"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) ७ अवतरण: rigveda and other pages
(भेदः नास्ति)

०८:४३, २० मार्च् २०११ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.५७


मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त स्थुर्नो अरातयः ॥१॥
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतं नशीमहि ॥२॥
मनो न्वा हुवामहे नाराशंसेन सोमेन ।
पितॄणां च मन्मभिः ॥३॥
आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक्च सूर्यं दृशे ॥४॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥५॥
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥६॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५७&oldid=2049" इत्यस्माद् प्रतिप्राप्तम्