"रामायणम्/युद्धकाण्डम्/सर्गः २९" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
→बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB |
(लघु) युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥ इत्येतद् रामायणम्/युद्धकाण्डम्/सर्गः २९ इत्येतद् प्... |
(भेदः नास्ति)
|
१२:२५, ८ फेब्रवरी २०१२ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥
शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् । लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥ समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् । सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥ अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् । हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥ सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् । गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥ किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः । भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥ अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ । रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥ न तावत् सदृशम् नाम सचिवैर् उपजीविभिः । विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥ रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् । उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥ आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः । सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥ गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते । ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥ किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः । यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥ अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः । राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥ हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ । यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥ अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम । न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥ हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ । एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥ रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ । अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥ उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् । महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥ ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥ तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥ चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् । इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥ मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः । कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥ विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः । चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥ युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते । चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥ शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् । ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥ कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः । ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥ प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ । प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥ ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः । विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥ शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः । मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥ अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे । वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥ पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः । ततो दशग्रीवम् उपस्थितास् ते । चारा बहिर् नित्य चरा निशा चराः । गिरेः सुवेलस्य समीप वासिनम् । न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-२९॥