"नारदपुराणम्- पूर्वार्धः/अध्यायः ६" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
<poem> |
<poem> |
||
सूत उवाच ।। |
|||
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।। |
|||
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ।। ६-१ ।। |
|||
नारद उवाच ।। |
|||
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।। |
|||
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ।। ६-२ ।। |
|||
सनक उवाच ।। |
|||
शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् ।। |
|||
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ।। ६-३ ।। |
|||
श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ।। |
|||
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ।। ६-४ ।। |
|||
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।। |
|||
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ।। ५-५ ।। |
|||
सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ।। |
|||
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ।। ५-६ ।। |
|||
गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ।। |
|||
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ।। ५-७ ।। |
|||
स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ।। |
|||
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ।। ५-८ ।। |
|||
यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ।। |
|||
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ।। ६-९ ।। |
|||
इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ।। |
|||
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ।। ६-१० ।। |
|||
सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ।। |
|||
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ।। ६-११ ।। |
|||
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ।। |
|||
सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ।। ६-१२ ।। |
|||
विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ।। |
|||
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ।। ६-१३ ।। |
|||
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।। |
|||
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत् ।। ६-१४ ।। |
|||
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।। |
|||
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम ।। ६-१५ ।। |
|||
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।। |
|||
महद्विमानमारुढाः प्रयान्ति परमं पदम् ।। ६-१६ ।। |
|||
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।। |
|||
सहस्त्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ।। ६-१७ ।। |
|||
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच ।। |
|||
पुण्यक्षेत्रेषु सर्वेषउ स्थितवान्नात्र संशयः ।। ६-१८ ।। |
|||
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।। |
|||
मदङ्गस्पर्शेमात्रेण देवानामाधिपो भवेत् ।। ६-१९ ।। |
|||
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।। |
|||
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम् ।। ६-२० ।। |
|||
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।। |
|||
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ।। ६-२१ ।। |
|||
सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ।। |
|||
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ।। ६-२२ ।। |
|||
कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ।। |
|||
वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ।। ६-२३ ।। |
|||
गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ।। |
|||
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ।। ६-२४ ।। |
|||
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।। |
|||
यतो वै नरकं यान्ति गङ्गानात्रि स्थितेऽपि हि ।। ६-२५ ।। |
|||
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।। |
|||
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ।। ६-२६ ।। |
|||
सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ।। |
|||
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। ६-२७ ।। |
|||
योजनत्रितयं यस्तु गङ्गायामधिगच्छति ।। |
|||
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ।। ६-२८ ।। |
|||
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।। |
|||
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत् ।। ६-२९ ।। |
|||
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।। |
|||
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ।। ६-३० ।। |
|||
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।। |
|||
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ।। ६-३१ ।। |
|||
यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ।। |
|||
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ।। ६-३२ ।। |
|||
अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ।। |
|||
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ।। ६-३३ ।। |
|||
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।। |
|||
वाराणसीति विख्यातं सर्वदेवनिषेवितम् ।। ६-३४ ।। |
|||
ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ।। |
|||
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ।। ६-३५ ।। |
|||
ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ।। |
|||
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ।। ६-३६ ।। |
|||
योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ।। |
|||
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।। |
|||
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्वूज ।। |
|||
सोऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात् ।। ६-३८ ।। |
|||
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।। |
|||
पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक् ।। ६-३९ ।। |
|||
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।। |
|||
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ।। ६-४० ।। |
|||
गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विज ।। |
|||
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ।। ६-४१ ।। |
|||
मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ।। |
|||
पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ।। ६-४२ ।। |
|||
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।। |
|||
लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।। |
|||
हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः ।। |
|||
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।। |
|||
अनादिनिधने देवे हरिशंकरसंज्ञिते ।। |
|||
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ।। ६-४५ ।। |
|||
यो देवो जगतामीशः कारणानां च कारणम् ।। |
|||
युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः ।। ६-४६ ।। |
|||
रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।। |
|||
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः ।। ६-४७ ।। |
|||
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।। |
|||
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।। |
|||
हरं हरिं विधातारं यः पश्यत्येकरुपिणम् ।। |
|||
स याति परंमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।। |
|||
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।। |
|||
नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः ।। ६-५० ।। |
|||
काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते ।। |
|||
तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः ।। ६-५१ ।। |
|||
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।। |
|||
सप्तद्वीपासाब्धिशैला भूः परिक्रमितामुना ।। ६-५२ ।। |
|||
धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः ।। |
|||
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ।। ६-५३ ।। |
|||
तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ।। |
|||
पुराणपठनं यत्र यत्र संनिहितो हरिः ।। ६-५४ ।। |
|||
पुराणसंहितावक्ता हरिरित्यभिधीयते ।। |
|||
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानां दिने दिने ।। ६-५५ ।। |
|||
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।। |
|||
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ।। ६-५६ ।। |
|||
पुराणधर्मकथनैर्यः समुद्धरते जगत् ।। |
|||
संसारसागरे मग्नं स हरिः परिकीर्तितः ।। ६-५७ ।। |
|||
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।। |
|||
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ।। ६-५८ ।। |
|||
वर्णानां ब्राह्मणः श्रेष्टस्तारकाणां यथा शशी ।। |
|||
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ।। ६-५९ ।। |
|||
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ।। |
|||
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ।। ६-६० ।। |
|||
गङ्गायाः परमं नाम पापारण्यदवानलः ।। |
|||
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः ।। ६-६१ ।। |
|||
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।। |
|||
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ।। ६-६२ ।। |
|||
गायत्री छन्दसां माता माता लोकस्य जाह्नवी ।। |
|||
उभे ते सर्वपापानां नाशकारणतां गते ।। ६-६३ ।। |
|||
यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ।। |
|||
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।। |
|||
धर्मार्थकामरुपाणां फलरुपे निरञ्जने ।। |
|||
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।। |
|||
अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ।। |
|||
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ।। ६-६६ ।। |
|||
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।। |
|||
हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी ।। |
|||
।। यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।। |
|||
नारायणो जगद्धाता वासुदेवः सनातनः ।। |
|||
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।। |
|||
गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः ।। |
|||
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।। |
|||
यद्विन्दुसेवनादेव सगरान्वयसम्भवः ।। |
|||
विसृज्यराक्षसं भावं संप्रात्पः परमं पदम् ।। ६-७० ।। |
|||
इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ।। ६ ।। |
|||
</poem> |
</poem> |
०८:४९, २७ डिसेम्बर् २०११ इत्यस्य संस्करणं
सूत उवाच ।।
भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः ।।
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम् ।। ६-१ ।।
नारद उवाच ।।
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग ।। ६-२ ।।
सनक उवाच ।।
शुणु ब्रह्मन्तरं गुह्यं सर्वसंपत्करं परम् ।।
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम् ।। ६-३ ।।
श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणम् ।।
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम् ।। ६-४ ।।
क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमम् ।।
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ।। ५-५ ।।
सितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः ।।
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः ।। ५-६ ।।
गङ्गा पुण्यनदी ज्ञेया यतो विष्णुपदोद्भवा ।।
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः ।। ५-७ ।।
स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा मुने ।।
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ।। ५-८ ।।
यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले ।।
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने ।। ६-९ ।।
इयाज वेधा यज्ञेन यत्र देवं रमापतिम् ।।
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् ।। ६-१० ।।
सर्वतीर्थाभिषेकाणि यानि पुण्यानि तानि वै ।।
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम् ।। ६-११ ।।
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शते स्थितः ।।
सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् ।। ६-१२ ।।
विष्णुपादोद्भवा देवी विश्वेश्वरशिरः स्थिता ।।
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै ।। ६-१३ ।।
यत्सैकतं ललाटे तु ध्रियते मनुजोत्तमैः ।।
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत् ।। ६-१४ ।।
यन्मज्जनं महापुण्यं दुर्लभं त्रिदिवौकसाम् ।।
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम ।। ६-१५ ।।
यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः ।।
महद्विमानमारुढाः प्रयान्ति परमं पदम् ।। ६-१६ ।।
यत्र स्नाता महात्मानः पितृमातृकुलानि वै ।।
सहस्त्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै ।। ६-१७ ।।
स स्नातः सर्वतीर्थेषु यो गङ्गां स्मरति द्विच ।।
पुण्यक्षेत्रेषु सर्वेषउ स्थितवान्नात्र संशयः ।। ६-१८ ।।
यत्र स्नातं नरं दृष्ट्वा पापोऽपि स्वर्गभूमिभाक् ।।
मदङ्गस्पर्शेमात्रेण देवानामाधिपो भवेत् ।। ६-१९ ।।
तुलसीमूलसंभूता द्विजपादोद्भवा तथा ।।
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम् ।। ६-२० ।।
गङ्गा च तुलसी चैव हरिभक्तिरचञ्चला ।।
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि ।। ६-२१ ।।
सद्धर्मवक्तुः पदसंभवां मृदं गङ्गोद्भवां चैव तथा तुलस्याः ।।
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः ।। ६-२२ ।।
कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहम् ।।
वाञ्च्छत्यपि च यो ह्येवं सोऽपि विष्णुपदं व्रजेत् ।। ६-२३ ।।
गङ्गाया महिमा ब्रह्मन्वक्तुं वर्षशतैरपि ।।
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः ।। ६-२४ ।।
अहो माया जगत्सर्वं मोहयत्येतदद्भुतम् ।।
यतो वै नरकं यान्ति गङ्गानात्रि स्थितेऽपि हि ।। ६-२५ ।।
संसारदुःख विच्छेदि गङ्गानाम प्रकीर्तितम् ।।
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि ।। ६-२६ ।।
सकृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयम् ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। ६-२७ ।।
योजनत्रितयं यस्तु गङ्गायामधिगच्छति ।।
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि ।। ६-२८ ।।
सेयं गङ्गा महापुण्या नदी भक्त्या निषेविता ।।
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत् ।। ६-२९ ।।
गोदावरी भीमरथी कृष्णा रेवा सरस्वती ।।
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा ।। ६-३० ।।
वेत्रवती ताम्रपर्णी सरयूश्च द्विजोत्तम ।।
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता ।। ६-३१ ।।
यथा सर्वगतो विष्णुर्जगव्द्याप्य प्रतिष्टितः ।।
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी ।। ६-३२ ।।
अहो गङ्गा जगद्धात्री स्नानपानादिभिर्जगत् ।।
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः ।। ६-३३ ।।
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।।
वाराणसीति विख्यातं सर्वदेवनिषेवितम् ।। ६-३४ ।।
ते एव श्रवणे धन्ये संविदाते बहुश्रुतम् ।।
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुताऽसकृत् ।। ६-३५ ।।
ये यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमम् ।।
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै ।। ६-३६ ।।
योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि ।।
बहुपातकपूर्णोऽपि पदं गच्छत्यनामयम् ।। ६-३७ ।।
प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्वूज ।।
सोऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात् ।। ६-३८ ।।
काशीस्मरणजं पुण्यं भुक्त्वा स्वर्गे तदन्ततः ।।
पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक् ।। ६-३९ ।।
बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति ।।
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः ।। ६-४० ।।
गङ्गायमुनयोर्योगोऽधिकः काश्या अपि द्विज ।।
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् ।। ६-४१ ।।
मकरस्थे रवौ गङ्गा यत्र कुत्रावगाहिता ।।
पुनाति स्नानपानाद्यैर्नयन्तीन्द्रपुरं जगत् ।। ६-४२ ।।
यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।।
हरिरुपधरं लिङ्गं लिङ्गरुपधरो हरिः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।
अनादिनिधने देवे हरिशंकरसंज्ञिते ।।
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ।। ६-४५ ।।
यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः ।। ६-४६ ।।
रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः ।। ६-४७ ।।
हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।
हरं हरिं विधातारं यः पश्यत्येकरुपिणम् ।।
स याति परंमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।।
योऽसावनादिः सर्वज्ञो जगतामादिकृद्विभुः ।।
नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः ।। ६-५० ।।
काशीविश्वेश्वरं लिङ्गज्योतिर्लिङ्गं तदुच्यते ।।
तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः ।। ६-५१ ।।
काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी ।।
सप्तद्वीपासाब्धिशैला भूः परिक्रमितामुना ।। ६-५२ ।।
धातुमृद्दारपाषाणलेख्याद्या मूर्तयोऽमलाः ।।
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः ।। ६-५३ ।।
तुलसीकाननं यत्र यत्र पह्मवनं द्विजा ।।
पुराणपठनं यत्र यत्र संनिहितो हरिः ।। ६-५४ ।।
पुराणसंहितावक्ता हरिरित्यभिधीयते ।।
तद्भक्तिं कुर्वतां नॄणां गङ्गास्नानां दिने दिने ।। ६-५५ ।।
पुराणश्रवणे भक्तिर्गङ्गास्नानसमा द्विज ।।
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता ।। ६-५६ ।।
पुराणधर्मकथनैर्यः समुद्धरते जगत् ।।
संसारसागरे मग्नं स हरिः परिकीर्तितः ।। ६-५७ ।।
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः ।।
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम् ।। ६-५८ ।।
वर्णानां ब्राह्मणः श्रेष्टस्तारकाणां यथा शशी ।।
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता ।। ६-५९ ।।
नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात्परं तपः ।।
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी ।। ६-६० ।।
गङ्गायाः परमं नाम पापारण्यदवानलः ।।
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः ।। ६-६१ ।।
गायत्री जाह्नवी चोभे सर्वपापहरे स्मृते ।।
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज ।। ६-६२ ।।
गायत्री छन्दसां माता माता लोकस्य जाह्नवी ।।
उभे ते सर्वपापानां नाशकारणतां गते ।। ६-६३ ।।
यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति ।।
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे ।। ६-६४ ।।
धर्मार्थकामरुपाणां फलरुपे निरञ्जने ।।
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे ।। ६-६५ ।।
अतीव दुर्ल्लभा नॄणां गायत्री जाह्नवी तथा ।।
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी ।। ६-६६ ।।
अहो गङ्गा महाभागा स्मृता पापप्रणाशिनी ।।
हरिलोकप्रदा दृष्टा पीता सारुप्यदायिनी ।।
।। यत्र स्नाता नरा यान्ति विष्णोः पदमनुत्तमम् ।। ६-६७ ।।
नारायणो जगद्धाता वासुदेवः सनातनः ।।
गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः ।। ६-६८ ।।
गङ्गाजलकरणेनापि यः सिक्तो मनुजोत्तमः ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ६-६९ ।।
यद्विन्दुसेवनादेव सगरान्वयसम्भवः ।।
विसृज्यराक्षसं भावं संप्रात्पः परमं पदम् ।। ६-७० ।।
इति श्रीवृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम षष्टोऽध्यायः ।। ६ ।।