"अग्निपुराणम्/अध्यायः ३०१" इत्यस्य संस्करणे भेदः
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
===सूर्य्यार्च्चनम्=== |
|||
<poem> |
<poem> |
||
धन्वन्तरिरुवाच |
|||
शय्या तु दण्डिसाजेशपावकश्चतुराननः । |
|||
सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ।। ३०१.१ ।। |
|||
स्वयं दीर्घस्वराकग्यञ्च वीजेष्वङ्गानि सर्वशः । |
|||
खातं साधु विषञ्चैव सनिन्दुं सकलं तथा ।। ३०१.२ ।। |
|||
गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् । |
|||
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्ताय महोदरहस्ताय ।। |
|||
पञ्चाङ्गं सर्व्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतः ।। ३०१.३ ।। |
|||
गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय । |
|||
दिग्दले पूजयेन्नमूर्त्तीः पुरावच्चाङ्गपञ्चकम् ।। ३०१.४ ।। |
|||
वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय । |
|||
विकटाय विघ्नराजाय धूम्रवर्णाय । |
|||
दिग्विदिक्षु यजेदेतांल्लोकांशांश्चैव मुद्रया ।। ३०१.४ ।। |
|||
मध्यामातर्ज्जनीमध्यागताङ्गुष्ठौ समुष्टिकौ । |
|||
चुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ।। ३०१.५ ।। |
|||
दन्तभक्षधरं रक्तं साब्जं पाशाङ्कुशैर्वृतम् । |
|||
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ।। ३०१.६ ।। |
|||
श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः । |
|||
तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ।। ३०१.७ ।। |
|||
घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः । |
|||
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।। |
|||
ह्रस्वाः स्युर्मूर्त्तयः पञ्च दीर्घा अङ्गानि तस्य च । |
|||
सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ।। ३०१.९ ।। |
|||
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः । |
|||
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ।। ३०१.१० ।। |
|||
कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं । |
|||
रोचना कुङ्कुमं वारि रक्तागन्धाक्षताङ्कुराः ।। ३०१.११ ।। |
|||
वेणुवीजयवाः शालिश्यामाकतिलराजिकाः । |
|||
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.१२ ।। |
|||
जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् । |
|||
स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.१३ ।। |
|||
ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् । |
|||
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.१४ ।। |
|||
न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया । |
|||
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.१५ ।। |
|||
ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् । |
|||
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।। |
|||
योऽभिषेकजपध्यानपूजाहोमपरः सदा । |
|||
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।। |
|||
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं । |
|||
न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.१८ ।। |
|||
इत्यादिमहापुराणे आग्नेये सूर्यार्च्चनं नामैकाधिकत्रिशततमोऽध्यायः ।। |
|||
</poem> |
</poem> |
०७:२७, १९ डिसेम्बर् २०११ इत्यस्य संस्करणं
सूर्य्यार्च्चनम्
धन्वन्तरिरुवाच
शय्या तु दण्डिसाजेशपावकश्चतुराननः ।
सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ।। ३०१.१ ।।
स्वयं दीर्घस्वराकग्यञ्च वीजेष्वङ्गानि सर्वशः ।
खातं साधु विषञ्चैव सनिन्दुं सकलं तथा ।। ३०१.२ ।।
गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्ताय महोदरहस्ताय ।।
पञ्चाङ्गं सर्व्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतः ।। ३०१.३ ।।
गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय ।
दिग्दले पूजयेन्नमूर्त्तीः पुरावच्चाङ्गपञ्चकम् ।। ३०१.४ ।।
वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय ।
विकटाय विघ्नराजाय धूम्रवर्णाय ।
दिग्विदिक्षु यजेदेतांल्लोकांशांश्चैव मुद्रया ।। ३०१.४ ।।
मध्यामातर्ज्जनीमध्यागताङ्गुष्ठौ समुष्टिकौ ।
चुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ।। ३०१.५ ।।
दन्तभक्षधरं रक्तं साब्जं पाशाङ्कुशैर्वृतम् ।
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ।। ३०१.६ ।।
श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः ।
तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ।। ३०१.७ ।।
घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः ।
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।।
ह्रस्वाः स्युर्मूर्त्तयः पञ्च दीर्घा अङ्गानि तस्य च ।
सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ।। ३०१.९ ।।
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ।। ३०१.१० ।।
कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं ।
रोचना कुङ्कुमं वारि रक्तागन्धाक्षताङ्कुराः ।। ३०१.११ ।।
वेणुवीजयवाः शालिश्यामाकतिलराजिकाः ।
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.१२ ।।
जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् ।
स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.१३ ।।
ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् ।
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.१४ ।।
न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया ।
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.१५ ।।
ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् ।
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।।
योऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।।
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।
न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.१८ ।।
इत्यादिमहापुराणे आग्नेये सूर्यार्च्चनं नामैकाधिकत्रिशततमोऽध्यायः ।।