"मत्स्यपुराणम्/अध्यायः ३७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः ४०: पङ्क्तिः ४०:


न चापि त्वां धृष्णवः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसि के वयं स्म।
न चापि त्वां धृष्णवः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसि के वयं स्म।
तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किन्निमित्तं त्वमागाः।। ३७.१0 ।।
तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किन्निमित्तं त्वमागाः।। ३७.१० ।।


भयन्तु तेऽव्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप!।।
भयन्तु तेऽव्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप!।।

०६:५९, १६ नवेम्बर् २०११ इत्यस्य संस्करणं


ययातिशक्रसम्वादवर्णनम्।

इन्द्र उवाच।
सर्वाणि कार्याणि समाप्य राजन्!
गृहान् परित्यज्य वनं गतोऽसि।।
तत्त्वां पृच्छामि नहुषस्य पुत्र!
केनापि तुल्यस्तपसा ययाते।। ३७.१।।

ययातिरुवाच।
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु।
आत्मनस्तपसा तुल्यं कञ्चित् पश्यामि वासव।। ३७.२।।

इन्द्र उवाच।
यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश्चाविदितप्रभावः।
तस्माल्लोकाऽह्यन्तवन्तस्तवेमे क्षीणे पुण्ये पतितोऽस्यद्य राजन्।। ३७.३ ।।

ययातिरुवाच।
सुरर्षि गन्धर्व नरावमानात् क्षयं गता मे यदि शक्रलोकाः।
इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज।। ३७.४ ।।

इन्द्र उवाच।
सतां सकाशे पतितोऽसि राजन्! श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः।
एवं विदित्वा तु पुनर्ययाति न तेऽवमान्याः सद्रृशः श्रेयसे च।। ३७.५ ।।

शौनक उवाच।
ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम्।
संप्रेक्ष्य राजर्षिवरोष्टकस्तमुवाच सद्धर्मविधानगोप्ता।। ३७.६ ।।

अष्टक उवाच।
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः।
पतस्युदीर्णोऽम्बुधरप्रकाशः खे खेचराणां प्रवरो यथाऽर्कः।। ३७.७ ।।

द्रृष्ट्वा च त्वां सूर्यपथात् पतन्तं वैश्वानरार्कद्युतिमप्रमेयम्।
किन्नु स्विदे तत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः।। ३७.८ ।।

द्रृष्ट्वा च त्वा धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम्।
प्रत्युद्गतास्त्वां वयमद्यसर्वे तस्मात्पाते तव जिज्ञासमानाः।। ३७.९ ।।

न चापि त्वां धृष्णवः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसि के वयं स्म।
तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किन्निमित्तं त्वमागाः।। ३७.१० ।।

भयन्तु तेऽव्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप!।।
त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्तः।। ३७.११ ।।

सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प!।।
ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सद्रृशेषु सत्सु।। ३७.१२।।

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः।
प्रभुः सूर्य्य प्रकाशाच्च सतां चाभ्यागतः प्रभुः।। ३७.१३ ।।