"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः ८: | पङ्क्तिः ८: | ||
| notes = दे. इन्द्राग्नी। गायत्री |
| notes = दे. इन्द्राग्नी। गायत्री |
||
}} |
}} |
||
⚫ | |||
<poem><span style="font-size: 14pt; line-height: 200%"> |
<poem><span style="font-size: 14pt; line-height: 200%"> |
||
अयं देवाय जन्मने स्तोमो विप्रेभिरासया । |
अयं देवाय जन्मने स्तोमो विप्रेभिरासया । |
||
पङ्क्तिः ७७: | पङ्क्तिः ७५: | ||
}} |
}} |
||
⚫ |
०२:१४, २ जनवरी २०१९ इत्यस्य संस्करणं
← सूक्तं १.१९ | ऋग्वेदः - मण्डल १ सूक्तं १.२० मेधातिथिः काण्वः |
सूक्तं १.२१ → |
दे. इन्द्राग्नी। गायत्री |
अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
अकारि रत्नधातमः ॥१॥
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥२॥
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
तक्षन्धेनुं सबर्दुघाम् ॥३॥
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
ऋभवो विष्ट्यक्रत ॥४॥
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश्च राजभिः ॥५॥
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
अकर्त चतुरः पुनः ॥६॥
ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
एकमेकं सुशस्तिभिः ॥७॥
अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियम् ॥८॥
सायणभाष्यम्
।। श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ' अयं देवाय ' इत्यष्टर्चं सूक्तम् । तस्य ऋषि- च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते' अयमष्टावार्भवम् ' इति । विनियोगस्तु सूक्तस्य लैङ्गिकः स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ' अयं देवाय जन्मने ' इति आर्भवस्तृचः । ' अथ च्छन्दोमाः ' इति खण्डे सूत्रितम्-' अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ' ( आश्व. श्रौ. ८. ९) इति ।।
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुर॒ः पुन॑ः ॥
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभि॑ः ॥
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|