"अग्निपुराणम्/अध्यायः ३९" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===भृपरिग्रहविधानम्==== |
|||
<poem> |
<poem> |
||
हयग्रीव उवाच |
|||
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् श्रृणुष्व मे। |
|||
प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया ।। १ ।। |
|||
व्यस्तानि मुनिभिर्लेके पञ्चविंशतिसङ्ख्यया। |
|||
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम् ।। २ ।। |
|||
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम्। |
|||
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं ।। ३ ।। |
|||
सत्योक्तं शौनकं तन्त्रं वासिष्ठंज्ञानसागरम्। |
|||
स्वायम्भुवं कापिलञ्चातार्क्षं नारायणीयकम् ।। ४ ।। |
|||
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम्। |
|||
बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः ।। ५ ।। |
|||
प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः। |
|||
न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ।। ६ ।। |
|||
कामरूपकलिङ्गोत्थः काञ्चीकारमीरकोशलः । |
|||
आकाशवायुतेजोम्बुभूरेताः पञ्च रात्रयः ।। ७ ।। |
|||
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम्। |
|||
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ।। ८ ।। |
|||
सर्व्लक्षणहीनोपि स गुरुस्तन्त्रपारगः। |
|||
नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ।। ९ ।। |
|||
कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः। |
|||
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम् ।। १० ।। |
|||
अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च। |
|||
दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ।। ११ ।। |
|||
नैर्ऋते मन्दिरं कुर्यात् वरूणादेश्चवारुणे। |
|||
वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ।। १२ ।। |
|||
चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः। |
|||
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ।। १३ ।। |
|||
समं वाप्यधिकं वापि न कर्त्तव्यं विजानता। |
|||
उभयोर्द्विगुणां सीमांत्वक्त्वा चोच्छयसम्मिताम् ।। १४ ।। |
|||
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः। |
|||
भूमौ तु शोधितायां तु कुर्याद्भूमिपरिग्रहम् ।। १५ ।। |
|||
प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत्। |
|||
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ।। १६ ।। |
|||
अष्टाक्षरेण सक्तूँश्च पातयित्वाष्टदिक्षु च। |
|||
राक्षसाश्च पिशाचाश्च यस्मिंस्तिष्ठन्ति भूतले ।। १७ ।। |
|||
सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः। |
|||
हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ।। १८ ।। |
|||
परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः। |
|||
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ।। १९ ।। |
|||
तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता। |
|||
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ।। २० ।। |
|||
यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः। |
|||
चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः ।। २१ ।। |
|||
इत्यादिमहापुराणे आग्नेये भूपरिग्रहो नाम ऊनचत्वारिंशोऽध्यायः। |
|||
</poem> |
</poem> |
०३:५४, २३ डिसेम्बर् २०११ इत्यस्य संस्करणं
भृपरिग्रहविधानम्=
हयग्रीव उवाच
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् श्रृणुष्व मे।
प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया ।। १ ।।
व्यस्तानि मुनिभिर्लेके पञ्चविंशतिसङ्ख्यया।
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम् ।। २ ।।
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम्।
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं ।। ३ ।।
सत्योक्तं शौनकं तन्त्रं वासिष्ठंज्ञानसागरम्।
स्वायम्भुवं कापिलञ्चातार्क्षं नारायणीयकम् ।। ४ ।।
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम्।
बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः ।। ५ ।।
प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः।
न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः ।। ६ ।।
कामरूपकलिङ्गोत्थः काञ्चीकारमीरकोशलः ।
आकाशवायुतेजोम्बुभूरेताः पञ्च रात्रयः ।। ७ ।।
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम्।
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः ।। ८ ।।
सर्व्लक्षणहीनोपि स गुरुस्तन्त्रपारगः।
नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः ।। ९ ।।
कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः।
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम् ।। १० ।।
अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च।
दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च ।। ११ ।।
नैर्ऋते मन्दिरं कुर्यात् वरूणादेश्चवारुणे।
वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च ।। १२ ।।
चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः।
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ ।। १३ ।।
समं वाप्यधिकं वापि न कर्त्तव्यं विजानता।
उभयोर्द्विगुणां सीमांत्वक्त्वा चोच्छयसम्मिताम् ।। १४ ।।
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः।
भूमौ तु शोधितायां तु कुर्याद्भूमिपरिग्रहम् ।। १५ ।।
प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत्।
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः ।। १६ ।।
अष्टाक्षरेण सक्तूँश्च पातयित्वाष्टदिक्षु च।
राक्षसाश्च पिशाचाश्च यस्मिंस्तिष्ठन्ति भूतले ।। १७ ।।
सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः।
हलेन वाहयित्वा गां गोभिश्चैवावदारयेत् ।। १८ ।।
परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः।
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ।। १९ ।।
तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता।
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः ।। २० ।।
यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः।
चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः ।। २१ ।।
इत्यादिमहापुराणे आग्नेये भूपरिग्रहो नाम ऊनचत्वारिंशोऽध्यायः।