"रामायणम्/युद्धकाण्डम्/सर्गः १३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ८३: पङ्क्तिः ८३:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:१८, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥

रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥

यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् ।
न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण ।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥

बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।
अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥

लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् ।
प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः ।
प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥

उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् ।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥

इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल ।
वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥

एवमुक्तस्तदा राजा महापार्श्वएन रावणः ।
तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥

महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः ।
चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥

पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥

सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥

तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः ।
अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥

अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि ।
तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥

इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् ।
नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥

सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥

को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये ।
क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥

न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव ।
रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥

क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः ।
राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥

न वासवेनापि सहस्रचक्षुषा ।
युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियम् बाहुबलेन निर्जिता ।
पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोदशः सर्गः ॥६-१३॥

संबंधित कड़ियाँ

बाहरी कडियाँ