"रामायणम्/उत्तरकाण्डम्/सर्गः १०२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:५०, १३ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः १०१ रामायणम्
सर्गः १०२
वाल्मीकिः
सर्गः १०३ →


तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। ७.१०२.१ ।।

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। ७.१०२.२ ।।

इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। ७.१०२.३ ।।

न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ७.१०२.४ ।।

तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ।। ७.१०२.५ ।।

निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। ७.१०२.६ ।।

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। ७.१०२.७ ।।

अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। ७.१०२.८ ।।

चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। ७.१०२.९ ।।

ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। ७.१०२.१० ।।

अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। ७.१०२.११ ।।

अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। ७.१०२.१२ ।।

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। ७.१०२.१३ ।।

भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। ७.१०२.१४ ।।

उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। ७.१०२.१५ ।।

एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। ७.१०२.१६ ।।

विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। ७.१०२.१७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ।। १०२ ।।