"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: , 4 . ७२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- इति वैताभिः। इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे भवत्येव सह ।... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३३, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, 4 . ७२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने-

इति वैताभिः।

इत्येतदाच्छिद्रिकमन्वाधानमेताभिविहव्याभिः सह वा कर्तव्यम् । सर्वाभिरिति पक्षे भवत्येव सह । एकैकयाऽन्वाधानपक्षेऽपि वैकयाऽऽहवनीयेऽन्वाधानं कृत्वाऽत्रैव तिसृभिराच्छिद्रिकर्षिभरेवमपरयोरित्येकः पक्षः । द्वितीयस्तु प्रथममेवोक्तप्रकारेण त्रया- णां विहव्याभिः कृत्वा पश्चात्पुनः पृथगेवोकमाच्छिद्रिकर्मन्त्रैरतत्तथैव कार्यमित्यर्थः । सभ्यावसथ्ययोः केवलमाच्छिद्रिकाम्यामन्वाधान तयाख्यातमेव । नन्वन्यन्वाधानमे. कमेव देवतापरिग्रहद्वारा दृष्टार्थमिति सर्वसूत्रकारसंमतम् । तदिदं वाजसनेयिन आहुः-'कस्य देवा गृहानागच्छन्ति कस्य न यः पूर्वेधुर्ममाग्न इत्यग्नीन्गृह्णाति । इति । वाक्येनार्थवादरूपेण विहन्यान्वाधानमेव वक्ष्यमाणदेवतापरिग्रहद्वारा दृष्टार्थ- मित्याहुः । तत्रापि ज्ञापकमध्याहुः-दीक्षणीयाया अनन्तरास्विष्टिषु यदन्वाधानं निवर्त. यति कात्यायनस्तद्देवतापरिग्रहार्थेऽन्वाधाने सत्युपपद्यते । तत्र दोक्षणीयया देवतापरि- ग्रहस्य जातत्वादित्यभिप्रायं वर्णयन्ति । यतः 'आनोवैष्णवमेकादशकपालं निषेदी- क्षिप्यमाणोऽग्निवरायो विष्णुः परायस्तावन्तरेण सर्वाश्चैता देवताश्च सर्व च यज्ञमा- रभ्य दीक्षते ' इति । प्रधानार्थीया अपि दीक्षणीयाया अर्थवादबलेनाङ्गप्रधानदेवताप रिग्रहोऽपि प्रयोजनान्तरमङ्गी क्रियते । अतो दीक्षणीययाऽर्थवादेन सर्वाश्चेति श्रुत्याऽ. प्रधानदेवतापरिग्रहः साध्यते । अतो दीक्षणीयानन्तरेष्टिषु चाग्न्यन्वाधानं प्रतिषिः ध्यत इति वर्णयन्ति । आपस्तम्बादिमिरप्येवमेवाङ्गीकृतम् । तेषां त्वम्यन्वाधानस्य देवतापरिग्रहार्थत्वे लिङ्गमातिथ्येष्टयादिष्वान्यन्वाधानप्रतिषेध एव । तेषामप्यर्थवादेन कस्य वा ह देवा यज्ञमागच्छन्तीत्याापक्रम्याग्निं गृह्णाति स्व एवाऽऽयतने देवताः परिगृह्णातीत्युपसंहारादग्निग्रहणरूपेणान्यन्वाधानेन देवतापरिग्रहलक्षणं कार्य साध्यते । दीक्षणीयगा वाऽग्निः सर्वा देवता विष्णुयशो देवताश्चैव यज्ञं चाऽऽरमत इति । तत्रा- रन्यन्वारम्भेणान्यन्वाधानसिद्धिः । तथा देवता एवोभयतः परिगृह्य यजमानोऽव- रुन्ध इति । तथाऽग्नेरङ्गप्रधानार्थस्याऽऽरम्भेण तत्कार्यमङ्गप्रधानदेवतापारिग्रहो देवता एवोमयतः परिगृह्येत्यर्थवादेनैव सिध्यतीति नाऽऽतिथ्यादिवान्यन्वाधानमिति । एवं च दृष्टार्थत्वे विहव्यान्वाधानस्य सिद्ध आच्छिद्रिकान्वाधानं व्यर्थमेव । नापि तत्र विधि. रस्ति । मलिङ्गं तु याजमाननपेनाप्युपपन्नमिति चेत् । अत्रोच्यते-विहव्यान्वाधानमिदं न दृष्टार्थ हि दृश्यते । अर्थवादेन चेदेवं तेषाभवास्तु शाखिनाम् ।। येषां तु विधिरेवास्ति देवतानां परिग्रहे। न तैः कल्प्योऽर्थवदिन देवतानां परिग्रहः ॥ . 1 १छ. : क्षः । अन हि । २ क, ग. च. छ. ट. व. ड. षु वाऽन्यः ।