"रामायणम्/युद्धकाण्डम्/सर्गः २७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १६४: पङ्क्तिः १६४:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२०, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥

ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥

स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥

प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥

यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥

यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥

असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥

पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥

एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥

ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥

यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥

स एष जाम्बवान् नाम महायूथप यूथपः ।
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥

एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥

आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥

राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥

यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥

एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥

यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥

यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥

येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥

यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥

तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥

यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥

तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥

वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥

यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥

एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥

हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥

रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥

वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥

स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥

अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥

विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥

शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥

परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥

यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥

यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥

मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥

मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥

तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥

निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥

सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥

महापर्वत सम्काशा महाजीमूत निस्वनाः ।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥

मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥

एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥

रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥

तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥

सर्वे महाराज महाप्रभावाः ।
सर्वे महाशैल निकाश कायाः ।
सर्वे समर्थाः पृथिवीम् क्षणेन ।
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥

संबंधित कड़ियाँ

बाहरी कडियाँ