"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०९" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः १०: | पङ्क्तिः १०: | ||
<poem><span style="font-size: 14pt; line-height: 200%"> |
<poem><span style="font-size: 14pt; line-height: 200%"> |
||
श्रीनारायण उवाच-- |
श्रीनारायण उवाच-- |
||
शृणु लक्ष्मि! कथां दिव्यां प्राक्सम्पन्नां मनोहराम् । |
|||
अस्मात्तु ब्रह्मणः पूर्वो ब्रह्मा वर्षशतोत्तरम् । । १ ।। |
|||
निधनोन्मुखतां प्राप्तस्तदानीं ब्रह्मगोलके । |
|||
अन्तिमेऽजक्षणे राजा पृथ्व्यां सर्वहुताभिधः ।। २ ।। |
|||
बभूव भगवद्भक्तो मम पूजापरायणः । |
|||
मदर्थे कृतसर्वस्वो मदर्थे न्यस्तमानसः ।। ३ ।। |
|||
मम कण्ठीं मम मालां ममैव तिलकं शुभम् । |
|||
दधार बुभुजे चान्नं मे प्रसादात्मपावनम् ।। ४ ।। |
|||
चातुर्मास्ये व्रतं तेन गृहीतं बहुदायिता । |
|||
सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपभूमिषु ।। ५ ।। |
|||
यत्र यत्राऽभवत् स्वस्य राज्यं सर्वत्र तत्र च । |
|||
ममान्नं वै प्रदातव्यं जलं पातव्यमेव मे ।। ६ ।। |
|||
यावत्तृप्तिर्भिक्षुवर्गैरदनीयं ममैव ह । |
|||
ब्राह्मणैर्मम भोक्तव्यं क्षत्रियर्षिभिरित्यपि ।। ७ ।। |
|||
वैश्यर्षिभिस्तथा शूद्रैर्भक्तिकृद्भिर्ममान्नकम् । |
|||
भोक्तव्यं सर्वथा ब्रह्मचारिभिर्वनवासिभिः ।। ८ ।। |
|||
यतिभिः साधुभिस्त्यागिजनैः साध्वीभिरित्यपि । |
|||
अनाथैश्चातिथिप्रख्यैर्याज्ञिकैर्देवपूजकैः ।। ९ ।। |
|||
अन्नार्थिभिः कदर्यैश्च किंकरैर्वृत्तिवर्जितैः । |
|||
ममान्नमेव भोक्तव्यं जलं पातव्यमेव मे ।। १० ।। |
|||
वस्त्राणि मम धार्याणि नान्यग्राह्यं तु कैरपि । |
|||
तदर्थं च मया राज्ये प्रतिस्थलं क्षणे क्षणे ।। ११ ।। |
|||
अन्नसत्राणि वस्त्राणि प्रपावारीणि सर्वथा। |
|||
संस्थापितानि सेवास्था नियुक्ताश्च प्रतिस्थलम् ।। १२।। |
|||
क्षुधितोऽन्नस्य पात्रं स्यात् तृषितो जलपात्रकम् । |
|||
नग्नस्त्वम्बरपात्रं स्याद् ग्राह्यं तेन मुदा मम ।। १३ ।। |
|||
कदर्ये हृदयं यस्य यस्य तृष्णाऽस्ति मानसे । |
|||
सोऽपि तृष्णादिनाशार्थं गृह्णात्वन्नं जलं मम ।। १४।। |
|||
इत्येवं घोषितं तेन कुड्यफलकलेखितम् । |
|||
चातुर्मास्ये ममान्नं वै फलं वारि तथाऽम्बरम् ।। १५।। |
|||
ग्रहणीयं पुष्कलं नाऽन्यग्राह्यं धर्मभिक्षुकैः । |
|||
इत्येवं वर्तमानस्य सर्वहुतस्य भूभृतः ।। १ ६।। |
|||
अग्निहोत्रेऽन्ययज्ञे च यत्किञ्चिद्धामिकं मतम् । |
|||
देवानां पूजने वस्तुप्रदानं चापि तस्य वै ।। १७।। |
|||
विद्यार्थिनां च विद्याया दाने व्ययो गवां तृणे । |
|||
श्वप्रभृतिग्राम्यपशुपक्षिणां च कणान्नकम् ।। १८ ।। |
|||
जलं वस्त्रं तथा चान्यद् यथापेक्षं सुवस्तुकम् । |
|||
आसीत् सर्वहुतस्यैवाऽतिथीनां तृप्तिकृत्तथा ।। १९ ।। |
|||
ग्रामेषु खेटेषु जनस्थलेषु क्षेत्रेषु घोषेषु नदीतटेषु । |
|||
वनेष्वरण्येषु च पर्वतेषु द्वीपेषु वार्धौ रणनिर्जनेषु ।।२ ० ।। |
|||
उपत्यकायां नगरेषु राज्यविश्रान्तिभूमौ च करस्थलीषु । |
|||
सर्वत्र वै सर्वहुतस्य राज्ञोऽभवन् सुसत्राणि सुदानकानि ।। २ १ ।। |
|||
ग्रामान्तराणां युगमार्गसन्धौ वनान्तराणां सृतिमूलयोगे । |
|||
नदीनदानां तरणार्थभूमौ कृतानि सत्राणि तु तेन राज्ञा ।। २२ ।। |
|||
सीमान्तरेषु प्रखनिस्थलेषु यानस्य मार्गेषु दिगन्तरेषु । |
|||
तीर्थेषु यात्रालुगतागतेषु स्थलेषु सत्राणि हुतस्य राज्ञः ।।२३ ।। |
|||
देवानां पूजने नाम प्रोच्यते सर्वतो दिशि । |
|||
प्रातः सायं च मध्याह्ने तस्य सर्वहुतस्य वै ।। २४।। |
|||
सत्ये तपसि तस्यैव जने महरि स्वर्गके । |
|||
भुवि चाप्यथ पातालेष्वस्य कीर्तिर्हि गीयते ।। २५ ।। |
|||
देवाश्च ऋषयश्चापि दैत्याश्चान्येऽपि देहिनः । |
|||
सर्वहुतं लोकितुं वै ययुर्हंसादिरूपिणः ।। २६।। |
|||
आश्चर्यं परमं प्रापुर्दृष्ट्वा पुण्योज्ज्वलं नृपम् । |
|||
अतितेजोमण्डलाढ्यमुखमण्डलशोभितम् ।। २७।। |
|||
दूरे चातिप्रतेजस्काः सर्वे शुशुभिरे सुराः । |
|||
किन्तु तन्निकटे गत्वा निस्तेजस्का बभूविरे ।। २८ ।। |
|||
इति पुण्यप्रतापोऽसौ सर्वहुताऽर्थसार्थकः । अग्निप्रख्योऽभवद्भक्तो देवगर्वहरो नृपः ।। २९ ।। |
इति पुण्यप्रतापोऽसौ सर्वहुताऽर्थसार्थकः । |
||
अग्निप्रख्योऽभवद्भक्तो देवगर्वहरो नृपः ।। २९ ।। |
|||
देवैः सम्मानितः सर्वैरिन्द्रार्धासनयोजितः । दिक्पालैः पूजितः सोऽपि विस्मयं नाप वै मनाक् ।। ३० ।। |
देवैः सम्मानितः सर्वैरिन्द्रार्धासनयोजितः । |
||
दिक्पालैः पूजितः सोऽपि विस्मयं नाप वै मनाक् ।। ३० ।। |
|||
रागशून्यस्य तस्यैव पत्न्यासीत् पतिसेविनी। |
|||
औदार्यगुणसम्पन्ना नाम्ना वै गोऋतम्भरा ।।३ १ ।। |
|||
देवीभ्योऽप्यतिरूपाढ्या कायाकल्पातिसुन्दरी । |
|||
कामरूपा कामभोगा कामकाराऽतिसात्त्विकी ।।३२।। |
|||
देवीषु तिष्ठते पश्चाद् देवदेवीसमाजके । |
|||
सलज्जाऽवाङ्मुखी तत्र भवति क्षणमान्तरे ।। ३३।। |
|||
तया स्वस्वामिने प्रोक्तं मया पश्चान्निषद्यते । |
|||
यथापूर्वं तूत्तमे ह्यासने तिष्ठामि तत्कुरु ।।३४।। |
|||
इन्द्राणी वारुणी सौर्या चान्द्रद्यो वाऽन्यसुरस्त्रियः । |
|||
प्रणमेयुश्च मां स्वामिन् यथा तत्कुरु भूपते ।।३५।। |
|||
राजा प्राह सतीं राज्ञीं मानुषी भवसि प्रिये । |
|||
तत्रापि देवसंघेऽस्मद्वासोऽस्त्यतिमहत्तमः ।।।३६।। |
|||
मा तृष्णां कुरु कल्याणि मानुषे तु न तद्भवेत् । |
|||
तथापि पुण्यबाहुल्ये कदाचित् तद्विभाव्यते ।। ३७।। |
|||
करिष्ये स्तवनं यत्नं नारायणसमीपतः । |
|||
प्राप्ते योगे तथा स्याद्वै तृष्णाशान्तिस्तथापि न ।।३८।। |
|||
नित्यं राज्ञी नृपं काले प्रस्मारयति तद्वचः । |
|||
राजाऽपि समयं प्राप्तं तदर्थं वै प्रतीक्षते ।।३९।। |
|||
एकदाऽधिकमासस्य द्वितीयायां प्रगेऽसिते । |
|||
स्नात्वा देवप्रपूजायां तिष्ठते तावदेव वै ।।४०।। |
|||
श्रुतवान् दुन्दुभिं रम्यं घोषयन्तं हरेर्वचः । |
|||
शुश्राव सर्वहुतस्य राज्ञ्यपि गोऋतम्भरा ।।४१।। |
|||
उभौ स्थैर्येण तच्छब्दमानसौ संबभूवतुः । |
|||
शुश्रुवाते दुन्दुभेस्तु घोषणां हृदयंगमाम् ।।४२।। |
|||
अधिमासद्वितीयायां व्रतं कुर्वन्ति ये जनाः । |
|||
तेषामभीष्टदाताऽहं मासः श्रीपुरुषोत्तमः ।।४३।। |
|||
एकभुक्तं च वा नक्तं फलभुक्तिर्जलाशनम् । |
|||
वाय्वाशनं च वा कृत्वा करिष्यन्ति व्रतं तु ये ।।४४।। |
|||
तेभ्यो दास्ये सुतदाराधनसम्पद्गृहादिकान् । |
|||
यानवाहनहस्त्यादीन् वारीक्षेत्रधरादिकान् ।।४५।। |
|||
खण्डं द्वीपं च सामुद्रं भौमं राज्यं भूमण्डलम् । |
|||
स्वर्गं जनं तपः सत्यं चैन्द्रं सौर्यं च चान्द्रकम् ।।४६।। |
|||
साम्राज्यं चातलं पातालकं चापि रसातलम् । |
|||
दास्ये चतुर्दशलोकाधिपत्यं पारमेष्ठ्यकम् ।।४७।। |
|||
वारुणं वाह्निकं चैशं याम्यं तथा च पावनम् । |
|||
कौबेरं नैर्ऋतं चापि दिक्पालत्वं महत्पदम् ।।४८।। |
|||
लोकपालपदं दास्ये वासवं ग्रहमण्डलम् । |
|||
नैधेयं चापि रौद्रं च मारुतं नाकपृष्ठकम् ।।४९।। |
|||
सिद्धीरष्टविधा दास्ये गुणं ब्रह्माण्डसर्जनम्। |
|||
रक्षणं पालनं दास्ये सामर्थ्यं व्रतिने तु मे ।।५० ।। |
|||
अधिमासस्य देवोऽहं श्रीकृष्णः पुरुषोत्तमः । |
|||
स्वल्पेऽपि मत्कृते कृच्छ्रे फलं दास्ये त्वनन्तकम् ।।५ १ ।। |
|||
ददामि नाऽन्यमासे यत् तद्ददाम्यत्र पुष्कलम् । |
|||
अत्राहं कृपया दाता दातास्मि स्वेच्छया खलु ।।५२।। |
|||
मद्वचोधारयत्यद्धा मूर्ध्ना तस्मै ददाम्यहम् । |
|||
उपायनं तथा पारितोषिकं वा स्वनुग्रहम् ।।५३ ।। |
|||
नात्र विनिमयो न्यायो न्यायस्त्वत्र कृपा मम । |
|||
कृपयाऽहं स्वयं स्वामी वितरामि त्वशेषकम् ।।५४।। |
|||
कोटिगुणं वितरामि वितरामि त्वनन्तकम् । |
|||
यथासंकल्पितं तस्माद् गृह्णन्तु पुरुषोत्तमात् ।।५५ ।। |
|||
इति शुश्रुषतुः सर्वहुतश्च गोऋतम्भरा । |
|||
तौ नत्वा दुन्दुभिं पुष्पैः पूजयामासतुस्तदा ।।५६ ।। |
|||
दुन्दुभिस्तु गतोऽन्यत्र दम्पती दध्यतुः प्रभुम् । |
|||
स्वेष्टलाभस्तथा कुत्र प्राप्स्यते चेति दध्यतुः ।।५७।। |
|||
सर्वहुतस्तदा राज्ञीं सम्प्राह गोऋतंभराम् । |
|||
श्रुतं देवि द्वितीयाया व्रतेनेष्टमवाप्यते ।।५८ ।। |
|||
तवास्ति मानसं पूज्यस्थाने स्थातुं महत्तमे । |
|||
चतुर्दशस्तरस्थानां सर्वासां सुरयोषिताम् ।।५९ ।। |
|||
तत्प्राप्त्यर्थं व्रतं कार्यमावाभ्यां फलदं भवेत् । |
|||
दुन्दुभिना तदुक्तं वै स्वल्पेऽपि बहुलं फलम् ।।६ ० ।। |
|||
अहं ब्रह्मा भविष्यामि भव त्वं सहचारिणी । |
|||
ब्रह्माणी मम पत्नी च माता वै सुरयोषिताम् ।।६ १ ।। |
|||
तथा सति तवेहा तु प्रपूर्णार्था भविष्यति । |
|||
कृष्णनारायणो देवो फलं व्रतस्य दास्यति ।।६२।। |
|||
एवं कृत्वा तु संकल्पं व्रतं चक्रतुरादरात् । |
|||
प्रातः स्नात्वा हरिं ध्यात्वा कारयित्वा तु कानकीम् ।।६३ ।। |
|||
मूर्तिं तत्राऽधिकदेवं श्रीकृष्णं पुरुषोत्तमम् । |
|||
आवाह्याचमनं दत्वाऽऽसनं पाद्यं समर्प्य च ।।६४।। |
|||
तस्मै त्वाचमनं तीर्थजलस्य ददतुश्च तौ । |
|||
दुग्धेन पिच्छलदध्ना घृतेन मधुना तथा ।।६५।। |
|||
शकर्राभिश्च संस्नाप्य कारयामासतुस्ततः । |
|||
शुद्धजलैः सुगन्धैश्चाप्लवनं चन्दनान्वितैः ।।६६।। |
|||
मार्जयामासतुर्वस्त्रैः शोभयामासतुर्हरिम् । |
|||
सुवर्णाऽम्बरभूषाभिर्मणिरत्नोत्तमादिभिः ।।६७।। |
|||
हारैश्चन्दनगन्धैश्च द्रवैः सारद्रवैस्तथा । |
|||
कज्जलैस्तैलसारैश्च पुष्पैः कुंकुमतण्डुलैः ।।६८ ।। |
|||
पूजयामासतुः कृष्णं किरीटकटकादिभिः । |
|||
सद्रत्नमणिहाराद्यैश्छत्रचामरयष्टिभिः ।।६९।। |
|||
धूपदीपसुनैवेद्यफलताम्बूलचूर्णकैः । |
|||
कारयामासतुस्तृप्तिं श्रीहरिं पुरुषोत्तमम् ।।७०।। |
|||
जलं दत्वा सवाद्यं तौ नीराजनं प्रचक्रतुः । |
|||
प्रदक्षिणां स्तुतिं नमस्कारांश्चक्रतुरादरात् ।।७१ ।। |
|||
प्रार्थयामासतुर्देवं व्रतेनानेन केशव । |
|||
प्रसन्नो भव विश्वात्मन् गृहाणाऽर्घ्यं फलादिकम् ।।७२।। |
|||
इति कृत्वा ददतुस्तौ फलार्थं ससुवर्णकम् । |
|||
पुष्पांजलिं ददतुश्च चक्रतुः सेवनं ततः ।।७३।। |
|||
मध्याह्नेऽपि तथा चोभौ चक्रतुः पूजनादिकम् । |
|||
सायं प्रपूज्य देवेशं कृत्वा त्वारार्त्रिक निशि ।।७४।। |
|||
चक्रतुर्जागरं वाद्यनृत्यकीर्तनसूत्सवम् । |
|||
दानं कृष्णाय ददतुः सिंहासनं तु कानकम् ।।७५।। |
|||
छत्रचामरवेत्रादिशोभितं बहुलोज्ज्वलम् । |
|||
मणिरत्नसुमौक्तिकदामभूषाविराजितम् ।।७६।। |
|||
भवनं चापि ददतुश्चतुर्दशप्रभूमिकम् । |
|||
सौवर्णकूप्यवस्त्वाढ्योपस्कराद्यभिराजितम् ।।७७।। |
|||
शय्यास्तरणभोज्यादिभागभुवनशोभितम् । |
|||
पुण्यसारगृहं यत्र यत्राग्निहोत्रसद्गृहम् ।।७८।। |
|||
पितृतर्पणभवनं यत्रास्ति दानसद्गृहम् । |
|||
मणिरत्नादि पूर्णं च यत्र कोशगृहं त्वपि ।।७९।। |
|||
यानवाहनपूर्णं च गृहं चिदचिदात्मकम् । |
|||
दासदासीवनोद्यान नदीनद समन्वितम् ।।८०।। |
|||
गृहं यत्रास्ति भूमौ च विश्रान्तिगृहमित्यपि । |
|||
सुरतस्य गृहं चैव भोजनस्य गृहं तथा ।।८१ ।। |
|||
स्नानागारं तथा गुप्तपातालादि सुसम्पदम् । |
|||
गृहं यत्रास्ति कल्पानां द्रुमाणां च गवां गृहम् ।।८ २।। |
|||
एवमादीनि सर्वाणि भवनानि च यत्र वै । |
|||
वर्तन्ते तन्महत्सौधं सप्राकारं सुशोभितम् ।।८३।। |
|||
ददतुस्तौ कृष्णनारायणायाऽर्पणमेव हि । |
|||
तावत्तत्र समायातः श्रीकृष्णः पुरुषोत्तमः ।।८४।। |
|||
प्रोवाच तौ प्रसन्नोऽस्मि दानेन च व्रतेन च । |
|||
ददाम्येषः कृपां कृत्वा वृणुत वरदानकम् ।।८५।। |
|||
दम्पती प्राहतुस्तत्र पारमेष्ठ्यं पदं प्रभो । |
|||
देहि पश्चात्तवधामाऽक्षरं मोक्षं च शाश्वतम् ।।८६।। |
|||
तथास्त्विति हरिः प्राह तथाऽऽह गोऋतम्भराम् । |
|||
भाविनि पुष्करे तीर्थे पृथ्व्यां वै क्षत्रियो नृपः ।।८७।। |
|||
आभीराणां च गोपानां पुष्करारण्यवासिनाम् । |
|||
नृपो भविष्यति नाम्ना गायत्रो वै विराट्सुतः ।।८८।। |
|||
तस्य भार्या ऋषीनाम्नी राज्ञी पुष्करपुत्रिका । |
|||
भविष्यति तयोः पुत्री आर्षिनाम्नी सुकन्यका ।।८९।। |
|||
सेयं त्वं भाविनी गोपी गोमती गोऋतम्भरा । |
|||
गायत्री गोकुलसेवाकर्त्री तत्र भविष्यसि ।।९०।। |
|||
अयं राजा सर्वहुतस्तत्र ब्रह्मा भविष्यति । |
|||
आद्ये युगे च यज्ञार्थे पुष्करे स गमिष्यति ।।९१ ।। |
|||
सुरर्षिमुनिपित्राद्यैर्मानवैस्तलवासिभिः । |
|||
चतुरशीतिलक्षात्मदेहिभिः सह विश्वसृट् ।।९२।। |
|||
यज्ञं करिष्यति त्वाद्यं प्रवृत्त्यर्थं जगत्त्रये । |
|||
तत्राग्निषु प्रोद्धृतेषु दीक्षाकाले ह्युपागते ।।९३।। |
|||
अध्वर्युणा तदाऽऽहूता सावित्री दीर्घसूत्रिणी । |
|||
सज्जी भूत्वा यज्ञभूमौ तत्काले नाऽऽगमिष्यति ।।९४।। |
|||
ब्रह्मा शक्रं समाहूय कथयिष्यति कालिकम् । |
|||
पत्नीं त्वन्यां मदर्थे तु शीघ्रं शक्र समानय ।।९५।। |
|||
यथा प्रवर्तते यज्ञः कालहीनो न जायते । |
|||
तथा शीघ्रं विधेहि त्वं नारीं पत्न्यर्थमानय ।।९६।। |
|||
एवमुक्तस्तथा शक्रो गायत्रराजकन्यकाम् । |
|||
यज्ञभूमिविलोकायाऽऽगतां त्वां स हि नेष्यति ।।९७।। |
|||
आर्षिणीं कन्यकां रम्यां गायत्रीं नवयौवनाम् । |
|||
गान्धर्वेण विवाहेन ग्रहीष्यति स विश्वसृट् ।।९८।। |
|||
प्रारप्स्यते ततो होत्रं ब्राह्मणैर्वेदपारर्गेः । |
|||
यज्ञो दिनसहस्रं वै पुष्करे स भविष्यति ।।९९।। |
|||
तत आरभ्य गायत्री ब्रह्माणी त्वं भविष्यसि । |
|||
लोकमाता वेदमाता सृष्टिमाता भविष्यसि ।। १० ०।। |
|||
सर्वपूज्या सर्वमान्या द्विजजाप्या भविष्यसि । |
|||
ब्रह्मदात्री ब्रह्मवधूर्भविष्यसि ऋतम्भरे ।। १०१ ।। |
|||
अयं सर्वहुतो ब्रह्मा त्वं गायत्री च दम्पती । |
|||
द्वितीयाया व्रतेनैव कृपया मे भविष्यथः ।। १ ०२।। |
|||
शतवर्षोत्तरं धामाऽक्षरं मे प्राप्स्यथो ध्रुवम् । |
|||
महानगरतुल्यस्य सौधस्य दानकर्मणा ।। १ ०३।। |
|||
ब्रह्माण्डाख्यं गृहं राज्यं दास्ये स्मृद्धं परात्परम् । |
|||
इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् ।। १ ०४।। |
|||
पूर्वजस्य ब्रह्मणोऽपि लये जातेऽथ दम्पती । |
|||
पारमेष्ठ्यं पदं श्रेष्ठं प्रापतुः शाश्वतं चिरम् ।। १ ०५।। |
|||
एवं सर्वहुतो राजा तत्पत्नी गोऋतम्भरा । |
|||
सञ्जातौ दंपती ब्रह्मा गायत्री पितरौ सृजेः ।। १ ०६।। |
|||
इति ते कथितं लक्ष्मि! प्राक्सृष्टीयमुदन्तकम् । |
|||
पुरुषोत्तममासस्य द्वितीयायास्तु सद्व्रतम् ।। १०७।। |
|||
पारमेष्ठ्यपददातृ श्रोतुर्वक्तुस्तथा फलम् । |
|||
भविष्यति न सन्देहो वक्ति श्रीपुरुषोत्तमः ।। १ ०८।। |
|||
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सर्वहुतराज्ञा गोऋतम्भराराज्ञ्या च द्वितीयपक्षद्वितीयाव्रतेन नगरसमभवन-दानादिना पूजनादिना च पारमेष्ठ्यपदे ब्रह्मणोऽव-तारो गायत्र्यवतारश्च प्राप्तं इत्यादिनिरूपण-नामा नवाधिकत्रिशततमोऽध्यायः ।।१.३०९।। |
|||
</span></poem> |
</span></poem> |
२१:३०, २६ एप्रिल् २०१९ समयस्य संस्करणम्
← अध्यायः ३०८ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३०९ [[लेखकः :|]] |
अध्यायः ३१० → |
श्रीनारायण उवाच--
शृणु लक्ष्मि! कथां दिव्यां प्राक्सम्पन्नां मनोहराम् ।
अस्मात्तु ब्रह्मणः पूर्वो ब्रह्मा वर्षशतोत्तरम् । । १ ।।
निधनोन्मुखतां प्राप्तस्तदानीं ब्रह्मगोलके ।
अन्तिमेऽजक्षणे राजा पृथ्व्यां सर्वहुताभिधः ।। २ ।।
बभूव भगवद्भक्तो मम पूजापरायणः ।
मदर्थे कृतसर्वस्वो मदर्थे न्यस्तमानसः ।। ३ ।।
मम कण्ठीं मम मालां ममैव तिलकं शुभम् ।
दधार बुभुजे चान्नं मे प्रसादात्मपावनम् ।। ४ ।।
चातुर्मास्ये व्रतं तेन गृहीतं बहुदायिता ।
सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपभूमिषु ।। ५ ।।
यत्र यत्राऽभवत् स्वस्य राज्यं सर्वत्र तत्र च ।
ममान्नं वै प्रदातव्यं जलं पातव्यमेव मे ।। ६ ।।
यावत्तृप्तिर्भिक्षुवर्गैरदनीयं ममैव ह ।
ब्राह्मणैर्मम भोक्तव्यं क्षत्रियर्षिभिरित्यपि ।। ७ ।।
वैश्यर्षिभिस्तथा शूद्रैर्भक्तिकृद्भिर्ममान्नकम् ।
भोक्तव्यं सर्वथा ब्रह्मचारिभिर्वनवासिभिः ।। ८ ।।
यतिभिः साधुभिस्त्यागिजनैः साध्वीभिरित्यपि ।
अनाथैश्चातिथिप्रख्यैर्याज्ञिकैर्देवपूजकैः ।। ९ ।।
अन्नार्थिभिः कदर्यैश्च किंकरैर्वृत्तिवर्जितैः ।
ममान्नमेव भोक्तव्यं जलं पातव्यमेव मे ।। १० ।।
वस्त्राणि मम धार्याणि नान्यग्राह्यं तु कैरपि ।
तदर्थं च मया राज्ये प्रतिस्थलं क्षणे क्षणे ।। ११ ।।
अन्नसत्राणि वस्त्राणि प्रपावारीणि सर्वथा।
संस्थापितानि सेवास्था नियुक्ताश्च प्रतिस्थलम् ।। १२।।
क्षुधितोऽन्नस्य पात्रं स्यात् तृषितो जलपात्रकम् ।
नग्नस्त्वम्बरपात्रं स्याद् ग्राह्यं तेन मुदा मम ।। १३ ।।
कदर्ये हृदयं यस्य यस्य तृष्णाऽस्ति मानसे ।
सोऽपि तृष्णादिनाशार्थं गृह्णात्वन्नं जलं मम ।। १४।।
इत्येवं घोषितं तेन कुड्यफलकलेखितम् ।
चातुर्मास्ये ममान्नं वै फलं वारि तथाऽम्बरम् ।। १५।।
ग्रहणीयं पुष्कलं नाऽन्यग्राह्यं धर्मभिक्षुकैः ।
इत्येवं वर्तमानस्य सर्वहुतस्य भूभृतः ।। १ ६।।
अग्निहोत्रेऽन्ययज्ञे च यत्किञ्चिद्धामिकं मतम् ।
देवानां पूजने वस्तुप्रदानं चापि तस्य वै ।। १७।।
विद्यार्थिनां च विद्याया दाने व्ययो गवां तृणे ।
श्वप्रभृतिग्राम्यपशुपक्षिणां च कणान्नकम् ।। १८ ।।
जलं वस्त्रं तथा चान्यद् यथापेक्षं सुवस्तुकम् ।
आसीत् सर्वहुतस्यैवाऽतिथीनां तृप्तिकृत्तथा ।। १९ ।।
ग्रामेषु खेटेषु जनस्थलेषु क्षेत्रेषु घोषेषु नदीतटेषु ।
वनेष्वरण्येषु च पर्वतेषु द्वीपेषु वार्धौ रणनिर्जनेषु ।।२ ० ।।
उपत्यकायां नगरेषु राज्यविश्रान्तिभूमौ च करस्थलीषु ।
सर्वत्र वै सर्वहुतस्य राज्ञोऽभवन् सुसत्राणि सुदानकानि ।। २ १ ।।
ग्रामान्तराणां युगमार्गसन्धौ वनान्तराणां सृतिमूलयोगे ।
नदीनदानां तरणार्थभूमौ कृतानि सत्राणि तु तेन राज्ञा ।। २२ ।।
सीमान्तरेषु प्रखनिस्थलेषु यानस्य मार्गेषु दिगन्तरेषु ।
तीर्थेषु यात्रालुगतागतेषु स्थलेषु सत्राणि हुतस्य राज्ञः ।।२३ ।।
देवानां पूजने नाम प्रोच्यते सर्वतो दिशि ।
प्रातः सायं च मध्याह्ने तस्य सर्वहुतस्य वै ।। २४।।
सत्ये तपसि तस्यैव जने महरि स्वर्गके ।
भुवि चाप्यथ पातालेष्वस्य कीर्तिर्हि गीयते ।। २५ ।।
देवाश्च ऋषयश्चापि दैत्याश्चान्येऽपि देहिनः ।
सर्वहुतं लोकितुं वै ययुर्हंसादिरूपिणः ।। २६।।
आश्चर्यं परमं प्रापुर्दृष्ट्वा पुण्योज्ज्वलं नृपम् ।
अतितेजोमण्डलाढ्यमुखमण्डलशोभितम् ।। २७।।
दूरे चातिप्रतेजस्काः सर्वे शुशुभिरे सुराः ।
किन्तु तन्निकटे गत्वा निस्तेजस्का बभूविरे ।। २८ ।।
इति पुण्यप्रतापोऽसौ सर्वहुताऽर्थसार्थकः ।
अग्निप्रख्योऽभवद्भक्तो देवगर्वहरो नृपः ।। २९ ।।
देवैः सम्मानितः सर्वैरिन्द्रार्धासनयोजितः ।
दिक्पालैः पूजितः सोऽपि विस्मयं नाप वै मनाक् ।। ३० ।।
रागशून्यस्य तस्यैव पत्न्यासीत् पतिसेविनी।
औदार्यगुणसम्पन्ना नाम्ना वै गोऋतम्भरा ।।३ १ ।।
देवीभ्योऽप्यतिरूपाढ्या कायाकल्पातिसुन्दरी ।
कामरूपा कामभोगा कामकाराऽतिसात्त्विकी ।।३२।।
देवीषु तिष्ठते पश्चाद् देवदेवीसमाजके ।
सलज्जाऽवाङ्मुखी तत्र भवति क्षणमान्तरे ।। ३३।।
तया स्वस्वामिने प्रोक्तं मया पश्चान्निषद्यते ।
यथापूर्वं तूत्तमे ह्यासने तिष्ठामि तत्कुरु ।।३४।।
इन्द्राणी वारुणी सौर्या चान्द्रद्यो वाऽन्यसुरस्त्रियः ।
प्रणमेयुश्च मां स्वामिन् यथा तत्कुरु भूपते ।।३५।।
राजा प्राह सतीं राज्ञीं मानुषी भवसि प्रिये ।
तत्रापि देवसंघेऽस्मद्वासोऽस्त्यतिमहत्तमः ।।।३६।।
मा तृष्णां कुरु कल्याणि मानुषे तु न तद्भवेत् ।
तथापि पुण्यबाहुल्ये कदाचित् तद्विभाव्यते ।। ३७।।
करिष्ये स्तवनं यत्नं नारायणसमीपतः ।
प्राप्ते योगे तथा स्याद्वै तृष्णाशान्तिस्तथापि न ।।३८।।
नित्यं राज्ञी नृपं काले प्रस्मारयति तद्वचः ।
राजाऽपि समयं प्राप्तं तदर्थं वै प्रतीक्षते ।।३९।।
एकदाऽधिकमासस्य द्वितीयायां प्रगेऽसिते ।
स्नात्वा देवप्रपूजायां तिष्ठते तावदेव वै ।।४०।।
श्रुतवान् दुन्दुभिं रम्यं घोषयन्तं हरेर्वचः ।
शुश्राव सर्वहुतस्य राज्ञ्यपि गोऋतम्भरा ।।४१।।
उभौ स्थैर्येण तच्छब्दमानसौ संबभूवतुः ।
शुश्रुवाते दुन्दुभेस्तु घोषणां हृदयंगमाम् ।।४२।।
अधिमासद्वितीयायां व्रतं कुर्वन्ति ये जनाः ।
तेषामभीष्टदाताऽहं मासः श्रीपुरुषोत्तमः ।।४३।।
एकभुक्तं च वा नक्तं फलभुक्तिर्जलाशनम् ।
वाय्वाशनं च वा कृत्वा करिष्यन्ति व्रतं तु ये ।।४४।।
तेभ्यो दास्ये सुतदाराधनसम्पद्गृहादिकान् ।
यानवाहनहस्त्यादीन् वारीक्षेत्रधरादिकान् ।।४५।।
खण्डं द्वीपं च सामुद्रं भौमं राज्यं भूमण्डलम् ।
स्वर्गं जनं तपः सत्यं चैन्द्रं सौर्यं च चान्द्रकम् ।।४६।।
साम्राज्यं चातलं पातालकं चापि रसातलम् ।
दास्ये चतुर्दशलोकाधिपत्यं पारमेष्ठ्यकम् ।।४७।।
वारुणं वाह्निकं चैशं याम्यं तथा च पावनम् ।
कौबेरं नैर्ऋतं चापि दिक्पालत्वं महत्पदम् ।।४८।।
लोकपालपदं दास्ये वासवं ग्रहमण्डलम् ।
नैधेयं चापि रौद्रं च मारुतं नाकपृष्ठकम् ।।४९।।
सिद्धीरष्टविधा दास्ये गुणं ब्रह्माण्डसर्जनम्।
रक्षणं पालनं दास्ये सामर्थ्यं व्रतिने तु मे ।।५० ।।
अधिमासस्य देवोऽहं श्रीकृष्णः पुरुषोत्तमः ।
स्वल्पेऽपि मत्कृते कृच्छ्रे फलं दास्ये त्वनन्तकम् ।।५ १ ।।
ददामि नाऽन्यमासे यत् तद्ददाम्यत्र पुष्कलम् ।
अत्राहं कृपया दाता दातास्मि स्वेच्छया खलु ।।५२।।
मद्वचोधारयत्यद्धा मूर्ध्ना तस्मै ददाम्यहम् ।
उपायनं तथा पारितोषिकं वा स्वनुग्रहम् ।।५३ ।।
नात्र विनिमयो न्यायो न्यायस्त्वत्र कृपा मम ।
कृपयाऽहं स्वयं स्वामी वितरामि त्वशेषकम् ।।५४।।
कोटिगुणं वितरामि वितरामि त्वनन्तकम् ।
यथासंकल्पितं तस्माद् गृह्णन्तु पुरुषोत्तमात् ।।५५ ।।
इति शुश्रुषतुः सर्वहुतश्च गोऋतम्भरा ।
तौ नत्वा दुन्दुभिं पुष्पैः पूजयामासतुस्तदा ।।५६ ।।
दुन्दुभिस्तु गतोऽन्यत्र दम्पती दध्यतुः प्रभुम् ।
स्वेष्टलाभस्तथा कुत्र प्राप्स्यते चेति दध्यतुः ।।५७।।
सर्वहुतस्तदा राज्ञीं सम्प्राह गोऋतंभराम् ।
श्रुतं देवि द्वितीयाया व्रतेनेष्टमवाप्यते ।।५८ ।।
तवास्ति मानसं पूज्यस्थाने स्थातुं महत्तमे ।
चतुर्दशस्तरस्थानां सर्वासां सुरयोषिताम् ।।५९ ।।
तत्प्राप्त्यर्थं व्रतं कार्यमावाभ्यां फलदं भवेत् ।
दुन्दुभिना तदुक्तं वै स्वल्पेऽपि बहुलं फलम् ।।६ ० ।।
अहं ब्रह्मा भविष्यामि भव त्वं सहचारिणी ।
ब्रह्माणी मम पत्नी च माता वै सुरयोषिताम् ।।६ १ ।।
तथा सति तवेहा तु प्रपूर्णार्था भविष्यति ।
कृष्णनारायणो देवो फलं व्रतस्य दास्यति ।।६२।।
एवं कृत्वा तु संकल्पं व्रतं चक्रतुरादरात् ।
प्रातः स्नात्वा हरिं ध्यात्वा कारयित्वा तु कानकीम् ।।६३ ।।
मूर्तिं तत्राऽधिकदेवं श्रीकृष्णं पुरुषोत्तमम् ।
आवाह्याचमनं दत्वाऽऽसनं पाद्यं समर्प्य च ।।६४।।
तस्मै त्वाचमनं तीर्थजलस्य ददतुश्च तौ ।
दुग्धेन पिच्छलदध्ना घृतेन मधुना तथा ।।६५।।
शकर्राभिश्च संस्नाप्य कारयामासतुस्ततः ।
शुद्धजलैः सुगन्धैश्चाप्लवनं चन्दनान्वितैः ।।६६।।
मार्जयामासतुर्वस्त्रैः शोभयामासतुर्हरिम् ।
सुवर्णाऽम्बरभूषाभिर्मणिरत्नोत्तमादिभिः ।।६७।।
हारैश्चन्दनगन्धैश्च द्रवैः सारद्रवैस्तथा ।
कज्जलैस्तैलसारैश्च पुष्पैः कुंकुमतण्डुलैः ।।६८ ।।
पूजयामासतुः कृष्णं किरीटकटकादिभिः ।
सद्रत्नमणिहाराद्यैश्छत्रचामरयष्टिभिः ।।६९।।
धूपदीपसुनैवेद्यफलताम्बूलचूर्णकैः ।
कारयामासतुस्तृप्तिं श्रीहरिं पुरुषोत्तमम् ।।७०।।
जलं दत्वा सवाद्यं तौ नीराजनं प्रचक्रतुः ।
प्रदक्षिणां स्तुतिं नमस्कारांश्चक्रतुरादरात् ।।७१ ।।
प्रार्थयामासतुर्देवं व्रतेनानेन केशव ।
प्रसन्नो भव विश्वात्मन् गृहाणाऽर्घ्यं फलादिकम् ।।७२।।
इति कृत्वा ददतुस्तौ फलार्थं ससुवर्णकम् ।
पुष्पांजलिं ददतुश्च चक्रतुः सेवनं ततः ।।७३।।
मध्याह्नेऽपि तथा चोभौ चक्रतुः पूजनादिकम् ।
सायं प्रपूज्य देवेशं कृत्वा त्वारार्त्रिक निशि ।।७४।।
चक्रतुर्जागरं वाद्यनृत्यकीर्तनसूत्सवम् ।
दानं कृष्णाय ददतुः सिंहासनं तु कानकम् ।।७५।।
छत्रचामरवेत्रादिशोभितं बहुलोज्ज्वलम् ।
मणिरत्नसुमौक्तिकदामभूषाविराजितम् ।।७६।।
भवनं चापि ददतुश्चतुर्दशप्रभूमिकम् ।
सौवर्णकूप्यवस्त्वाढ्योपस्कराद्यभिराजितम् ।।७७।।
शय्यास्तरणभोज्यादिभागभुवनशोभितम् ।
पुण्यसारगृहं यत्र यत्राग्निहोत्रसद्गृहम् ।।७८।।
पितृतर्पणभवनं यत्रास्ति दानसद्गृहम् ।
मणिरत्नादि पूर्णं च यत्र कोशगृहं त्वपि ।।७९।।
यानवाहनपूर्णं च गृहं चिदचिदात्मकम् ।
दासदासीवनोद्यान नदीनद समन्वितम् ।।८०।।
गृहं यत्रास्ति भूमौ च विश्रान्तिगृहमित्यपि ।
सुरतस्य गृहं चैव भोजनस्य गृहं तथा ।।८१ ।।
स्नानागारं तथा गुप्तपातालादि सुसम्पदम् ।
गृहं यत्रास्ति कल्पानां द्रुमाणां च गवां गृहम् ।।८ २।।
एवमादीनि सर्वाणि भवनानि च यत्र वै ।
वर्तन्ते तन्महत्सौधं सप्राकारं सुशोभितम् ।।८३।।
ददतुस्तौ कृष्णनारायणायाऽर्पणमेव हि ।
तावत्तत्र समायातः श्रीकृष्णः पुरुषोत्तमः ।।८४।।
प्रोवाच तौ प्रसन्नोऽस्मि दानेन च व्रतेन च ।
ददाम्येषः कृपां कृत्वा वृणुत वरदानकम् ।।८५।।
दम्पती प्राहतुस्तत्र पारमेष्ठ्यं पदं प्रभो ।
देहि पश्चात्तवधामाऽक्षरं मोक्षं च शाश्वतम् ।।८६।।
तथास्त्विति हरिः प्राह तथाऽऽह गोऋतम्भराम् ।
भाविनि पुष्करे तीर्थे पृथ्व्यां वै क्षत्रियो नृपः ।।८७।।
आभीराणां च गोपानां पुष्करारण्यवासिनाम् ।
नृपो भविष्यति नाम्ना गायत्रो वै विराट्सुतः ।।८८।।
तस्य भार्या ऋषीनाम्नी राज्ञी पुष्करपुत्रिका ।
भविष्यति तयोः पुत्री आर्षिनाम्नी सुकन्यका ।।८९।।
सेयं त्वं भाविनी गोपी गोमती गोऋतम्भरा ।
गायत्री गोकुलसेवाकर्त्री तत्र भविष्यसि ।।९०।।
अयं राजा सर्वहुतस्तत्र ब्रह्मा भविष्यति ।
आद्ये युगे च यज्ञार्थे पुष्करे स गमिष्यति ।।९१ ।।
सुरर्षिमुनिपित्राद्यैर्मानवैस्तलवासिभिः ।
चतुरशीतिलक्षात्मदेहिभिः सह विश्वसृट् ।।९२।।
यज्ञं करिष्यति त्वाद्यं प्रवृत्त्यर्थं जगत्त्रये ।
तत्राग्निषु प्रोद्धृतेषु दीक्षाकाले ह्युपागते ।।९३।।
अध्वर्युणा तदाऽऽहूता सावित्री दीर्घसूत्रिणी ।
सज्जी भूत्वा यज्ञभूमौ तत्काले नाऽऽगमिष्यति ।।९४।।
ब्रह्मा शक्रं समाहूय कथयिष्यति कालिकम् ।
पत्नीं त्वन्यां मदर्थे तु शीघ्रं शक्र समानय ।।९५।।
यथा प्रवर्तते यज्ञः कालहीनो न जायते ।
तथा शीघ्रं विधेहि त्वं नारीं पत्न्यर्थमानय ।।९६।।
एवमुक्तस्तथा शक्रो गायत्रराजकन्यकाम् ।
यज्ञभूमिविलोकायाऽऽगतां त्वां स हि नेष्यति ।।९७।।
आर्षिणीं कन्यकां रम्यां गायत्रीं नवयौवनाम् ।
गान्धर्वेण विवाहेन ग्रहीष्यति स विश्वसृट् ।।९८।।
प्रारप्स्यते ततो होत्रं ब्राह्मणैर्वेदपारर्गेः ।
यज्ञो दिनसहस्रं वै पुष्करे स भविष्यति ।।९९।।
तत आरभ्य गायत्री ब्रह्माणी त्वं भविष्यसि ।
लोकमाता वेदमाता सृष्टिमाता भविष्यसि ।। १० ०।।
सर्वपूज्या सर्वमान्या द्विजजाप्या भविष्यसि ।
ब्रह्मदात्री ब्रह्मवधूर्भविष्यसि ऋतम्भरे ।। १०१ ।।
अयं सर्वहुतो ब्रह्मा त्वं गायत्री च दम्पती ।
द्वितीयाया व्रतेनैव कृपया मे भविष्यथः ।। १ ०२।।
शतवर्षोत्तरं धामाऽक्षरं मे प्राप्स्यथो ध्रुवम् ।
महानगरतुल्यस्य सौधस्य दानकर्मणा ।। १ ०३।।
ब्रह्माण्डाख्यं गृहं राज्यं दास्ये स्मृद्धं परात्परम् ।
इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् ।। १ ०४।।
पूर्वजस्य ब्रह्मणोऽपि लये जातेऽथ दम्पती ।
पारमेष्ठ्यं पदं श्रेष्ठं प्रापतुः शाश्वतं चिरम् ।। १ ०५।।
एवं सर्वहुतो राजा तत्पत्नी गोऋतम्भरा ।
सञ्जातौ दंपती ब्रह्मा गायत्री पितरौ सृजेः ।। १ ०६।।
इति ते कथितं लक्ष्मि! प्राक्सृष्टीयमुदन्तकम् ।
पुरुषोत्तममासस्य द्वितीयायास्तु सद्व्रतम् ।। १०७।।
पारमेष्ठ्यपददातृ श्रोतुर्वक्तुस्तथा फलम् ।
भविष्यति न सन्देहो वक्ति श्रीपुरुषोत्तमः ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सर्वहुतराज्ञा गोऋतम्भराराज्ञ्या च द्वितीयपक्षद्वितीयाव्रतेन नगरसमभवन-दानादिना पूजनादिना च पारमेष्ठ्यपदे ब्रह्मणोऽव-तारो गायत्र्यवतारश्च प्राप्तं इत्यादिनिरूपण-नामा नवाधिकत्रिशततमोऽध्यायः ।।१.३०९।।