"रामायणम्/सुन्दरकाण्डम्/सर्गः ४२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{header
| title = [[../../]]
| title = [[../]]
| author = वाल्मीकिः
| author = वाल्मीकिः
| translator =
| translator =
| section = सर्गः ४२
| section = सुन्दरकाण्डम्
| previous = [[../सर्गः ४१|सर्गः ४१]]
| previous = [[रामायणम्/सुन्दरकाण्डम्/सर्गः ४१|सर्गः ४१]]
| next = [[../सर्गः ४३|सर्गः ४३]]
| next = [[रामायणम्/सुन्दरकाण्डम्/सर्गः ४३|सर्गः ४३]]
| notes =
| notes =
}}
}}
{{रामायणम्/सुन्दरकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥'''
<div class="verse">
<pre>

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।।
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।।

०७:४६, ७ जनवरी २०१६ इत्यस्य संस्करणं

← सर्गः ४१ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४३ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । 
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। ५.४२.१।। 

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः । 
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। ५.४२.२।। 

ततो गतायां निद्रायां राक्षस्यो विकृताननाः । 
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। ५.४२.३।। 

स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः । 
चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। ५.४२.४।। 

ततस्तं गिरिसङ्काशमतिकायं महाबलम् । 
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।। ५.४२.५।। 

को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः । 
कथं त्वया सहानेन संवादः कृत इत्युत ।। ५.४२.६।। 

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । 
संवादमसितापाङ्गे त्वया किं कृतवानयम् ।। ५.४२.७।। 

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी । 
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।। ५.४२.८।। 

यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति । 
अहिरेव ह्यहेः पादान् विजानाति न संशयः ।। ५.४२.९।। 

अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् । 
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।। ५.४२.१०।। 

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः । 
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।। ५.४२.११।। 

रावणस्य समीपे तु राक्षस्यो विकृताननाः । 
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। ५.४२.१२।। 

अशोकवनिकामध्ये राजन् भीमवपुः कपिः । 
सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।। ५.४२.१३।। 

न च तं जानकी सीता हरिं हरिणलोचना । 
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।। ५.४२.१४।। 

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा । 
प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।। ५.४२.१५।। 

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् । 
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। ५.४२.१६।। 

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः । 
यत्र सा जानकी सीता स तेन न विनाशितः ।। ५.४२.१७।। 

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते । 
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।। ५.४२.१८।। 

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता । 
प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।। ५.४२.१९।। 

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि । 
सीता संभाषिता येन तद्वनं च विनाशितम् ।। ५.४२.२०।। 

मनःपरिगृहीतां तां तव रक्षोगणेश्वर । 
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।। ५.४२.२१।। 

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः । 
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।। ५.४२.२२।। 

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः । 
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ५.४२.२३।। 

आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् । 
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।। ५.४२.२४।। 

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।। ५.४२.२५।। 

निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः । 
महोदरा महादंष्ट्रा घोररूपा महाबलाः । 
युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। ५.४२.२६।। 

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् । 
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।। ५.४२.२७।। 

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः । 
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।। ५.४२.२८।। 

मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः । 
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।। ५.४२.२९।। 

हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः । 
क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।। ५.४२.३०।। 

स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः । 
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। ५.४२.३१।। 

तस्यास्फोटितशब्देन महता सानुनादिना । 
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।। ५.४२.३२।। 

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । 
राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.४२.३३।। 

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । 
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। ५.४२.३४।। 

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । 
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। ५.४२.३५।। 

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । 
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ५.४२.३६।। 

तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः । 
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।। ५.४२.३७।। 

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् । 
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४२.३८।। 

स तैः परिवृतः शूरैः सर्वतः स महाबलः । 
आससादायसं भीमं परिघं तोरणाश्रितम् ।। 
स तं परिघमादय जघान रजनीचरान् ।। ५.४२.३९।। 

स पन्नगमिवादाय स्फुरन्तं विनतासुतः । 
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।। ५.४२.४०।। 

स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः । 
युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।। ५.४२.४१।। 

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः । 
निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।। ५.४२.४२।। 

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः । 
समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ।। ५.४२.४३।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ।। ५.४२।।
</poem>