"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: 4 -१५० पटल]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१ संचारे विशेषान्तरमाह- अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः । अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायामम... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:०६, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 -१५० पटल]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५१ संचारे विशेषान्तरमाह-

अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः ।

अन्तराणि यज्ञाङ्गानि केषामित्याकाङ्क्षायाममीना प्राधान्यादुपस्थितिस्तेषामन्तराणि। अन्तरशब्दः परिधानवाची । ततस्तु परिधानमिव संलग्नानि समीपस्थानीत्यर्थः । बाह्या बहिर्भवा बाह्याः । केम्य इत्यपेक्षायां यज्ञाङ्गेभ्य इयुक्तमर्थाद्यतस्तान्यन्तराणि समीपस्थानि । तेषामग्नीनां च मध्ये कर्तृभिर्न संचरणीयमित्यर्थः । कर्तृणां मध्ये यज. मान आन्तरः । ततः पल्येव बाह्या । ताभ्यामध्वर्युरेव, तेभ्यो ब्रह्मैव, ततो होतेव, तत उद्गाता । एवमन्येऽपि ज्ञेयाः।

प्राचीनावीती पित्र्याणि करोति ।

अत्र स्मृत्योपवीतं दैवे पित्र्ये प्राचीनावीतं प्राप्तमेव । तदुक्तं कात्यायनेन- 'उपवीतिनः कुर्वन्ति स्मृतेः' इति, 'विपर्यस्य पित्र्येषु ' इति च । पुरुष संस्कारवेन माप्तस्यायमनुवादः । किमर्थम् , उत्तरार्थमित्युच्यते । एवमुत्सँगै स्माते च प्राप्तेऽपवादमाह-

यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे च ।

पित्र्याणि कर्माणीत्यप्यनुवर्तते । दर्शपूर्णमासयोरग्निहोत्रे च यानि पिच्याणि कर्माणि तानि यज्ञोपवीत्येव कुर्यात् । अयमभिप्रायः-उपवीतीति वकव्ये यज्ञोपवी- तीति स्वाध्यायब्राह्मणप्रत्यभिज्ञानार्थम् । तत्र हि यज्ञोपवीत्येवाधीचीत याजयेद्यनेत वा' इति विहिते पुनरुपव्ययत इति विधिः प्राप्त पुनरारम्भो नियमावेति दर्शपूर्ण- मासयोः पित्र्येऽपि कणि यज्ञोपवीत्येव कुर्यात् । कुतः । यत एतदुपव्ययत इति नियम्यते । न च प्राचीनावीतं पितृणामिति विधिकल्पकमिति वाच्यम् । स्मृत्या प्राप्तस्य कर्मान्तरेऽत्र स्तुत्यर्थत्वेनानुवादसंभवात् । निवीताधिकरणे व्युत्पादितमाचा. पैरेतत् । तथाऽग्निहोत्रस्याप्रत्यभिज्ञानाकर्ममात्रे प्रौप्तस्मार्तयज्ञोपवीतित्वानुवादोऽय- मिति तत्राऽऽचार्यस्याभिमतं, किंतु मृताग्निहोत्रसजातीयं वैकग्निहोत्रं यज्ञोपवीती दोहयतीति दोहधर्मेण बुद्धिस्थं तत्र यज्ञोपवीतित्वविधिरित्युपरिसमिद्धारणवदित्युप- देशः । तेन स्मृत्याऽग्निहोत्र उपवीतित्वप्राप्तावपि यज्ञोपवीतित्वविधानं पियेऽपि नियमार्थमिति । तदपि यज्ञोपवीतीति यज्ञग्रहणेनाधिकन मृताग्निहोत्रे यज्ञोपवीति- शब्दप्रत्यभिज्ञानार्थम् ।

अनियमोऽन्यत्र ।

दर्शपूर्णमासाग्निहोत्रेभ्योऽन्येषु कर्मसु पिव्येषु यज्ञोपवीतीत्यनियमो नियमो नास्ति । १क. स. ग. च. उ. तेन प्रा । २ छ. ट.प्रस्य च. प्राप्त स्मा। 4