"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः ९: | पङ्क्तिः ९: | ||
समूळ्हे दशरात्रेष्टमेहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ८/खण्डः ७|८.७]])। पशुपुरोडाशस्य अनुवाक्या (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ३|३.८]] |
समूळ्हे दशरात्रेष्टमेहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ८/खण्डः ७|८.७]])। पशुपुरोडाशस्य अनुवाक्या (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ३|३.८]] |
||
}} |
}} |
||
<poem><span style="font-size: 14pt; line-height:200%"> |
|||
<div class="verse"> |
|||
<pre> |
|||
त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । |
त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । |
||
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥ |
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥ |
||
पङ्क्तिः ५४: | पङ्क्तिः ५२: | ||
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥ |
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥ |
||
</span></poem> |
|||
⚫ | |||
</pre> |
|||
{{सायणभाष्यम्| |
|||
</div> |
|||
}} |
|||
[[en:The Rig Veda/Mandala 4/Hymn 17]] |
[[en:The Rig Veda/Mandala 4/Hymn 17]] |
||
{{ऋग्वेदः मण्डल ४}} |
{{ऋग्वेदः मण्डल ४}} |
||
⚫ |
०३:१८, १८ जनवरी २०१९ इत्यस्य संस्करणं
← सूक्तं ४.१६ | ऋग्वेदः - मण्डल ४ सूक्तं ४.१७ वामदेवो गौतमः। |
सूक्तं ४.१८ → |
दे. इन्द्रः। त्रिष्टुप्,१५ एकपदा विराट्।
समूळ्हे दशरात्रेष्टमेहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् (आश्व.श्रौ. ८.७)। पशुपुरोडाशस्य अनुवाक्या (आश्व.श्रौ. ३.८ |
त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥
तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।
ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥२॥
भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।
वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥३॥
सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् ।
य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥४॥
य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः ।
सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥५॥
सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।
सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥६॥
त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः ।
त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥७॥
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् ।
हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥८॥
अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।
अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥९॥
अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥१०॥
समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः ।
एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥११॥
कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।
यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः ॥१२॥
क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥१३॥
अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् ।
आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥१४॥
असिक्न्यां यजमानो न होता ॥१५॥
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ।
जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥१६॥
त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् ।
सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥१७॥
सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः ।
वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥१८॥
स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति ।
अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥१९॥
एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।
त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥२०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
सायणभाष्यम्
मण्डल ४ | |
---|---|
|