"लघुसिद्धान्तकौमुदी/अपत्याधिकारप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) लघुसिद्धान्तकौमुदी using AWB
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

अथापत्याधिकारः

अथापत्याधिकारः

पङ्क्तिः ९४: पङ्क्तिः ९२:

इत्यपत्याधिकारः॥ २॥

इत्यपत्याधिकारः॥ २॥

[[वर्गः:लघुसिद्धान्तकौमुदी]]

०६:५३, १३ जनवरी २०१६ इत्यस्य संस्करणं

अथापत्याधिकारः

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ लसक_१००६ = पा_४,१.८७॥
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥

तस्यापत्यम्॥ लसक_१००७ = पा_४,१.९२॥
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥

ओर्गुणः॥ लसक_१००८ = पा_६,४.१४६॥
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥

अपत्यं पौत्रप्रभृति गोत्रम्॥ लसक_१००९ = पा_४,१.१६२॥
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥

एको गोत्रे॥ लसक_१०१० = पा_४,१.९३॥
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥

गर्गादिभ्यो यञ्॥ लसक_१०११ = पा_४,१.१०५॥
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥

यञञोश्च॥ लसक_१०१२ = पा_२,४.६४॥
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥

जीवति तु वंश्ये युवा॥ लसक_१०१३ = पा_४,१.१६३॥
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥

गोत्राद्यून्यस्त्रियाम्॥ लसक_१०१४ = पा_४,१.९४॥
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥

यञिञोश्च॥ लसक_१०१५ = पा_४,१.१०१॥
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ लसक_१०१६ = पा_७,१.२॥
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥

अत इञ्॥ लसक_१०१७ = पा_४,१.९५॥
अपत्येर्ऽथे। दाक्षिः॥

बाह्वादिभ्यश्च॥ लसक_१०१८ = पा_४,१.९६॥
बाहविः। औडुलोमिः। (लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्यः)। उडुलोमाः। आकृतिगणो ऽयम्॥

अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ लसक_१०१९ = पा_४,१.१०४॥
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥

शिवादिभ्यो ऽण्॥ लसक_१०२० = पा_४,१.११२॥
अपत्ये। शैवः। गाङ्गः॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ लसक_१०२१ = पा_४,१.११४॥
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥

मातुरुत्संख्यासंभद्रपूर्वायाः॥ लसक_१०२२ = पा_४,१.११५॥
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥

स्त्रीभ्यो ढक्॥ लसक_१०२३ = पा_४,१.१२०॥
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥

कन्यायाः कनीन च॥ लसक_१०२४ = पा_४,१.११६॥
चादण्। कानीनो व्यासः कर्णश्च॥

राजश्वशुराद्यत्॥ लसक_१०२५ = पा_४,१.१३७॥
(राज्ञो जातावेवेति वाच्यम्)॥

ये चाभावकर्मणोः॥ लसक_१०२६ = पा_६,४.१६८॥
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .

अन्॥ लसक_१०२७ = पा_६,४.१६७॥
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥

क्षत्त्राद् घः॥ लसक_१०२८ = पा_४,१.१३८॥
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥

रेवत्यादिभ्यष्ठक्॥ लसक_१०२९ = पा_४,१.१४६॥

ठस्येकः॥ लसक_१०३० = पा_७,३.५०॥
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥

जनपदशब्दात्क्षत्त्रियादञ्॥ लसक_१०३१ = पा_४,१.१६८॥
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्)। पञ्चालानां राजा पाञ्चालः। (पूरोरण् वक्तव्यः)। पौरवः। (पाण्डोर्ड्यण्)। पाण्ड्यः॥

कुरुनादिभ्यो ण्यः॥ लसक_१०३२ = पा_४,१.१७२॥
कौरव्यः। नैषध्यः॥

ते तद्राजाः॥ लसक_१०३३ = पा_४,१.१७४॥
अञादयस्तद्राजसंज्ञाः स्युः॥

तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ लसक_१०३४ = पा_२,४.६२॥
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥

कम्बोजाल्लुक्॥ लसक_१०३५ = पा_४,१.१७५॥
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (कम्बोजादिभ्य इति वक्तव्यम्)। चोलः। शकः। केरलः। यवनः॥

इत्यपत्याधिकारः॥ २॥