"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.3.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 त...
(भेदः नास्ति)

११:३२, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि |
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः || ८८६ ||

१अ
१छ्

उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः |
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति || ८८७ ||

२अ
२छ्

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः |
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि || ८८८ ||

३अ
३छ्

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं |
ज्योतिर्वैश्वानरं बृहत् ||८८९ ||

१अ
१छ्

पवमान रसस्तव मदो राजन्नदुच्छुनः |
वि वारमव्यमर्षति || ८९० ||

२अ
२छ्

पवमानस्य ते रसो दक्षो वि राजति द्युमान् |
ज्योतिर्विश्वं स्वर्दृशे || ८९१ ||

३अ
३छ्

प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः |
घ्नन्तः कृष्णामप त्वचं || ८९२ ||

१अ
१छ्

सुवितस्य मनामहेऽति सेतुं दुराय्यं |
साह्याम दस्युमव्रतं || ८९३ ||

२अ
२छ्

शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः |
चरन्ति विद्युतो दिवि || ८९४ ||

३अ
३छ्

आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् |
अश्ववत्सोम वीरवत् ||८९५ ||

४अ
४छ्

पवस्व विश्वचर्षण आ मही रोदसी पृण |
उषाः सूर्यो न रश्मिभिः || ८९६ ||

५अ
५छ्

परि नः शर्मयन्त्या धारया सोम विश्वतः |
सरा रसेव विष्टपं || ८९७ ||

६अ
६छ्

आशुरर्ष बृहन्मते परि प्रियेण धाम्ना |
यत्र देवा इति ब्रुवन् ||८९८ ||

१अ
१छ्

परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः |
वृष्टिं दिवः परि स्रव || ८९९ ||

२अ
२छ्

अयं स यो दिवस्परि रघुयामा पवित्र आ |
सिन्धोरूर्मा व्यक्षरत् ||९०० ||

३अ
३छ्

सुत एति पवित्र आ त्विषिं दधान ओजसा |
विचक्षाणो विरोचयन् ||९०१ ||

४अ
४छ्

आविवासन्परावतो अथो अर्वावतः सुतः |
इन्द्राय सिच्यते मधु || ९०२ ||

५अ
५छ्

समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः |
इन्दुमिन्द्राय पीतये || ९०३ ||

६अ
६छ्

हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं |
महामिन्दुं महीयुवः || ९०४ ||

१अ
१छ्

पवमान रुचारुचा देवो देवेभ्यः सुतः |
विश्वा वसून्या विश || ९०५ ||

२अ
२छ्

आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः |
इषे पवस्व संयतं || ९०६ ||

३अ
३छ्

जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे |
घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः || ९०७ ||

१अ
१छ्

त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने |
स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः || ९०८ ||

२अ
२छ्

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते |
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः || ९०९ ||

३अ
३छ्

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा |
ममेदिह श्रुतं हवं || ९१० ||

१अ
१छ्

राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे |
सहस्रस्थूण आशाते || ९११ ||

२अ
२छ्

ता सम्राजा घृतासुती आदित्या दानुनस्पती |
सचेते अनवह्वरं || ९१२ ||

३अ
३छ्

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः |
जघान नवतीर्नव || ९१३ ||

१अ
१छ्

इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं |
तद्विदच्छर्यणावति || ९१४ ||

२अ
२छ्

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं |
इत्था चन्द्रमसो गृहे || ९१५ ||

३अ
३छ्

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |
अभ्राद्वृष्टिरिवाजनि || ९१६ ||

१अ
१छ्

शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |
ईशाना पिप्यतं धियः || ९१७ ||

२अ
२छ्

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |
मा नो रीरधतं निदे || ९१८ ||

३अ
३छ्

१०

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |
मरुद्भ्यो वायवे मदः || ९१९ ||

१अ
१छ्

सं देवैः शोभते वृषा कविर्योनावधि प्रियः |
पवमानो अदाभ्यः || ९२० ||

२अ
२छ्

पवमान धिया हितो३ऽभि योनिं कनिक्रदत् |
धर्मणा वायुमारुहः || ९२१ ||

३अ
३छ्

११

तवाहं सोम रारण सख्य इन्दो दिवेदिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ ||

१अ
१छ्

तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ ||

२अ
२छ्

१२

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः |
शुम्भन्ति विप्रं धीतिभिः || ९२४ ||

१अ
१छ्

आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं |
ध्रुवे सदसि सीदतु || ९२५ ||

२अ
२छ्

नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणं || ९२६ ||

३अ
३छ्

१३

पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर्बाहुभ्यां सुयतो नार्वा || ९२७ ||

१अ
१छ्

यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि |
स त्वामिन्द्र प्रभूवसो ममत्तु || ९२८ ||

२अ
२छ्

बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं |
इमा ब्रह्म सधमादे जुषस्व || ९२९ ||

३अ
३छ्

१४

विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ९३० ||

१अ
१छ्

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे |
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः || ९३१ ||

२अ
२छ्

समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये |
स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः || ९३२ ||

३अ
३छ्

१५

यो राजा चर्षणीनां याता रथेभिरध्रिगुः |
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे || ९३३ ||

१अ
१छ्

इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि |
हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः || ९३४ ||

२अ
२छ्

१६

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः |
स्वानैर्याति कविक्रतुः || ९३५ ||

१अ
१छ्

स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् |
महान्मही ऋतावृधा || ९३६ ||

२अ
२छ्

प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः |
वीत्यर्ष पनिष्टये || ९३७ ||

३अ
३छ्

१७

त्वं ह्या३ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः |
अमृतत्वाय घोषयन् ||९३८ ||

१अ
१छ्

येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे |
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत || ९३९ ||

२अ
२छ्

१८

सोमः पुनान ऊर्मिणाव्यं वारं वि धावति |
अग्रे वाचः पवमानः कनिक्रदत् ||९४० ||

१अ
१छ्

धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं |
अभि त्रिपृष्ठं मतयः समस्वरन् ||९४१ ||

२अ
२छ्

असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः |
पुनानो वाचं जनयन्नसिष्यदत् ||९४२ ||

३अ
३छ्

१९

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः |
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || ९४३ ||

१अ
१छ्

ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां |
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ||९४४ ||

२अ
२छ्

प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः |
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ||९४५ ||

३अ
३छ्

२०

अग्निं वो वृधन्तमध्वराणां पुरूतमं |
अच्छा नप्त्रे सहस्वते || ९४६ ||

१अ
१छ्

अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या |
अस्य क्रत्वा यशस्वतः || ९४७ ||

२अ
२छ्

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत् ||९४८ ||

३अ
३छ्

२१

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं |
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने || ९४९ ||

१अ
१छ्

न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे |
न किष्ट्वानु मज्मना न किः स्वश्व आनशे || ९५० ||

२अ
२छ्

इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन |
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः || ९५१ ||

३अ
३छ्

२२

इन्द्र जुषस्व प्र वहा याहि शूर हरिह |
पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय || ९५२ ||

१अ
१छ्

इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न |
अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः || ९५३ ||

२अ
२छ्

इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न |
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य || ९५४ ||

३अ
३छ्