"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.2 द्वितीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> अक्रान्त्समुद्रः ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.5.2 द्वितीयोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5...
(भेदः नास्ति)

११:३४, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः |
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः || १२५३ ||

१अ
१छ्

मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः |
मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम || १२५४ ||

२अ
२छ्

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् |
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः || १२५५ ||

३अ
३छ्

एष देवो अमर्त्यः पर्णवीरिव दीयते |
अभि द्रोणान्यासदं || १२५६ ||

१अ
१छ्

एष विप्रैरभिष्टुतोऽपो देवो वि गाहते |
दधद्रत्नानि दाशुषे || १२५७ ||

२अ
२छ्

एष विश्वानि वार्या शूरो यन्निव सत्वभिः |
पवमानः सिषासति || १२५८ ||

३अ
३छ्

एष देवो रथर्यति पवमानो दिशस्यति |
आविष्कृणोति वग्वनुं || १२५९ ||

४अ
४छ्

एष देवो विपन्युभिः पवमान ऋतायुभिः |
हरिर्वाजाय मृज्यते || १२६० ||

५अ
५छ्

एष देवो विपा कृतोऽति ह्वरांसि धावति |
पवमानो अदाभ्यः || १२६१ ||

६अ
६छ्

एष दिवं वि धावति तिरो रजांसि धारया |
पवमानः कनिक्रदत् ||१२६२ ||

७अ
७छ्

एष दिवं व्यासरत्तिरो रजांस्यस्पृतः |
पवमानः स्वध्वरः || १२६३ ||

८अ
८छ्

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः |
हरिः पवित्रे अर्षति || १२६४ ||

९अ
९छ्

एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः |
धारया पवते सुतः || १२६५ ||

१०अ
१०छ्

एष धिया यात्यण्व्य शूरो रथेभिराशुभिः |
गच्छन्निन्द्रस्य निष्कृतं || १२६६ ||

१अ
१छ्

एष पुरू धियायते बृहते देवतातये |
यत्रामृतास आशत || १२६७ ||

२अ
२छ्

एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः |
प्रचक्राणं महीरिषः || १२६८ ||

३अ
३छ्

एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा |
यदी तुञ्जन्ति भूर्णयः || १२६९ ||

४अ
४छ्

एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः |
पतिः सिन्धूनां भवन् ||१२७० ||

५अ
५छ्

एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा |
नृम्णा दधान ओजसा || १२७१ ||

६अ
६छ्

एष वसूनि पिब्दनः परुषा ययिवां अति |
अव शादेषु गच्छति || १२७२ ||

७अ
७छ्

एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे |
स्वायुधं मदिन्तमं || १२७३ ||

८अ
८छ्

एष उ स्य वृषा रथोऽव्या वारेभिरव्यत |
गच्छन्वाजं सहस्रिणं || १२७४ ||

१अ
१छ्

एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः |
इन्दुमिन्द्राय पीतये || १२७५ ||

२अ
२छ्

एष स्य मानुषीष्वा श्येनो न विक्षु सीदति |
गच्छं जारो न योषितं || १२७६ ||

३अ
३छ्

एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः |
य इन्दुर्वारमाविशत् ||१२७७ ||

४अ
४छ्

एष स्य पीतये सुतो हरिरर्षति धर्णसिः |
क्रन्दन्योनिमभि प्रियं || १२७८ ||

५अ
५छ्

एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः |
याभिर्मदाय शुम्भते || १२७९ ||

६अ
६छ्

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः |
अव्यो वारं वि धावति || १२८० ||

१अ
१छ्

एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः |
विश्वा धामान्याविशन् ||१२८१ ||

२अ
२छ्

एष देवः शुभायतेऽधि योनावमर्त्यः |
वृत्रहा देववीतमः || १२८२ ||

३अ
३छ्

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः |
अभि द्रोणानि धावति || १२८३ ||

४अ
४छ्

एष सूर्यमरोचयत्पवमानो अधि द्यवि |
पवित्रे मत्सरो मदः || १२८४ ||

५अ
५छ्

एष सूर्येण हासते संवसानो विवस्वता |
पतिर्वाचो अदाभ्यः || १२८५ ||

६अ
६छ्

एष कविरभिष्टुतः पवित्रे अधि तोशते |
पुनानो घ्नन्नप द्विषः || १२८६ ||

१अ
१छ्

एष इन्द्राय वायवे स्वर्जित्परि षिच्यते |
पवित्रे दक्षसाधनः || १२८७ ||

२अ
२छ्

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः |
सोमो वनेषु विश्ववित् ||१२८८ ||

३अ
३छ्

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः |
इन्दुः सत्राजिदस्तृतः || १२८९ ||

४अ
४छ्

एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः |
पुनान इन्दुरिन्द्रमा || १२९० ||

५अ
५छ्

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति |
देवावीरघशंसहा || १२९१ ||

६अ
६छ्

स सुतः पीतये वृषा सोमः पवित्रे अर्षति |
विघ्नन्रक्षांसि देवयुः || १२९२ ||

१अ
१छ्

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः |
अभि योनिं कनिक्रदत् ||१२९३ ||

२अ
२छ्

स वाजी रोचना दिवः पवमानो वि धावति |
रक्षोहा वारमव्ययं || १२९४ ||

३अ
३छ्

स त्रितस्याधि सानवि पवमानो अरोचयत् |
जामिभिः सूर्यं सह || १२९५ ||

४अ
४छ्

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः |
सोमो वाजमिवासरत् ||१२९६ ||

५अ
५छ्

स देवः कविनेषितो३ऽभि द्रोणानि धावति |
इन्दुरिन्द्राय मंहयन् ||१२९७ ||

६अ
६छ्

यः पावमानीरध्येत्यृषिभिः सम्भृतं रसं |
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना || १२९८ ||

१अ
१छ्

पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसं |
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं || १२९९ ||

२अ
२छ्

पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः |
ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितं || १३०० ||

३अ
३छ्

पावमानीर्दधन्तु न इमं लोकमथो अमुं |
कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः || १३०१ ||

४अ
४छ्

येन देवाः पवित्रेणात्मानं पुनते सदा |
तेन सहस्रधारेण पावमानीः पुनन्तु नः || १३०२ ||

५अ
५छ्

पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनं |
पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति || १३०३ ||

६अ
६छ्

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे |
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं || १३०४ ||

१अ
१छ्

स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः |
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः || १३०५ ||

२अ
२छ्

त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः |
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः || १३०६ ||

३अ
३छ्

१०

महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव |
स्तोमैर्वत्सस्य वावृधे || १३०७ ||

१अ
१छ्

कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं |
जामि ब्रुवत आयुधा || १३०८ ||

१अ
१छ्

प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः |
विप्रा ऋतस्य वाहसा || १३०९ ||

१अ
१छ्

११

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत |
जीरा अजिरशोचिषः || १३१० ||

१अ
१छ्

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः |
हरिश्चन्द्रो मरुद्गणः || १३११ ||

२अ
२छ्

पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः |
दधत्स्तोत्रे सुवीर्यं || १३१२ ||

३अ
३छ्

१२

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः |
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः || १३१३ ||

१अ
१छ्

नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः |
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं || १३१४ ||

२अ
२छ्

१३

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् |
पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ||१३१६ ||

१अ
१छ्

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे |
स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे || १३१७ ||

२अ
२छ्

कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि |
अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं || १३१८ ||

३अ
३छ्

१४

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः || १३१९ ||

१अ
१छ्

अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः |
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ||१३२० ||

२अ
२छ्

१५

यत इन्द्र भयामहे ततो नो अभ्यं कृधि |
मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि || १३२१ ||

१अ
१छ्

त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता |
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || १३२२ ||

२अ
२छ्

१६

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे |
पवस्व मंहयद्रयिः || १३२३ ||

१अ
१छ्

त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः |
इन्दुः सत्राजिदस्तृतः || १३२४ ||

२अ
२छ्

त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् |
द्युमन्तं शुष्मा भर || १३२५ ||

३अ
३छ्

१७

पवस्व देववीतय इन्दो धाराभिरोजसा |
आ कलशं मधुमान्त्सोम नः सदः || १३२६ ||

१अ
१छ्

तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः |
त्वां देवासो अमृताय कं पपुः || १३२७ ||

२अ
२छ्

आ नः सुतास इन्दवः पुनाना धावता रयिं |
वृष्टिद्यावो रीत्यापः स्वर्विदः || १३२८ ||

३अ
३छ्

१८

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण |
यो देवान्विश्वां इत्परि मदेन सह गच्छति || १३२९ ||

१अ
१छ्

द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं |
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः || १३३० ||

२अ
२छ्

इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे |
नरे च दक्षिणावते वीराय सदनासदे || १३३१ ||

३अ
३छ्

१९

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय || १३३२ ||

१अ

प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय || १३३३ ||

२अ

शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं || १३३४ ||

३अ

२०

उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं |
इन्दुं देवा अयासिषुः || १३३५ ||

१अ
१छ्

तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव |
य इन्द्रस्य हृदंसनिः || १३३६ ||

२अ
२छ्

अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं |
वर्धा समुद्रमुक्थ्यं || १३३७ ||

३अ
३छ्

२१

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् |
येषामिन्द्रो युवा सखा || १३३८ ||

१अ
१छ्

बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः |
येषामिन्द्रो युवा सखा || १३३९ ||

२अ
२छ्

अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः |
येषामिन्द्रो युवा सखा || १३४० ||

३अ
३छ्

२२

य एक इद्विदयते वसु मर्त्ताय दाशुषे |
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग || १३४१ ||

१अ
१छ्

यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति |
उग्रं तत्पत्यते शव इन्द्रो अङ्ग || १३४२ ||

२अ
२छ्

कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् |
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग || १३४३ ||

३अ
३छ्

२३

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः |
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे || १३४४ ||

१अ
१छ्

यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं |
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति || १३४५ ||

२अ
२छ्

युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा |
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || १३४६ ||

३अ
३छ्