"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> ज्योतिर्यज्ञस्य प... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.4.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 च...
(भेदः नास्ति)

११:३३, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं




ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः |
दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः || १०३१ ||

१अ
१छ्

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |
हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा || १०३२ ||

२अ
२छ्

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि |
अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे || १०३३ ||

३अ
३छ्

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया |
शुक्रासो वीरयाशवः || १०३४ ||

१अ
१छ्

शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः |
छ् पवन्ते वारे अव्यये || १०३५ ||

२अ
०२

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |
पवन्तामान्तरिक्ष्या || १०३६ ||

३अ
३छ्

पवस्व देववीरति पवित्रं सोम रंह्या |
इन्द्रमिन्दो वृषा विश || १०३७ ||

१अ
१छ्

आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः |
आ योनिं धर्णसिः सदः || १०३८ ||

२अ
२छ्

अधुक्षत प्रियं मधु धारा सुतस्य वेधसः |
अपो वसिष्ट सुक्रतुः || १०३९ ||

३अ
३छ्

महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः |
यद्गोभिर्वासयिष्यसे || १०४० ||

४अ
४छ्

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः |
सोमः पवित्रे अस्मयुः || १०४१ ||

५अ
५छ्

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः |
सं सूर्येण दिद्युते || १०४२ ||

६अ
६छ्

गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः |
याभिर्मदाय शुम्भसे || १०४३ ||

७अ
७छ्

तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे |
तव प्रशस्तये महे || १०४४ ||

८अ
८छ्

गोषा इन्दो नृषा अस्यश्वसा वाजसा उत |
आत्मा यज्ञस्य पूर्व्यः || १०४५ ||

९अ
९छ्

अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया |
पर्जन्यो वृष्टिमां इव || १०४६ ||

१०अ
१०छ्

सना च सोम जेषि च पवमान महि श्रवः |
अथा नो वस्यसस्कृधि || १०४७ ||

१अ
१छ्

सना ज्योतिः सना स्वा३र्विश्वा च सोम सौभगा |
अथा नो वस्यसस्कृधि || १०४८ ||

२अ
२छ्

सना दक्षमुत क्रतुमप सोम मृधो जहि |
अथा नो वस्यसस्कृधि || १०४९ ||

३अ
३छ्

पवीतारः पुनीतन सोममिन्द्राय पातवे |
अथा नो वस्यसस्कृधि || १०५० ||

४अ
४छ्

त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः |
अथा नो वस्यसस्कृधि || १०५१ ||

५अ
५छ्

तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यं |
अथा नो वस्यसस्कृधि || १०५२ ||

६अ
६छ्

अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिं |
अथा नो वस्यसस्कृधि || १०५३ ||

७अ
७छ्

अभ्या३र्षानपच्युतो वाजिन्त्समत्सु सासहिः |
अथा नो वस्यसस्कृधि || १०५४ ||

८अ
८छ्

त्वां यज्ञैरवीवृधन्पवमान विधर्मणि |
अथा नो वस्यसस्कृधि || १०५५ ||

९अ
९छ्

रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर |
अथा नो वस्यसस्कृधि || १०५६ ||

१०अ
१०छ्

तरत्स मन्दी धावति धारा सुतस्यान्धसः |
तरत्स मन्दी धावति || १०५७ ||

१अ
१छ्

उस्रा वेद वसूनां मर्त्तस्य देव्यवसः |
तरत्स मन्दी धावति || १०५८ ||

२अ
२छ्

ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे |
तरत्स मन्दी धावति || १०५९ ||

३अ
३छ्

आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे |
तरत्स मन्दी धावति || १०६० ||

४अ
४छ्

एते सोमा असृक्षत गृणानाः शवसे महे |
मदिन्तमस्य धारया || १०६१ ||

१अ
१छ्

अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि |
सनद्वाजः परि स्रव || १०६२ ||

२अ
२छ्

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः |
गृणानो जमदग्निना || १०६३ ||

३अ
३छ्

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया |
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || १०६४ ||

१अ
१छ्

भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयं |
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव || १०६५ ||

२अ
२छ्

शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतं |
त्वमादित्यां आ वह तान्ह्यू३श्मस्यग्ने सख्ये मा रिषामा वयं तव || १०६६ ||

३अ
३छ्

प्रति वां सूर उदिते मित्रं गृणीषे वरुणं |
अर्यमणं रिशादसं || १०६७ ||

१अ
१छ्

राया हिरण्यया मतिरियमवृकाय शवसे |
इयं विप्रामेधसातये || १०६८ ||

२अ
२छ्

ते स्याम देव वरुण ते मित्र सूरिभिः सह |
इषं स्वश्च धीमहि || १०६९ ||

३अ
३छ्

भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः |
वसु स्पार्हं तदा भर || १०७० ||

१अ
१छ्

यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति |
वसु स्पार्हं तदा भर || १०७१ ||

२अ
२छ्

यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं |
वसु स्पार्हं तदा भर || १०७२ ||

३अ
३छ्

१०

यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु |
इन्द्राग्नी तस्य बोधतं || १०७३ ||

१अ
१छ्

तोशासा रथयावाना वृत्रहणापराजिता |
इन्द्राग्नी तस्य बोधतं || १०७४ ||

२अ
२छ्

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |
इन्द्राग्नी तस्य बोधतं || १०७५ ||

३अ
३छ्

११

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
अर्कस्य योनिमासदं || १०७६ ||

१अ
१छ्

तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं |
सं त्वा मृजन्त्यायवः || १०७७ ||

२अ
२छ्

रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे |
पवमानस्य मरुतः || १०७८ ||

३अ
३छ्

१२

मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||

१अ
१छ्

पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० ||

२अ
२छ्

१३

एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं |
समादित्येभिरख्यत || १०८१ ||

१अ
१छ्

समिन्द्रेणोत वायुना सुत एति पवित्र आ |
सं सूर्यस्य रश्मिभिः || १०८२ ||

२अ
२छ्

स नो भगाय वायवे पूष्णे पवस्व मधुमान् |
चारुर्मित्रे वरुणे च || १०८३ ||

३अ
३छ्

१४

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |
क्षुमन्तो याभिर्मदेम || १०८४ ||

१अ
१छ्

आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः |
ऋणोरक्षं न चक्र्योः || १०८५ ||

२अ
२छ्

आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां |
ऋणोरक्षं न शचीभिः || १०८६ ||

३अ
३छ्

१५

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि द्यविद्यवि || १०८७ ||

१अ
१छ्

उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद्रेवतो मदः || १०८८ ||

२अ
२छ्

अथा ते अन्तमानां विद्याम सुमतीनां |
मा नो अति ख्य आ गहि || १०८९ ||

३अ
३छ्

१६

उभे यदिन्द्र रोदसी आपप्राथोषा इव |
महान्तं त्वा महीनां सम्राजं चर्षणीनां |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९० ||

१अ
१छ्
१ए

दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः |
पूर्वेण मघवन्पदा वयामजो यथा यमः |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९१ ||

२अ
२छ्
२ए

अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं |
अधस्पदं तमीं कृधि यो अस्मां अभिदासति |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||१०९२ ||

३अ
३छ्
३ए

१७

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् |
मदेषु सर्वधा असि || १०९३ ||

१अ
१छ्

त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः |
मदेषु सर्वधा असि || १०९४ ||

२अ
२छ्

त्वे विश्वे सजोषसो देवासः पीतिमाशत |
मदेषु सर्वधा असि || १०९५ ||

३अ
३छ्

१८

स सुन्वे यो वसूनां यो रायामानेता य इडानां |
सोमो यः सुक्षितीनां || १०९६ ||

१अ
१छ्

यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः |
आ येन मित्रावरुणा करामह एन्द्रमवसे महे || १०९७ ||

२अ
२छ्

१९

तं वः सखायो मदाय पुनानमभि गायत |
शिशुं न हव्यैः स्वदयन्त गूर्तिभिः || १०९८ ||

१अ
१छ्

सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते |
देवावीर्मदो मतिभिः परिष्कृतः || १०९९ ||

२अ
२छ्

अयं दक्षाय साधनोऽयं शर्धाय वीतये |
अयं देवेभ्यो मधुमत्तरः सुतः || ११०० ||

३अ
३छ्

२०

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः |
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः || ११०१ ||

१अ
१छ्

ते पूतासो विपश्चितः सोमासो दध्याशिरः |
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते || ११०२ ||

२अ
२छ्

सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि |
इषमस्मभ्यमभितः समस्वरन्वसुविदः || ११०३ ||

३अ
३छ्

२१

अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व |
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ||११०४ ||

१अ
१छ्

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे |
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय || ११०५ ||

२अ
२छ्

महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे |
अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः || ११०६ ||

३अ
३छ्

२२

अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः || ११०७ ||

१अ

वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः || ११०८ ||

२अ

तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः || ११०९ ||

३अ

२३

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः || १११० ||

१अ

यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु || ११११ ||

२अ

आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ||१११२ ||

३अ

२४

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || १११३ ||

१अ

अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः || १११४ ||

२अ

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || १११५ ||

३अ