"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: 1 १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । परस्परसेदः कालभेदात्। 'अग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति द्रव्य- देवतासंबन्धानुवादाद्यागः पूर्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:२२, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । परस्परसेदः कालभेदात्। 'अग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति द्रव्य- देवतासंबन्धानुवादाद्यागः पूर्ववदेव कल्पितः । - आग्नेयो वै ब्राह्मणोऽनोपोमीयेनेष्ट्या सौम्यो भवति ' इति शाखान्तरीयो विशिष्टाधिकरणो विधि कल्पिकोऽस्माकं क्षत्रि यवैश्ययोस्तु नित्य एवाग्नीषोमीयः । संनयदसंनयतोयवस्थया सानाय्यैन्द्राग्नयोविकल्प इत्यर्थः । ऐन्द्राग्नपक्षे यागद्वयममावास्यायाम् । सानाय्यं चैन्द्रं दध्यमावास्यायामैन्द्र पंयोऽमावास्यायामिति यागद्वयं, तद्रूड्या समुदितं सानाध्यम् । निर्वचनमपि ' यत्समनयन्तत्सांनाय्यस्य सांनाय्यत्वम् ' इति । तत्तु सोमयाज्यसोमयानिनोरपि । 'नासोमयानी संनयेत् । इति, कापेयाः संनयेरनिति च वक्ष्यमाणत्वात्तत्र यागत्रयम् ।

तदङ्गमितरे होमाः।

पूर्व सर्वकामौ दर्शपूर्णमासाविति शाखान्तरीयमधिकारविधि प्रदर्थ तस्य दर्श. पूर्णमासाम्यां सर्वान्कामोन्मादयेदिति वाक्याथ मत्वा कथमिति भावनायामङ्गाकाक्षिण्यां प्रत्येकोत्पन्नत्वेन सर्वाकाङ्क्षानिवृत्त्यर्थं तौ समानविधानावित्यनेन श्रुत्यादिप्रमाणे- रसंनिधिमनोहत्य कथंपादाकाक्षितत्वेन गृहीतैः पदार्थेः प्राकरणिकैरुपकृत्येत्युक्त्वा दृष्टार्थाङ्गानामसाधारण्येन प्राप्तेऽदृष्टोपकाराभावेऽदृष्टकल्पनाप्रप्तङ्गेन प्रश्ने तृतीये विचारयिष्यति । निर्देशादित्यनेन च प्रकरणे व्यवस्थाभावं परिहत्य प्रयोगभेदेऽपि न तयोः शब्दान्तरादिभिर्भेदोऽस्तीत्येवं ताम्यामित्यनेन पूर्व दर्शप्रयोगभेदमुक्त्वा समु- दायद्वित्वोपात्तसमुदायनामभ्यामनुष्ठानक्रममुक्त्वोत्पत्तिकालोपाधिकृतनामभ्यां समुदा- यानुवादेन द्वित्वसंख्याममावास्यायाममावास्यया यजत इत्यादिनोपपायोत्पत्त्यधी- नस्वरूपी ताविति द्रव्यदेवतात्मभ्यां निरूपितरूपयागाना(णां) कालद्वयसंबन्धन न्यायापेक्षवाक्यप्रतिपाद्यानि स्वरूपाण्युक्त्वा परिशेषसिद्धस्वरूपेण कथंभावापेक्षितोप- कारकाणि साकाङ्क्षत्वेनान्वययोग्यानि दर्शयत्यनेन सूत्रेण । तेषां कालसंवन्धेन प्राप्त- नाम्ना समुदायद्वयेन फलाय विधीयमानानामत एव कथंमावताकाक्षिणामर्थात्तभ्यः कालफलसंबन्धिभ्योऽन्येऽतो निष्फलाः पदार्थी विधिविषयीकृताः परम्परयाऽपि भान्यमिष्टमपेक्षमाणाः प्रधानानामङ्गं भवन्तीत्यर्थः। शेषोऽङ्गमित्यनान्तरम् । इदमपे. क्ष्योक्तं तौ समानविधानौ निर्देशाध्यवतिष्ठेते इति । तेषां यागानां फलवतामितरे भिन्नाः संनिहिताः पदार्था अफला जातिद्रव्यगुणक्रियात्मका अङ्गम् । 'दृष्टादृष्टोमयार्थत्वात्रिधाऽङ्गानि प्रचक्षते । दृष्टार्थ तु चतुर्धा स्याज्जातिव्य गुणक्रियाः ॥ इति । 7 १ ख. ट. "धिकारिणो । २ ट. मान्कामये । ३ क. ग. च. ठ. 'नावृत्य । 7 क. प्राप्ते- नास । ग. प्राप्त न स । च, ठ. प्राप्तानां स । ५ ख.नानी स। ६ क. ग. च, छ. 2. "त्यर्थाच. छ. ट. हितार्थाः प ।