"रामायणम्/युद्धकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ६६: पङ्क्तिः ६६:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:१९, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥

परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥

लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।
प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥

वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥

मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥

रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥

दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥

रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।
कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।
आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥

रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥

काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।
शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥

शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।
भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥

क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥

इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥

सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥

राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।
हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥

संबंधित कड़ियाँ

बाहरी कडियाँ