"रामायणम्/युद्धकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
→बाहरी कडियाँ: Removing संस्कृत category as all pages here r of sanskrit using AWB |
→बाहरी कडियाँ: Removing Sanskrit category as all pages here r of sanskrit using AWB |
||
पङ्क्तिः ९३: | पङ्क्तिः ९३: | ||
**[[रामायण उत्तरकाण्ड]] |
**[[रामायण उत्तरकाण्ड]] |
||
==बाहरी कडियाँ== |
==बाहरी कडियाँ== |
||
[[वर्गः:Sanskrit]] |
|||
[[वर्गः:काव्य]] |
[[वर्गः:काव्य]] |
||
[[वर्गः:Hinduism]] |
[[वर्गः:Hinduism]] |
१२:३२, २३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः । सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥ अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः । इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥ प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः । धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥ परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् । चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥ प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥ अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् । कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥ तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः । अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥ अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते । तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥ प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च । विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥ अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् । जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥ समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् । कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥ बलानि अपरिमेयानि वीर्याणि च निशा चराः । परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥ किम् च राक्षस राजस्य रामेण अपकृतम् पुरा । आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥ खरो यदि अतिवृत्तस् तु रामेण निहतो रणे । अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥ एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् । आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥ न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना । वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥ यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् । पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥ यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी । न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥ विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः । रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥ प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम । हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥ पुरा शरत् सूर्य मरीच्चि सम्निभान् । नव अग्र पुन्खान् सुदृढान् नृप आत्मजः । सृजति अमोघान् विशिखान् वधाय ते । प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥ त्यजस्व कोपम् सुख धर्म नाशनम् । भजस्व धर्मम् रति कीर्ति वर्धनम् । प्रसीद जीवेम सपुत्र बान्धवाः । प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥