"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.9 नवमी दशतिः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<table> <tr><td><p> पवस्व मधुमत्तम इन्द्राय सोम क्रतुवि... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 1.1.6.9 नवमी दशतिः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आ...
(भेदः नास्ति)

११:१०, ७ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं


पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः |
महि द्युक्षतमो मदः || ५७८ ||

१अ
१छ्

अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुं |
वि कोशं मध्यमं युव || ५७९ ||

२अ
२छ्

आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं |
वनप्रक्षमुदप्रुतं || ५८० ||

३अ
३छ्

एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहं |
विश्वा वसूनि बिभ्रतं || ५८१ ||

४अ
४छ्

स सुन्वे यो वसूनां यो रायामानेता य इडानां |
सोमो यः सुक्षितीनां || ५८२ ||

५अ
५छ्

त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः |
अमृतत्वाय घोषयन् ||५८३ ||

६अ
६छ्

एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः |
क्रीडन्नूर्मिरपामिव || ५८४ ||

७अ
७छ्

य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा |
अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज |
ॐ वर्मीव धृष्णवा रुज || ५८५ ||

८अ
८छ्
८ए