"रामायणम्/सुन्दरकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{header
| title = [[../../]]
| title = [[../]]
| author = वाल्मीकिः
| author = वाल्मीकिः
| translator =
| translator =
| section = सर्गः ४५
| section = सुन्दरकाण्डम्
| previous = [[../सर्गः ४४|सर्गः ४४]]
| previous = [[रामायणम्/सुन्दरकाण्डम्/सर्गः ४४|सर्गः ४०]]
| next = [[../सर्गः ४६|सर्गः ४६]]
| next = [[रामायणम्/सुन्दरकाण्डम्/सर्गः ४६|सर्गः ४६]]
| notes =
| notes =
}}
}}
{{रामायणम्/सुन्दरकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥'''
<div class="verse">
<pre>

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।

०७:४९, ७ जनवरी २०१६ इत्यस्य संस्करणं

← सर्गः ४० रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४६ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । 
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।। 

महाबलपरीवारा धनुष्मन्तो महाबलाः । 
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।। 

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । 
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।। 

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । 
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।। 

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् । 
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।। 

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः । 
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।। 

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । 
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।। 

अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः । 
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।। 

स शरान् मोघयामास तेषामाशुचरः कपिः । 
रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।। 

स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । 
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।। 

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । 
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।। 

तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः । 
मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।। 

प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । 
केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।। 

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । 
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।। 

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । 
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।। 

स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि । 
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।। 

स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः । 
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.४५।।
</poem>