"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ४८: पङ्क्तिः ४८:


[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]

[http://puranastudy.onlinewebshop.net/pur_index29/sama1.htm संभावित व्याख्या](दर्पणम्)
}}
}}

०१:५१, २४ सेप्टेम्बर् २०२० इत्यस्य संस्करणं

पर्कः-बर्हिष्यम्-पर्कः.
पर्कः-बर्हिष्यम्-पर्कः

अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥ ऋग्वेदः ६.१६.१०


गायत्री छन्दस्कम्

( प्रकृतिगानम् )

अथ ग्रामगेयगानम्

१-१. गोतमस्य पर्कः। गोतमो, गायत्री, अग्निः।

ओग्नाइ ॥ आयाहिऽ३वोइतोयाऽ२इ । तोयाऽ२ई ॥ गृणानोह । व्यदातोयाऽ२इ । तोयाऽ२इ ॥ नाइहोतासाऽ२३ ॥ त्सा२इबाऽ २३४औहोवा । हीऽ२३४षी ॥

(दीर्घ.७,पर्व.९,मात्रा.९)१(झो.१)



१-२. बर्हिष्यम् । कश्यपो, गायत्री, अग्निः ।।

अग्नआयाहिवी । तयाइ । गृणानोहव्यदाताऽ२३याइ ॥ निहोतास त्सिबर्हाऽ२३इषी ॥ बर्हाऽ२षाऽ२३४औहोवा । बर्हीऽ३षीऽ२३४५।।

(दी.९,प.६,मा.६)२(तू.२)



१-३ पर्कः । गोतमो, गायत्री, अग्निः ।।

अग्नआयाहि । वाऽ५ड़तयाइ । गृणानोहव्यदाऽ१ताऽ३ये ॥ निहोता ऽ२३४सा ॥ त्साऽ२३इबाऽ३ ॥ हाऽ२३४इषोऽहाइ ॥

(दी.४,प.६,मा.६)३(तू.३)


आज्यस्तोत्रम् (प्रथम) साम ६६०

जगतीं होतुर् आज्ये। जागतो हि होता। सैषा भवति अग्न आ याहि वीतये इति॥ जैब्रा १.३१९

टिप्पणी

अग्ग्निं प्रतिष्ठाप्याग्न्यभावे तूदकमादित्यं वोपसमाधाय दर्भानुपस्तीर्य्य दर्भेष्वासीनः प्राक्कूलेषूदक्कुलेषु वा दक्षिणेन पाणिना दर्भमुष्टिं गृहीत्वा ॥२॥ प्रथमं त्रिवर्ग्गं नवकृत्वो नवकृत्वो गायेत् ॥३॥ एवं सदा प्रयुञ्जानोऽग्न्याधेयमवाप्नोति ॥सामविधानब्राह्मणम् १.३.४

अथ यः कामयेत सर्वत्राग्निर्म्मे ज्वलेदिति सँवत्सरꣳ शिरसाग्ग्निं धारयेदग्ग्न आ याहि वीतय इति प्रथमेनोपतिष्ठेत् द्वितीयेन परिहरेत् तृतीयेन परिचरेत् सर्वत्र हास्य ज्वलति यदिच्छति तद्दहति ॥सामविधानब्राह्मणम् ३.७.२

अग्न आ याहि वीतये, आ नो मित्रावरुणा, आ याहि सुषुमा हि त, इन्द्राग्नी आ गतं सुतम् इत्य् आ याह्य् आ याहीत्य् आज्यानि भवन्ति। आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तत्। - जैब्रा ३.१२


संभावित व्याख्या

संभावित व्याख्या(दर्पणम्)