"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प्रथमप्रपाठकः/2.1.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> उपास्मै गायता नरः प... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 2.1.1 प्रथमोऽर्द्धः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प...
(भेदः नास्ति)

११:२९, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

उपास्मै गायता नरः पवमानायेन्दवे |
अभि देवां इयक्षते || ६५१ ||

१अ
१छ्

अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः |
देवं देवाय देवयु || ६५२ ||

२अ
२छ्

स नः पवस्व शं गवे शं जनाय शमर्वते |
शं राजन्नोषधीभ्यः || ६५३ ||

३अ
३छ्

दविद्युतत्या रुचा परिष्टोभन्त्या कृपा |
सोमाः शुक्रा गवाशिरः || ६५४ ||

१अ
१छ्

हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् |
सीदन्तो वनुषो यथा || ६५५ ||

२अ
२छ्

ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे |
पवस्व सूर्यो दृशे || ६५६ ||

३अ
३छ्

पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते |
अर्वन्तो न श्रवस्यवः || ६५७ ||

१अ
१छ्

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये |
अवावशन्त धीतयः || ६५८ ||

२अ
२छ्

अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः |
अग्मन्नृतस्य योनिमा || ६५९ ||

३अ
३छ्

अग्न आ याहि वीतये गृणानो हव्यदातये |
नि होता सत्सि बर्हिषि || ६६० ||

१अ
१छ्

तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि |
बृहच्छोचा यविष्ठ्य || ६६१ ||

२अ
२छ्

स नः पृथु श्रवाय्यमच्छा देव विवाससि |
बृहदग्ने सुवीर्यं || ६६२ ||

३अ
३छ्

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं |
मध्वा रजांसि सुक्रतू || ६६३ ||

१अ
१छ्

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः |
द्राघिष्ठाभिः शुचिव्रता || ६६४ ||

२अ
२छ्

गृणाना जमदग्निना योनावृतस्य सीदतं |
पातं सोममृतावृधा || ६६५ ||

३अ
३छ्

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं |
एदं बर्हिः सदो मम || ६६६ ||

३अ
३छ्

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना |
उप ब्रह्माणि नः शृणु || ६६७ ||

३अ
३छ्

ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः |
सुतावन्तो हवामहे || ६६८ ||

३अ
३छ्

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं |
अस्य पातं धियेषिता || ६६९ ||

१अ
१छ्

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः |
अया पातमिमं सुतं || ६७० ||

२अ
२छ्

इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे |
ता सोमस्येह तृम्पतां || ६७१ ||

३अ
३छ्

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |
उग्रं शर्म महि श्रवः || ६७२ ||

१अ
१छ्

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः |
वरिवोवित्परि स्रव || ६७३ ||

२अ
२छ्

एना विश्वान्यर्य आ द्युम्नानि मानुषाणां |
सिषासन्तो वनामहे || ६७४ ||

३अ
३छ्

पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ६७५ ||

१अ
१छ्

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||

२अ
२छ्

१०

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष |
अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति || ६७७ ||

१अ
१छ्

स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः |
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः || ६७८ ||

२अ
२छ्

ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन |
स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां || ६७९ ||

३अ
३छ्

११

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः |
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः || ६८० ||

१अ
१छ्

न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते |
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे || ६८१ ||

२अ
२छ्

१२

कया नश्चित्र आ भुवदूती सदावृधः सखा |
कया शचिष्ठया वृता || ६८२ ||

१अ
१छ्

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः |
दृढा चिदारुजे वसु || ६८३ ||

२अ
२छ्

अभी षु णः सखीनामविता जरित्ऱीणां |
शतं भवास्यूतये || ६८४ ||

३अ
३छ्

१३

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः |
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || ६८५ ||

१अ
१छ्

द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं |
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे || ६८६ ||

२अ
२छ्

१४

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये |
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं || ६८७ ||

१अ
१छ्

न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः |
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं || ६८८ ||

२अ
२छ्

१५

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |
इन्द्राय पातवे सुतः || ६८९ ||

१अ
१छ्

रक्षोहा विश्वचर्षणिरभि योनिमयोहते |
द्रोणे सधस्थमासदत् ||६९० ||

२अ
२छ्

वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः |
पर्षि राधो मघोनां || ६९१ ||

३अ
३छ्

१६

पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः |
महि द्युक्षतमो मदः || ६९२ ||

१अ
१छ्

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः |
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः || ६९३ ||

२अ
२छ्

१७

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः |
श्रुष्टे जातास इन्दवः स्वर्विदः || ६९४ ||

१अ
१छ्

अयं भराय सानसिरिन्द्राय पवते सुतः |
सोमो जैत्रस्य चेतति यथा विदे || ६९५ ||

२अ
२छ्

अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं |
वज्रं च वृषणं भरत्समप्सुजित् ||६९६ ||

३अ
३छ्

१८

पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं || ६९७ ||

१अ
१छ्

यो धारया पावकया परिप्रस्यन्दते सुतः |
इन्दुरश्वो न कृत्व्यः || ६९८ ||

२अ
२छ्

तं दुरोषमभी नरः सोमं विश्वाच्या धिया |
यज्ञाय सन्त्वद्रयः || ६९९ ||

३अ
३छ्

१९

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते |
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ||७०० ||

१अ
१छ्

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः |
दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः || ७०१ ||

२अ
२छ्

अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये |
अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि || ७०२ ||

३अ
३छ्

२०

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे |
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं || ७०३ ||

१अ
१छ्

ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये |
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां || ७०४ ||

२अ
२छ्

२१

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः |
एभिर्वर्धास इन्दुभिः || ७०५ ||

१अ
१छ्

यत्र क्व च ते मनो दक्षं दधस उत्तरं |
तत्रा योनिं कृणवसे || ७०६ ||

२अ
२छ्

न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते |
अथा दुवो वनवसे || ७०७ ||

३अ
३छ्

२२

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः |
वज्रिञ्चित्रं हवामहे || ७०८ ||

१अ
१छ्

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् |
त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं || ७०९ ||

२अ
२छ्

२३

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे |
उदेव ग्मन्त उदभिः || ७१० ||

१अ
१छ्

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि |
ववृध्वांसं चिदद्रिवो दिवेदिवे || ७११ ||

२अ
२छ्

पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा |
इन्द्रवाहा स्वर्विदा || ७१२ ||

३अ
३छ्