बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥

पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।
अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥

न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।
तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥

कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।
वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥

रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।
तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥

तरसा युक्त रूपेण सानुजः सबल अनुगः ।
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥

तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।
हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षष्ठः सर्गः ॥६-६॥

संबंधित कड़ियाँ

बाहरी कडियाँ