"गणेशपंचरत्न स्तोत्रम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
पङ्क्तिः ३०: पङ्क्तिः ३०:
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्।।
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्।।
</poem>
</poem>

[[वर्गः:स्तोत्राणि]]

०५:१६, ६ डिसेम्बर् २०१४ समयस्य संस्करणम्

{{header

। title      =  गणेशपंचरत्न स्तोत्रम्
। author     = 
। translator = 
। section    =
। previous   = 
। next       = 
। year       = 
। notes      = w:गणेशपंचरत्न स्तोत्रम्।गणेशपंचरत्न स्तोत्रम्

}}


मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासि लोकरक्षकम् ।
अनायकैक नायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकम् ।।१।।

नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं । महेश्वरं तमाश्रये परात्परं निरन्तरम् ।।२।।

समस्त लोकसंकरं निरस्तदैत्यकुंजरम्। दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम्।।३।।

अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् । पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्।
प्रपंच नाशभीषणं धनंजयादि भूषणम्। कपोलदानवारणं भजे पुराणवारणम् ।।४।।

नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् । अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्।
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्। तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।।५।।

फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम्। प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्।
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्।।