"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) १४ अवतरण: rigveda and other pages
(भेदः नास्ति)

०८:४४, २० मार्च् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.५


आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥१॥
पुरूतमं पुरूणामीशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुते ॥२॥
स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
गमद्वाजेभिरा स नः ॥३॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
तस्मा इन्द्राय गायत ॥४॥
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
सोमासो दध्याशिरः ॥५॥
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥६॥
आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
शं ते सन्तु प्रचेतसे ॥७॥
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
त्वां वर्धन्तु नो गिरः ॥८॥
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
यस्मिन्विश्वानि पौंस्या ॥९॥
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
ईशानो यवया वधम् ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५&oldid=3999" इत्यस्माद् प्रतिप्राप्तम्