"अथर्ववेदः/काण्डं ४/सूक्तम् ३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं ४|काण्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:३६, ९ फेब्रवरी २०२० इत्यस्य संस्करणं

← सूक्तं ४.२९ अथर्ववेदः - काण्डं ४
सूक्तं ४.३०
अथर्वा।
सूक्तं ४.३१ →
दे. सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्। त्रिष्टुप्, ६ जगती।

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥