"रामायणम्/युद्धकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः १३९: पङ्क्तिः १३९:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:१९, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशः सर्गः ॥६-२०॥

ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥

चारो राक्षसराजस्य रावणस्य दुरात्मनः ।
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥

आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥

उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥

बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥

तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥

शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥

शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥

यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।
त्वम् वै महारज कुलप्रसूतो ।
महाबलश्चर्क्षरजःसुतश्च ।
न कश्चनार्थस्तव वास्त्यनर्थ ।
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥

अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥

न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥

स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।
शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥

स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥

सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।
तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥

प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥

गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥

न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥

अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥

उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥

अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥

किम् मया खलु नक्तव्यो रावणो लोकरावणः ।
स एवमुक्तः प्लवगाधिपस्तदा ।
प्लवङ्गमानामृषभो महाबलः ।
उवाच वाक्यम् रजनीचरस्य ।
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥

स मेऽसि मित्रम् व तथानुकम्प्यो ।
न चोपकर्तासि न मे प्रियोऽपि ।
अरिश्च रामस्य सहानुबन्ध ।
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥

निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।
सज्ञातिवर्गम् रजनीचरेश ।
लङ्काम् च सर्वाम् महता बलेन ।
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥

न मोक्ष्यसे रावण राघवस्य ।
सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।
अन्तर्हतः सूर्यपथम् गतोऽपि।
तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥

गिरीशपादम्बुजसम्गतो वा ।
हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥

तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् ।
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥

अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।
किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥

हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥

न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।
ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥

वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥

गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥

जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥

व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥

याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥

सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे विंशः सर्गः ॥६-२०॥

संबंधित कड़ियाँ

बाहरी कडियाँ