"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: ३३ १५० पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । इति स्मरणात्संकल्पादीनामुपवासशब्देन ग्रहणम् । सिद्धान्तमाह- संपूर्णां वा । वेति पूर्वपक्षव्यावृत्तिरन्यत... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:२४, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ १५० पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । इति स्मरणात्संकल्पादीनामुपवासशब्देन ग्रहणम् । सिद्धान्तमाह-

संपूर्णां वा ।

वेति पूर्वपक्षव्यावृत्तिरन्यतरद्गौणे काले कर्तव्यमिति यदुक्तं तनेति । कुतः । संपूर्णी पौर्णमासीमेवोपवसेत् , पञ्चदशीमित्यर्थः, पौर्णमास्यामेव । यागस्य मुख्ये काळे प्रतिपदि विधानात् । 'पक्षान्ता उपवस्तव्याः पक्षादयो यष्टव्याः' इति स्मृतेः । तथा संधिममितो यजतीतिश्रुतेः पर्वप्रतिपदोः संधिर्यागमध्य उक्तो विरुध्येत । ताह किम- यमुक्त पौर्णमास्यां यजेतेति परदिने यागो गौण एवाऽऽपद्येतेति । न । उमयदिनात्मको मुख्यः कालो यतः संधिमभितो यजतीति चन्द्रपूरणनिमित्तोपलक्षिता पौर्णमासी दिनदया- मिका यागायोक्ता । संपूर्णा पूर्वदिनामिकां पौर्णमासीशब्दवाच्या पूर्वामुपवसेदित्याकृ- ध्यते पूर्वसूत्र सर्वमपि । तथा च चन्द्रपूरणवती द्वितीयाऽपि पौर्णमासी तिधिस्तत्र यष्टव्य- मित्यर्थादुक्तं भवति । गोभिलः–'यः परमो विप्रकर्षः सूर्याचन्द्रमप्लोः सा पौर्णमासी यः परमः संनिकर्षः साऽमावास्या'।क्षणमात्रमेव परमविप्रकर्षसनिकर्षशब्दवाच्यमुभयत्रापि पर्वप्रतिपदोः स एव संधानं तदुभयोरपि तिथ्योः सममेवेति तिथिद्वयात्मकः कालः स एवं क्षणश्चन्द्रस्य पूरणसंबन्धेनोपलक्षितः । तथा च श्रुतिः ‘पूर्णो मासो येन क्षणेन भवति सः' इति । तथा पूर्णो मासश्चन्द्रमा यस्मिन्क्षणे स इत्यपि पूर्णमासस्य निर्वचनदर्शनात् । तथा च श्रुतिः(तौ) 'ऊर्ध्वं मध्यरात्रात्पौर्णमास्यां चन्द्रमाः पूर्यते ' इत्यादिना क्षणस्वैव परमपूर्णत्वेनोपलक्षणत्वं परमविप्रकृष्टत्वेन च तिथ्योयोरे. वोक्तम् । परदिनात्मकत्वात्पूर्वामित्युक्तम् । तथाचायमर्थः-संपूर्णा दिनद्वयसाध्ययागाय संपूर्णी मुख्यामेव पौर्णमासी पूर्वा पूर्वदिनात्मिकामेवोपवासाय विहितामुपवसेत्परदि- नामिका पौर्णमासी मुख्यैव पूरणगुणयोगिनी यागकालत्वेन साक्षाद्विहिता पौर्ण- मास्यां यजेतेति सामर्थ्याचुक्ता । अनेन च पौर्णमासीशब्दार्थे प्रदर्शिते पूर्णमाप्त- शब्दोऽपि समानार्थत्वेन व्याख्यातो ज्ञेयः । तत्र पूर्णो मासश्चन्द्रमा यस्मिन्क्षणे तद्युक्तं तिथिद्वयं पौर्णमासी तेनोपलक्षितं तिथिद्वयं पूर्णमास इति न तद्धितोत्पत्तिः । संज्ञया रूढस्य पुंलिङ्गता । यथा यागत्रये पुंलिङ्गे पौर्णमास्यमावास्याशब्दौ रूढ्या स्त्रीलिङ्गी, दर्शपूर्णमासशब्दौ च तत्रैव पुंलिङ्गौ, तत्पर्यायत्वं न विरुध्यते, उभयोरे- कप्रवृत्तिनिमित्तत्वात्पर्यायत्वम् । तथा च श्रोते कर्मणि सर्वत्रेष्टिपशुसोमात्मके पूरण- गुणयोगादेव पौर्णमासीशब्दोदितः कालो दिनद्वयात्मकः प्रवर्तते, तथाऽमावास्या- शब्दोऽपि गुणान्तरादेव पिण्डपितृयज्ञादौ स्मार्तेषु च लोकप्रसिद्ध एव । कुतः । तस्मा- स्पितृभ्यः पूर्वेयुः क्रियत इति यागात्पूर्व एव दिवस इति दिङ्मात्रम् । , -