"ऋग्वेदः सूक्तं १०.३१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १६: | पङ्क्तिः १६: | ||
अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥६॥ |
अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥६॥ |
||
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । |
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । |
||
संतस्थाने अजरे |
संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥७॥ |
||
नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । |
नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । |
||
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥ |
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥ |
१३:४०, १६ एप्रिल् २००९ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं १०.३१
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः । तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥१॥ परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् । उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥२॥ अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः । अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥३॥ नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान । भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥४॥ इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् । अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥५॥ अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥६॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥७॥ नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥ स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम । मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥९॥ स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा । पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥१०॥ उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी । प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥११॥