"अग्निपुराणम्/अध्यायः ३७६" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===समाधिः=== |
|||
<poem> |
<poem> |
||
अग्निरुवाच |
|||
यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं । |
|||
चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ।। ३७६.१ ।। |
|||
ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः । |
|||
निर्वातानलवद्योगी समाधिस्थः प्रकीर्त्तितः ।। ३७६.२ ।। |
|||
न श्रृणोति न चाघ्राति न पश्यति न वम्यति । |
|||
न च सपर्शं विजानाति न सङ्कल्पयते मनः ।। ३७६.३ ।। |
|||
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् । |
|||
एवमीश्वरसंलीनः समाधिस्थः स गीयते ।। ३७६.४ ।। |
|||
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । |
|||
ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ।। ३७६.५ ।। |
|||
उपसर्गाः प्रवर्त्तन्ते दिव्याः सिद्धिप्रसूचकाः । |
|||
पातितः श्रावणो धातुर्दशनस्बाङ्गवेदनाः ।। ३७६.६ ।। |
|||
प्रार्थयन्ति च तं देवा भोगैर्दिव्यैश्च योगिनं । |
|||
नृपाश्च पृथिवीदानैर्धनैस्च सुधनाधिपाः ।। ३७६.७ ।। |
|||
वेदादिसर्व्वशास्त्रञ्च स्वयमेव प्रवर्तते । |
|||
अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्त्तते ।। ३७६.८ ।। |
|||
रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा । |
|||
समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ।। ३७६.९ ।। |
|||
सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः । |
|||
तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ।। ३७६.१० ।। |
|||
अणिमादिगुणैश्वर्य्यः शिष्ये ज्ञानं प्रकाश्य च । |
|||
भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः ।। ३७६.११ ।। |
|||
तिष्ठेत् स्वात्भनि विज्ञान आनन्दे ब्रह्मणीश्वरे । |
|||
मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ।। ३७६.१२ ।। |
|||
सर्वाश्रयान्निजे देहे देही विन्दति वेदनां । |
|||
योगयुक्तस्तु सर्व्वेषां योगान्नाप्नोति वेदनां ।। ३७६.१३ ।। |
|||
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् । |
|||
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.१४ ।। |
|||
ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः । |
|||
इमे लोका एष चात्मा तस्माच्च सचराचरं ।। ३७६.१५ ।। |
|||
मृद्दण्ड चक्रसंयोगात् कुम्भकारो यथा घटं । |
|||
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ।। ३७६.१६ ।। |
|||
करणान्येवमादाय तासु तास्विह योनिषु । |
|||
सृजत्यात्मानमात्मैव सम्भूय करणानि च ।। ३७६.१७ । |
|||
कर्मणादोषमोहाभ्यामिच्छयैव स बध्यते । |
|||
ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् ।। ३७६.१८ ।। |
|||
वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । |
|||
विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ।। ३७६.१९ ।। |
|||
अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि । |
|||
सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ।। ३७६.२० ।। |
|||
ऊद्र्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्य्यमण्डलं । |
|||
ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ।। ३७६.२१ ।। |
|||
यदस्यान्यद्रश्मिशतमूद्र्ध्वमेव व्यवस्थितम् । |
|||
तेन देवनिकायानि धामानि प्रतिपद्यते ।। ३७६.२२ ।। |
|||
ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । |
|||
इह कर्मोपभोगाय तैश्च सञ्चरते हि सः ।। ३७६.२३ ।। |
|||
बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च । |
|||
अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ।। ३७६.२४ ।। |
|||
अव्यक्त आत्मा ज्ञेत्रज्ञः क्षेत्रस्यास्य निगद्यते । |
|||
ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ।। ३७६.२५ ।। |
|||
बुद्धेरुत्पत्तिरव्यक्ता ततोऽहङ्कारसम्भवः । |
|||
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ।। ३७६.२६ ।। |
|||
शब्दः स्पर्शश्च रुपञ्च रसों गन्धश्च तद्गुणाः । |
|||
यो यस्मिन्नाश्रितश्चैषां स तस्मिन्नेव लीयते ।। ३७६.२७ ।। |
|||
सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीत्तिताः । |
|||
रजस्तमोब्यामाविष्टश्चक्रवद्भ्राम्यते हि सः ।। ३७६.२८ ।। |
|||
अनादिरादिमान् यश्च स एव पुरुषः परः । |
|||
लिङ्गेन्द्रियैरुपग्राह्यः स विकार उदाहृतः ।। ३७६.२९ ।। |
|||
यतो वेदाः पुराणानि विद्योपनिषदस्तथा । |
|||
श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्वाङ्मयं भवेत् ।। ३७६.३० ।। |
|||
पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं । |
|||
तेनाग्निहोत्रिणो यान्ति प्र्जाकामा दिवं प्रति ।। ३७६.३१ ।। |
|||
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । |
|||
अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ।। ३७६.३२ ।। |
|||
पुनरावर्त्तने वीजभूता धर्म्मप्रवर्त्तकाः । |
|||
सप्तर्षिनागवीथ्याश्च देवलोकं समाश्रिताः ।। ३७६.३३ ।। |
|||
तावन्त एव मुनयः सर्वारम्भविवर्ज्जिताः । |
|||
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।। ३७६.३४ ।। |
|||
यत्र यत्रावतिष्ठनेते यावदाहूतसंप्लवं । |
|||
वेदानुवचनं यज्ञा ब्रह्मचर्य्यं तपो दमः ।। ३७६.३५ ।। |
|||
श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः । |
|||
स त्वाश्रमैर्न्निदिध्यास्यः समस्तैरेवमेव तु ।। ३७६.३६ ।। |
|||
द्रष्टव्य्स्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । |
|||
य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ।। ३७६.३७ ।। |
|||
उपासते द्विजाः सत्यं श्रद्धया परया युताः । |
|||
क्रमात्ते सम्भवन्त्यर्च्चिंरहः शुक्लं तथोत्तरं ।। ३७६.३८ ।। |
|||
अयनन्देवलोकञ्च सवितारं सविद्युतं । |
|||
ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलोकिकान् ।। ३७६.३९ ।। |
|||
करोति पुनारावृत्तिस्तेषामिह न विद्यते । |
|||
यज्ञेन तपसा दानैर्ये हि स्वर्गजितो जनाः ।। ३७६.४० ।। |
|||
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च । |
|||
पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ।। ३७६.४१ ।। |
|||
क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च । |
|||
एतद्यो न विजानाति मार्गद्वितयमात्मनः ।। ३७६.४२ ।। |
|||
दन्दशूकः पतङ्गो वा बवेत्कीटोऽथवा कृमिः । |
|||
हृदये दीपवद्ब्रह्म ध्यानाज्जीवो मृतो भवेत् ।। ३७६.४३ ।। |
|||
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । |
|||
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ।। ३७६.४४ ।। |
|||
इत्यादिमहापुराणे आग्नेये समाधिर्नाम षट्सप्तत्यधिकत्रिशततमोऽध्यायः ॥ |
|||
</poem> |
</poem> |
०७:०२, २१ डिसेम्बर् २०११ इत्यस्य संस्करणं
समाधिः
अग्निरुवाच
यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं ।
चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ।। ३७६.१ ।।
ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः ।
निर्वातानलवद्योगी समाधिस्थः प्रकीर्त्तितः ।। ३७६.२ ।।
न श्रृणोति न चाघ्राति न पश्यति न वम्यति ।
न च सपर्शं विजानाति न सङ्कल्पयते मनः ।। ३७६.३ ।।
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् ।
एवमीश्वरसंलीनः समाधिस्थः स गीयते ।। ३७६.४ ।।
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः ।। ३७६.५ ।।
उपसर्गाः प्रवर्त्तन्ते दिव्याः सिद्धिप्रसूचकाः ।
पातितः श्रावणो धातुर्दशनस्बाङ्गवेदनाः ।। ३७६.६ ।।
प्रार्थयन्ति च तं देवा भोगैर्दिव्यैश्च योगिनं ।
नृपाश्च पृथिवीदानैर्धनैस्च सुधनाधिपाः ।। ३७६.७ ।।
वेदादिसर्व्वशास्त्रञ्च स्वयमेव प्रवर्तते ।
अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्त्तते ।। ३७६.८ ।।
रसायनानि दिव्यानि दिव्याश्चौषधयस्तथा ।
समस्तानि च शिल्पानि कलाः सर्वाश्च विन्दति ।। ३७६.९ ।।
सुरेन्द्रकन्या इत्याद्या गुणाश्च प्रतिभादयः ।
तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति ।। ३७६.१० ।।
अणिमादिगुणैश्वर्य्यः शिष्ये ज्ञानं प्रकाश्य च ।
भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः ।। ३७६.११ ।।
तिष्ठेत् स्वात्भनि विज्ञान आनन्दे ब्रह्मणीश्वरे ।
मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः ।। ३७६.१२ ।।
सर्वाश्रयान्निजे देहे देही विन्दति वेदनां ।
योगयुक्तस्तु सर्व्वेषां योगान्नाप्नोति वेदनां ।। ३७६.१३ ।।
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.१४ ।।
ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरं ।। ३७६.१५ ।।
मृद्दण्ड चक्रसंयोगात् कुम्भकारो यथा घटं ।
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ।। ३७६.१६ ।।
करणान्येवमादाय तासु तास्विह योनिषु ।
सृजत्यात्मानमात्मैव सम्भूय करणानि च ।। ३७६.१७ ।
कर्मणादोषमोहाभ्यामिच्छयैव स बध्यते ।
ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक् ।। ३७६.१८ ।।
वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ।। ३७६.१९ ।।
अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ।। ३७६.२० ।।
ऊद्र्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्य्यमण्डलं ।
ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं ।। ३७६.२१ ।।
यदस्यान्यद्रश्मिशतमूद्र्ध्वमेव व्यवस्थितम् ।
तेन देवनिकायानि धामानि प्रतिपद्यते ।। ३७६.२२ ।।
ये नैकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैश्च सञ्चरते हि सः ।। ३७६.२३ ।।
बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च ।
अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ।। ३७६.२४ ।।
अव्यक्त आत्मा ज्ञेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः ।। ३७६.२५ ।।
बुद्धेरुत्पत्तिरव्यक्ता ततोऽहङ्कारसम्भवः ।
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु ।। ३७६.२६ ।।
शब्दः स्पर्शश्च रुपञ्च रसों गन्धश्च तद्गुणाः ।
यो यस्मिन्नाश्रितश्चैषां स तस्मिन्नेव लीयते ।। ३७६.२७ ।।
सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीत्तिताः ।
रजस्तमोब्यामाविष्टश्चक्रवद्भ्राम्यते हि सः ।। ३७६.२८ ।।
अनादिरादिमान् यश्च स एव पुरुषः परः ।
लिङ्गेन्द्रियैरुपग्राह्यः स विकार उदाहृतः ।। ३७६.२९ ।।
यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।
श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्वाङ्मयं भवेत् ।। ३७६.३० ।।
पितृयानोपवीथ्याश्च यदगस्त्यस्य चान्तरं ।
तेनाग्निहोत्रिणो यान्ति प्र्जाकामा दिवं प्रति ।। ३७६.३१ ।।
ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।
अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः ।। ३७६.३२ ।।
पुनरावर्त्तने वीजभूता धर्म्मप्रवर्त्तकाः ।
सप्तर्षिनागवीथ्याश्च देवलोकं समाश्रिताः ।। ३७६.३३ ।।
तावन्त एव मुनयः सर्वारम्भविवर्ज्जिताः ।
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।। ३७६.३४ ।।
यत्र यत्रावतिष्ठनेते यावदाहूतसंप्लवं ।
वेदानुवचनं यज्ञा ब्रह्मचर्य्यं तपो दमः ।। ३७६.३५ ।।
श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः ।
स त्वाश्रमैर्न्निदिध्यास्यः समस्तैरेवमेव तु ।। ३७६.३६ ।।
द्रष्टव्य्स्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ।
य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः ।। ३७६.३७ ।।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ।
क्रमात्ते सम्भवन्त्यर्च्चिंरहः शुक्लं तथोत्तरं ।। ३७६.३८ ।।
अयनन्देवलोकञ्च सवितारं सविद्युतं ।
ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलोकिकान् ।। ३७६.३९ ।।
करोति पुनारावृत्तिस्तेषामिह न विद्यते ।
यज्ञेन तपसा दानैर्ये हि स्वर्गजितो जनाः ।। ३७६.४० ।।
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ।
पितृलोकं चन्द्रमसं नभो वायुं जलं महीं ।। ३७६.४१ ।।
क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ।
एतद्यो न विजानाति मार्गद्वितयमात्मनः ।। ३७६.४२ ।।
दन्दशूकः पतङ्गो वा बवेत्कीटोऽथवा कृमिः ।
हृदये दीपवद्ब्रह्म ध्यानाज्जीवो मृतो भवेत् ।। ३७६.४३ ।।
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ।। ३७६.४४ ।।
इत्यादिमहापुराणे आग्नेये समाधिर्नाम षट्सप्तत्यधिकत्रिशततमोऽध्यायः ॥