"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> उपप्रयन्तो अध्वरं ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.6.2 द्वितीयोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6...
(भेदः नास्ति)

११:३५, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये |
आरे अस्मे च शृण्वते || १३७९ ||

१अ
१छ्

यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु |
अरक्षद्दाशुषे गयं || १३८० ||

२अ
२छ्

स नो वेदो अमात्यमग्नी रक्षतु शन्तमः |
उतास्मान्पात्वंहसः || १३८१ ||

३अ
३छ्

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि |
धनञ्जयो रणेरणे || १३८२ ||

४अ
४छ्

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः |
अरं वहन्त्याशवः || १३८३ ||

१अ
१छ्

अच्छा नो याह्या वहाभि प्रयांसि वीतये |
आ देवान्त्सोमपीतये || १३८४ ||

२अ
२छ्

उदग्ने भारत द्युमदजस्रेण दविद्युतत् |
शोचा वि भाह्यजर || १३८५ ||

३अ
३छ्

प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः |
अप श्वानमराधसं हता मखं न भृगवः || १३८६ ||

१अ
१छ्

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः |
सरज्जारो न योषणां वरो न योनिमासदं || १३८७ ||

२अ
२छ्

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी |
हरिः पवित्रे अव्यत वेधा न योनिमासदं || १३८८ ||

३अ
३छ्

अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि |
युधेदापित्वमिच्छसे || १३८९ ||

१अ
१छ्

न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः |
यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे || १३९० ||

२अ
२छ्

आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये |
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये || १३९१ ||

१अ
१छ्

आ त्वा रथे हिरण्यये हरी मयूरशेप्या |
शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये || १३९२ ||

२अ
२छ्

पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव |
परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते || १३९३ ||

३अ
३छ्

आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं |
वनप्रक्षमुदप्रुतं || १३९४ ||

१अ
१छ्

सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने |
ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ||१३९५ ||

२अ
२छ्

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया |
समिद्धः शुक्र आहुतः || १३९६ ||

१अ
१छ्

गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे |
सीदन्नृतस्य योनिमा || १३९७ ||

२अ
२छ्

ब्रह्म प्रजावदा भर जातवेदो विचर्षणे |
अग्ने यद्दीदयद्दिवि || १३९८ ||

३अ
३छ्

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसं |
सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता || १३९९ ||

१अ
१छ्

भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शंसन् |
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ || १४०० ||

२अ
२छ्

समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे |
अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः || १४०१ ||

३अ
३छ्

एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना |
शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु || १४०२ ||

१अ
१छ्

इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः |
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य || १४०३ ||

२अ
२छ्

इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे |
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि || १४०४ ||

३अ
३छ्

१०

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः |
देवस्य द्रविणस्यवः || १४०५ ||

१अ
१छ्

अग्निर्जुषत नो गिरो होता यो मानुषेष्वा |
स यक्षद्दैव्यं जनं || १४०६ ||

२अ
२छ्

त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः |
त्वया यज्ञं वि तन्वते || १४०७ ||

३अ
३छ्

११

अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः |
वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि || १४०८ ||

१अ
१छ्

शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि |
तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ||१४०९ ||

२अ
२छ्

उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी |
अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ||१४१० ||

३अ
३छ्

१२

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः |
त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः || १४११ ||

१अ
१छ्

तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे |
महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ||१४१२ ||

२अ
२छ्

१३

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं |
अस्य यज्ञस्य सुक्रतुं || १४१३ ||

१अ
१छ्

अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषं |
स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि || १४१४ ||

२अ
२छ्

१४

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः |
स यन्ता शश्वतीरिषः || १४१५ ||

१अ
१छ्

न किरस्य सहन्त्य पर्येता कयस्य चित् |
वाजो अस्ति श्रवाय्यः || १४१६ ||

२अ
२छ्

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता |
विप्रेभिरस्तु सनिता || १४१७ ||

३अ
३छ्

१५

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः |
हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी || १४१८ ||

१अ
१छ्

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः |
मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः || १४१९ ||

२अ
२छ्

उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः |
मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः || १४२० ||

३अ
३छ्

१६

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः |
आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः || १४२१ ||

०अ
०छ्

भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये |
अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय || १४२२ ||

०अ
०छ्

१७

त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि |
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत || १४२३ ||

१अ
१छ्

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे |
तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः || १४२४ ||

२अ
२छ्

ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु |
येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत || १४२५ ||

३अ
३छ्

१८

अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः |
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुं || १४२६ ||

१अ
१छ्

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः |
अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम || १४२७ ||

२अ
२छ्

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः |
अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः || १४२८ ||

३अ
३छ्

१९

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय |
तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं || १४२९ ||

१अ
१छ्

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः |
तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वं || १४३० ||

२अ
२छ्

आमासु पक्वमैरय आ सूर्यं रोहयो दिवि |
घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ||१४३१ ||

३अ
३छ्

२०

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः |
वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः || १४३२ ||

१अ
१छ्

आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः |
सहावां इन्द्र सानसिः पृतनषाडमर्त्यः || १४३३ ||

२अ
२छ्

त्वं हि शूरः सनिता चोदयो मनुषो रथं |
सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा || १४३४ ||

३अ
३छ्