"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.3 तृतीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> अभि त्वा पूर्वपीतय ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.7.3 तृतीयोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 स...
(भेदः नास्ति)

११:३६, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं




अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः |
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं || १५७३ ||

१अ
१छ्

अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि |
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा || १५७४ ||

२अ
२छ्

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः |
इन्द्राग्नी इष आ वृणे || १५७५ ||

१अ
१छ्

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं |
साकमेकेन कर्मणा || १५७६ ||

२अ
२छ्

इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः |
ऋतस्य पथ्याऽऽ३ अनु || १५७७ ||

३अ
३छ्

इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च |
युवोरप्तूर्यं हितं || १५७८ ||

४अ
४छ्

शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः |
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि || १५७९ ||

१अ
१छ्

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः |
न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर || १५८० ||

२अ
२छ्

त्वं ह्येहि चेरवे विदा भगं वसुत्तये |
उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये || १५८१ ||

१अ
१छ्

त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे |
आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे || १५८२ ||

२अ
२छ्

यो विश्वा दयते वसु होता मन्द्रो जनानां |
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये || १५८३ ||

१अ
१छ्

अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः |
उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनां || १५८४ ||

२अ
२छ्

इमं मे वरुण श्रुधी हवमद्या च मृडय |
त्वामवस्युरा चके || १५८५ ||

१अ
१छ्

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् |
कया स्तोतृभ्य आ भर || १५८६ ||

१अ
१छ्

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे |
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये || १५८७ ||

१अ
१छ्

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् |
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः || १५८८ ||

२अ
२छ्

विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते |
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु || १५८९ ||

१अ
१छ्

१०

अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः |
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः |
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः || १५९० ||

१अ
१छ्
१ए

प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः |
अग्मन्नुक्थानि प्ॐस्येन्द्रं जैत्राय हर्षयत |
वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता || १५९१ ||

२अ
२छ्
२ए

त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे |
परावतो न साम तद्यत्रा रणन्ति धीतयः |
त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे | १५९२ ||

३अ
३छ्
३ए

११

उत नो गोषणिं धियमश्वसां वाजसामुत |
नृवत्कृणुह्यूतये || १५९३ ||

१अ
१छ्

१२

शशमानस्य वा नरः स्वेदस्य सत्यशवसः |
विदा कामस्य वेनतः || १५९४ ||

१अ
१छ्

१३

उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये |
सुमृडीका भवन्तु नः || १५९५ ||

१अ
१छ्

१४

प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे |
शुची उप प्रशस्तये || १५९६ ||

१अ
१छ्

पुनाने तन्वा मिथः स्वेन दक्षेण राजथः |
ऊह्याथे सनादृतं || १५९७ ||

२अ
२छ्

मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतं |
परि यज्ञं नि षेदथुः || १५९८ ||

३अ
३छ्

१५

अयमु ते समतसि कपोत इव गर्भधिं |
वचस्तच्चिन्न ओहसे || १५९९ ||

१अ
१छ्

स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते |
विभूतिरस्तु सूनृता || १६०० ||

२अ
२छ्

ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो |
समन्येषु ब्रवावहै || १६०१ ||

३अ
३छ्

१६

गाव उप वदावटे महि यज्ञस्य रप्सुदा |
उभा कर्णा हिरण्यया || १६०२ ||

१अ
१छ्

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु |
अवटस्य विसर्जने || १६०३ ||

२अ
२छ्

सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानं |
नीचीनबारमक्षितं || १६०४ ||

३अ
३छ्

१७

मा भेम मा श्रमिष्मोग्रस्य सख्ये तव |
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं || १६०५ ||

१अ
१छ्

सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति |
मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब || १६०६ ||

२अ
२छ्

१८

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम |
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत || १६०७ ||

१अ
१छ्

अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे |
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये || १६०८ ||

२अ
२छ्

१९

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः |
तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः || १६०९ ||

१अ
१छ्

तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः |
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः || १६१० ||

२अ
२छ्

२०

गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव |
शुचिं च वर्णमधि गोषु धार्य || १६११ ||

१अ
१छ्

स नो हरीणां पत इन्दो देवप्सरस्तमः |
सखेव सख्ये नर्यो रुचे भव || १६१२ ||

२अ
२छ्

सनेमि त्वमस्मदा अदेवं कं चिदत्रिणं |
साह्वां इन्दो परि बाधो अप द्वयुं || १६१३ ||

३अ
३छ्

२१

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते |
सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते || १६१४ ||

१अ
१छ्

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति |
अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः || १६१५ ||

२अ
२छ्

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः |
हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः || १६१६ ||

३अ
३छ्