"अग्निपुराणम्/अध्यायः ११" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===श्रीरामावतारकथनम्=== |
|||
<poem> |
<poem> |
||
नारद उवाच |
|||
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः। |
|||
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ।। १ ।। |
|||
ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी। |
|||
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ।। २ ।। |
|||
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः। |
|||
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ।। ३ ।। |
|||
कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः। |
|||
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ।। ४ ।। |
|||
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली। |
|||
हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ।। ५ ।। |
|||
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः। |
|||
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ।। ६ ।। |
|||
अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्। |
|||
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ।। ७ ।। |
|||
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्। |
|||
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ।। ८ ।। |
|||
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः। |
|||
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ।। ९ ।। |
|||
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ। |
|||
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ।। १० ।। |
|||
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः। |
|||
दशवर्षसहस्त्राणि दशवर्षसतानि च ।। ११ ।। |
|||
राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ। |
|||
सपौरः सानुजः सीतापुत्रो जनपदान्वितः ।। |
|||
अग्निरुवाच |
|||
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्। |
|||
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।। |
|||
इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।। |
|||
</poem> |
</poem> |
०५:२७, २२ डिसेम्बर् २०११ इत्यस्य संस्करणं
श्रीरामावतारकथनम्
नारद उवाच
राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः।
धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ।। १ ।।
ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ।। २ ।।
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः।
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ।। ३ ।।
कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ।। ४ ।।
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली।
हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ।। ५ ।।
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ।। ६ ।।
अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्।
कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ।। ७ ।।
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ।। ८ ।।
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ।। ९ ।।
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ।। १० ।।
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः।
दशवर्षसहस्त्राणि दशवर्षसतानि च ।। ११ ।।
राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ।
सपौरः सानुजः सीतापुत्रो जनपदान्वितः ।।
अग्निरुवाच
वाल्मीकिर्नारदाच्छ्रु त्वा रामायणमकारयत्।
सविस्तरं यदेतच्च श्रृणुयात्स दिवं व्रजेत् ।।
इत्यादिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः ।।