"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: प्र० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ६५ पूर्वा चतुर्दशीयुक्तामुपवसेत् । यदि परेारसंपूर्णेत्यभिमसूत्रपालोचनयाऽर्थासित ध्येत् । संपूर्णा वेति, तस्... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

२०:२७, १९ अक्टोबर् २०२१ समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ६५ पूर्वा चतुर्दशीयुक्तामुपवसेत् । यदि परेारसंपूर्णेत्यभिमसूत्रपालोचनयाऽर्थासित ध्येत् । संपूर्णा वेति, तस्याः साम्येन विहितायाः परम्परया प्रतिपदा संयुक्तामित्यर्था- स्यात् । संपूर्णा द्विधाविभक्तस्य दिवसस्य प्रयमार्धव्यापिस्वेन स्थितामित्यर्थः । तथा चासंपूर्णा चेत्परा तर्हि पूर्वी पौर्णमासीमित्यर्थादवगतम् । अत्रैवावान्तरभेदेन सद्य. स्कालो ज्ञेयः । तथा पूर्वाममावास्यामत्रापि समानं यदहन दृश्यत इति । तत्रापि पूर्व- युक्ता यस्मिन्दिने न दृश्यतेऽमावास्या तत्र संपूर्णममावास्यामित्याकृष्य योज्यं पूर्ववत् । अत्र संग्रहः-ौते कर्मणि मध्याह्नापरावाभ्यां विभज्यते । दिन स्मात' नवधा विभक्तेऽययुनोंऽशकाः ।। प्रातः पर्वाप्रवेशेऽपि स्यात्तदैव गुपक्रमः । संकल्पादिरिमामूर्नमिति मन्त्रो न लुप्यते ।। कालात्ययेऽपि कस्यांचित्तियौ सद्योऽपि न क्षतिः । सद्यः परिस्तृतौ लोप उभावनो मनोभवेत् ॥ अग्निं गृह्णामि सुरथमत्र श्व इति लुप्यते । विकृतिष्वपि सर्वासु सद्यस्कालामु चोहनम् ॥ पौर्णमासीविकारे तु नोहः प्रकृतिलोपतः । इमामूजमिति प्राप्तं सर्व स्यात्तु यथातिथि ॥ प्रतिपद्यवशिष्टायां यागः स्यान्न विलम्बनम् | विकृतिष्वपि सर्वासु यदि पूर्व यजिभवेत् ॥ नित्येन हविषेष्ट्वा तु ततः स्यान्न विलम्बनम् । योग औपवासथ्येऽति पूर्व पश्चात्तु नित्यतः ॥ न विशेषोऽस्ति कश्चित्त सत्याषाढानुशासनात् । विकृतिष्वपि सामर्थ्यावयहता वा पशावपि ।। पूर्वत्रोपक्रम कृत्वा यागं कुर्यात्तु पर्वणि । ततोऽपराहे रात्री वा नित्ययाग उपक्रमः ।। पशोनित्यस्य सद्योऽपि पूर्व पश्चाद्यनिर्भवेत् । काम्येष्टिपशुबन्धानां नित्ययागादनन्तरम् ।। काम्यकाण्डस्थितप्रायश्चित्तष्टिपशवन्धयोः । काम्येष्टौ यदि सानाय्यं तदा नित्येष्टयुपक्रमात् ॥ पूर्व पर्वणि यष्टव्यं सायं दोहस्ततः पुरा । काम्येष्टि पश्वा वास्ति ब्यहता कापि चेच्छया ।। १क.गच.ट.उ.मस्याः। १क, च.छ.. आग। $