"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎अपरिष्कृतम्: । प्र.पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधिनाऽस्य बाघोऽपि द्रष्टव्यः । या वैदिकेषु दविहोमेषु दर्शपूर्णमासतको चाना- मतेष्वेव दर्षिहोमान्व्याख्यास्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:०२, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। प्र.पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधिनाऽस्य बाघोऽपि द्रष्टव्यः । या वैदिकेषु दविहोमेषु दर्शपूर्णमासतको चाना- मतेष्वेव दर्षिहोमान्व्याख्यास्याम इत्यत्रोक्त ज्ञेयम् । कुतः । अत्राऽऽहुतिमात्रस्यानु. क्तद्रव्ये विशेषस्यैव नियमात् । तथा कर्तुविशेषेणानभिधानात् । दर्शपूर्णमासयोई- व्यनियमस्य सोमेऽपि च द्रव्यविशेषस्य वक्ष्यमाणस्वात् । दविहोमेषु तु यत्र द्रव्यं न श्रूयते तत्रैव तूष्णोकेनाऽऽज्येनेति तथाऽध्वर्युरिति नियमसंभवात् । सोमे होमस्य नाना- कर्तृकत्वात् । दर्शपूर्णमासंतोमतन्त्रान्तर्गतोङ्गदव्यकर्तृविरोधात् । तत्रानन्तर्गता अङ्ग- भूताः स्वतन्त्रा वा दर्विहोमशब्देन व्याख्येया इति गम्यते । तेन दर्शपूर्णमासयोरना. देशे चोत्तरतउपचारो विहार इत्युत्तरत एव स्थित्वा जुहुयात्तषेतरधर्माणां परिसंख्या सत्रैव व्याख्यास्यते । तथा सोमेऽपि सोमाहुतीनामपीति ज्ञेयम् । तस्मात्परिशेषाद्दर्श- पौर्णमासतन्त्रान्तर्गतहोमसोमाहुतित्वविधिहोमेभ्योऽन्ये हि तव्यका जुहोतिचोदना. चोरिता दविहोमाः पारिभाषिकधर्मयुक्ता दर्विहोमान्व्याख्यास्याम इत्यत्र व्याख्यास्यन्ते नान्य इति ज्ञेयम् । कर्मनियुक्तानां विहारे स्वेच्छया संधारं निवारयति-

उत्तरतउपचारो विहारः ॥२॥

श्रुतिरवोसरतउपचारो वै यज्ञ इति । तसिस्तृतीयार्थे सप्तम्यर्थे था। विहारस्य य उत्तर. मागस्तेन तत्र वोपसमीपे चारो गमनागमने कार्ये न दक्षिणमागेनेत्यर्थः । तत्रापि सामान्यश्रुतेविशेषलिङ्गादिना बाध आज्यसंस्कारवसतीवरीपरिहारादौ पंक्ष्यते । अनियतदेशस्य कर्मणो देशनियम ध्याचष्टे-

प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं यज्ञे कर्माणि करोति ।

प्राश्मयुदचि च कर्माणि सतिष्ठेरभितिश्रुतेः प्रागपवर्गाणि कर्माण्युदगपवर्गाणि वा करो. तीति नियमः । न्यायः समाप्तिः । तथा प्रदक्षिणं नियम्यन्ते । कात्यायनेन चाऽऽवृत्तौ सामन्ते च प्रायश्चि प्रदक्षिणमिति श्रुत्यनुसारेणोक्तम् । प्रापयुदश्चयावृत्तौ सामन्ते च प्रदक्षिणमिति कर्मावृत्तौ प्राङ्न्यायानीत्यादि । सामन्ते समन्ताद्विहिते कर्मणि प्रद- क्षिणमिति नियमः । तेन न सर्वत्र प्राङ्यायानीति, नापि प्रदक्षिणमिति किंतु पूर्वोक्तव्यवस्थया । यज्ञग्रहणं वैतानिककर्ममात्रमहणार्थम् । या स्मृतिः पिम्येषु दक्षि. जापवर्गाण्यप्रदक्षिणं कर्माणीति सा स्मार्तेष्वेव । अत्र यज्ञग्रहणेन प्रत्यक्षदर्शितश्रुत्यनु। सारेणाविशेषेण देवपित्र्येषु प्राङ्न्यायान्युट्यायानि वा प्रदक्षिणमिति च निय. १ क. ग. ब. छ. उ. 'जुदि । २ ट. शेषणा । ३ क. ग. च. ट, ससाम' । ४. ट. गंतद । ५ क, ग, च. ठ. ताॉई। ६ ख, . र उ । ख. इ. श्रीपूर्ण । ८ द. मासान्त । एक, ख. ग. च. छ. उ. वक्ष्यते। ७