"अग्निपुराणम्/अध्यायः १५" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===पाण्डवचरितवर्णनम्=== |
|||
<poem> |
<poem> |
||
अग्निरुवाच |
|||
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम्। |
|||
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच ।। १ ।। |
|||
विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः। |
|||
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ।। २ ।। |
|||
धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्। |
|||
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ।। ३ ।। |
|||
यादवानां भारकरं वज्रं राज्येभ्यषेचयत्। |
|||
देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ।। ४ ।। |
|||
इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः। |
|||
बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ।। ५ ।। |
|||
अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः। |
|||
विना तं द्वारकास्थानं प्लावयामास सागरः ।। ६ ।। |
|||
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः। |
|||
स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ।। ७ ।। |
|||
पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः। |
|||
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ।। ८ ।। |
|||
व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ। |
|||
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ।। ९ ।। |
|||
युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा। |
|||
तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः ।। १० ।। |
|||
विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा। |
|||
तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ।। ११ ।। |
|||
प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह। |
|||
संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ।। १२ ।। |
|||
महापथे तु पतिता द्रौपदी सहदेवकः। |
|||
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ।। १३ ।। |
|||
इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान्। |
|||
दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ।। |
|||
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ।। १४ ।। |
|||
</poem> |
</poem> |
०५:५४, २२ डिसेम्बर् २०११ इत्यस्य संस्करणं
पाण्डवचरितवर्णनम्
अग्निरुवाच
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम्।
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच ।। १ ।।
विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः।
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ।। २ ।।
धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्।
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ।। ३ ।।
यादवानां भारकरं वज्रं राज्येभ्यषेचयत्।
देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ।। ४ ।।
इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः।
बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ।। ५ ।।
अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः।
विना तं द्वारकास्थानं प्लावयामास सागरः ।। ६ ।।
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः।
स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ।। ७ ।।
पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः।
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ।। ८ ।।
व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ।
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ।। ९ ।।
युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा।
तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः ।। १० ।।
विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा।
तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ।। ११ ।।
प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह।
संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ।। १२ ।।
महापथे तु पतिता द्रौपदी सहदेवकः।
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ।। १३ ।।
इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान्।
दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः ।।
एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ।। १४ ।।