"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः ६३: | पङ्क्तिः ६३: | ||
</span></poem> |
</span></poem> |
||
{{सायणभाष्यम्| |
{{सायणभाष्यम्| |
||
‘मध्वः' इति पञ्चविंशत्यृचं द्वितीयं सूक्तम् । औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । ‘मध्वः' इत्यनुक्रान्तम् ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥ |
|||
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां । |
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां । |
||
पङ्क्तिः ७६: | पङ्क्तिः ७८: | ||
बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥ |
बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥ |
||
हे अश्विनौ “मध्वः मधुना माधुर्योपेतेन “सोमस्य सोमेन “मदाय युवयोर्मदार्थं “प्रत्नः चिरंतनः “होता होमनिष्पादको यजमानः “वां युवाम् “आ “विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च “रातिः दातव्यं हविः “बर्हिष्मती आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिषि आसादितमित्यर्थः । तथा “गीः स्तुतिलक्षणा वाक् च “विश्रिता ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियते इत्यर्थः । अतो हे नासत्यावश्विनौ “इषा अस्मभ्यं दातव्येनान्नेन “वाजैः बलैश्च सह युवाम् “उप “यातम् अस्मत्समीपं प्राप्नुतम् ॥ मध्वः । ‘सुपा सुपो भवन्ति । इति तृतीयार्थे षष्ठी ।' जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । मदाय । ‘मदी हर्षे ' । “ मदोऽनुपसर्गे ' इति अप् । रातिः । ‘रा दाने ' । कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । विश्रिता । ‘श्रिञ् सेवायाम् ' । कर्मणि निष्ठा ।' गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् ।। |
|||
पङ्क्तिः ९०: | पङ्क्तिः ९३: | ||
येन । गच्छथः । सुऽकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥ |
येन । गच्छथः । सुऽकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥ |
||
हे अश्विनौ “वां युवयोः स्वभूतः “मनसो “जवीयान् मनसोऽप्यतिशयेन वेगवान् “स्वश्वः शोभनाश्वः एवंभूतः “यः “रथः “विशः प्रजाः "आजिगाति अभिमुख्येन गच्छति । “येन रथेन “सुकृतः शोभनं यागं कुर्वतो यजमानस्य “दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे “नरा नेतारावश्विनौ “तेन रथेन “अस्मभ्यम् अस्माकं “वर्तिः वर्तनाधिकरणं गृहं यातम् आगच्छतम् ॥ जवीयान् । जवोऽस्यास्तीति जववान् । तदस्यास्ति' इति मतुप् । ततः आतिशायनिकः ईयसुन् । विन्मतोर्लुक् । ‘टेः' इति टिलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः ।, ‘बहुलं छन्दसि' इति अभ्यासस्य इत्वम् ॥ |
|||
पङ्क्तिः १०४: | पङ्क्तिः १०८: | ||
मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुऽपूर्वम् । वृषणा । चोदयन्ता ॥ |
मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुऽपूर्वम् । वृषणा । चोदयन्ता ॥ |
||
‘हिमेनाग्निम् ' ( ऋ. सं. १. ११६. ८) इत्यनयोक्त एवार्थः पुनः प्रकारान्तरेण अनया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे "नरौ नेतारौ “वृषणा कामानां वर्षितारौ अश्विनौ “पाञ्चजन्यम् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन अत्रिः सर्वेषां हिताचरणात् तत्रभवः इत्युच्यते । तादृशम् “ऋषिम् “अंहसः पापरूपात “ऋबीसात् शतद्वारे यन्त्रगृहे अत्रेः पीडार्थम् असुरैः प्रक्षिप्तात् तुषाग्नेः सकाशात् "गणेन इन्द्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुञ्चथः अमोचयतम् । किं कुर्वन्तौ । “मिनन्ता शत्रून् हिंसन्तौ "दस्योः उपक्षपयितुः “अशिवस्य दुःखकारिणः असुरस्य संबन्धिनीः तस्मिन् अत्रौ प्रयुक्ताः “मायाः च "अनुपूर्वम् अनुपूर्व्येण “चोदयन्ता प्रेरयन्तौ निवारयन्तौ ॥ पाञ्चजन्यम् । ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का. ४. ३. ५८. १) इति भवार्थे ञ्यः । मिनन्ता । 'मीञ् हिंसायाम् । क्रैयादिकः। लटः शतृ । ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥ |
|||
पङ्क्तिः ११८: | पङ्क्तिः १२३: | ||
सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥ |
सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥ |
||
“नरा नेतारौ “वृषणा कामानां वर्षकौ हे अश्विनौ “दुरेवैः दुष्प्रापैरसुरैः "अप्सु कूपस्थेषूदकेषु "गूळ्हं निगूढं निखातं "रेभम् “ऋषिं कूपादुन्नीय “विप्रुतं विश्लिष्टावयवं “तम् अश्वं “न व्याधितमश्वमिव “दंसोभिः आत्मीयैः भैषज्यरूपैः कर्मभिः “सं “रिणीथः समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । “वां युवयोः संबन्धीनि “पूर्व्या चिरंतनानि “कृतानि कर्माणि “न जूर्यन्ति न हि जीर्णानि भवन्ति ॥ दुरेवैः । दुरुपसृष्टात् एतेः “ ईषज्जुःसुषु' इति खल् । रिणीथः । ‘री गतिरेषणयोः । क्रैयादिकः । ‘प्वादीनां ह्रस्वः'। जूर्यन्ति। ‘जॄष् वयोहानौ' । दैवादिकत्वात् श्यन् ! ‘बहुलं छन्दसि' इति उत्वम् । हलि च' इति दीर्घः |
|||
पङ्क्तिः १३२: | पङ्क्तिः १३८: | ||
शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥ |
शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥ |
||
निर्ऋतिरिति भूनाम । “निर्ऋतेः पृथिव्याः “उपस्थे उत्सङ्गे “सुषुप्वांसं सुप्तवन्तं पुरुषमिव कूपमध्ये शयानं “सूर्यं “न सूर्यमिव “तमसि कूपान्तर्गतान्धकारे “क्षियन्तं निवसन्तं सूर्यमिव तेजस्विनमित्यर्थः ६ । “शुभे शोभार्थं निर्मितं “रुक्मं न रोचमानं सुवर्णमयाभरणमिव “दर्शतं दर्शनीयम् एवंगुणविशिष्टं कूपे असुरैः "निखातं "वन्दनाय वन्दनमृषिं हे "दस्रा दर्शनीयावश्विनौ युवाम् "उदूपथुः उद्धृतवन्तौ ॥ सुषुप्वांसम् ।' ञिष्वप् शये '। लिटः क्वसुः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । उपस्थे । उपपूर्वात् तिष्ठतेः ‘घञर्थे कविधानम् ' इत्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ॥ १३ ॥ |
|||
पङ्क्तिः १४६: | पङ्क्तिः १५३: | ||
शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥ |
शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥ |
||
हे नरा नेतारौ नासत्यावश्विनौ “परिज्मन् परिगमने अभीष्टस्य प्रापणे निमित्तभूते सति "पज्रियेण पज्राणाम् अङ्गिरसां कुले जातेन “कक्षीवता मया "वां युवयोः संबन्धि “तत् कर्म “शंस्यम् प्रकर्षेण शंसनीयम् । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् “जनाय अपेक्षमाणाय पुरुषाय "वाजिनः वेगवतः तदीयस्य “अश्वस्य “शफात्' निर्गतैः "मधूनां मधुभिः शतसंख्याकान् “कुम्भान् “असिञ्चतम् अपूरयतम् । सिञ्चतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तत् शंस्यम्' इत्यर्थः ॥ |
|||
पङ्क्तिः १६०: | पङ्क्तिः १६८: | ||
घोषायै । चित् । पितृऽसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥ |
घोषायै । चित् । पितृऽसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥ |
||
हे "नरा नेतारौ अश्विनौ "युवं युवां “स्तुवते स्तोत्रं कुर्वते "कृष्णियाय कृष्णाख्यस्य पुत्राय “विश्वकाय "विष्णाप्वं “ददथुः । विष्णाप्वं नाम विनष्टं पुत्रं दत्तवन्तौ । घोषानाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वराय अदत्ता पितृगृहे निषण्णा जीर्णा आसीत् । सो अश्विनोरनुग्रहात नष्टकुष्ठा सती पतिं लेभे। तदेतदाह । हे “अश्विनौ पित्रा संबद्धे "दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य "पितृषदे पितृसमीपे निषण्णायै “जूर्यन्त्यै जरां प्राप्नुवत्यै “घोषायै “चित् एतत्संज्ञायै ब्रह्मवादिन्यै अपि रोगोपशमनेन “पतिं भर्तारम् “अदत्तं युवां दत्तवन्तौ ॥ पितृषदे । *षद्लृ विशरणादिषुः । क्विप् च ' इति क्विम्। जूर्यन्त्यै। ‘जॄष् वयोहानौ' । लटः शतृ । दिवादित्वात् श्यन् ।' बहुलं छन्दसि' इति उत्वम् ।' हलि च' इति दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥ |
|||
१५:५६, ८ सेप्टेम्बर् २०१८ इत्यस्य संस्करणं
← सूक्तं १.११६ | ऋग्वेदः - मण्डल १ सूक्तं १.११७ कक्षीवान् दैर्घतमस औशिजः |
सूक्तं १.११८ → |
दे. अश्विनौ। त्रिष्टुप्। |
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥२॥
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥३॥
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥४॥
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥५॥
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥६॥
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥७॥
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥९॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥१०॥
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥११॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥१२॥
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥१३॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥१४॥
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥१६॥
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥१७॥
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥१८॥
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥१९॥
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥२०॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥२१॥*
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥२२॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥२३॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥२४॥
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥२५॥
सायणभाष्यम्
‘मध्वः' इति पञ्चविंशत्यृचं द्वितीयं सूक्तम् । औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । ‘मध्वः' इत्यनुक्रान्तम् ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां ।
ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥१
मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् ।
ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥
मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते । वाम् ।
बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥
हे अश्विनौ “मध्वः मधुना माधुर्योपेतेन “सोमस्य सोमेन “मदाय युवयोर्मदार्थं “प्रत्नः चिरंतनः “होता होमनिष्पादको यजमानः “वां युवाम् “आ “विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च “रातिः दातव्यं हविः “बर्हिष्मती आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिषि आसादितमित्यर्थः । तथा “गीः स्तुतिलक्षणा वाक् च “विश्रिता ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियते इत्यर्थः । अतो हे नासत्यावश्विनौ “इषा अस्मभ्यं दातव्येनान्नेन “वाजैः बलैश्च सह युवाम् “उप “यातम् अस्मत्समीपं प्राप्नुतम् ॥ मध्वः । ‘सुपा सुपो भवन्ति । इति तृतीयार्थे षष्ठी ।' जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । मदाय । ‘मदी हर्षे ' । “ मदोऽनुपसर्गे ' इति अप् । रातिः । ‘रा दाने ' । कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । विश्रिता । ‘श्रिञ् सेवायाम् ' । कर्मणि निष्ठा ।' गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् ।।
यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा॑ति ।
येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातं ॥२
यः । वा॒म् । अ॒श्वि॒ना॒ । मन॑सः । जवी॑यान् । रथः॑ । सु॒ऽअश्वः॑ । विशः॑ । आ॒ऽजिगा॑ति ।
येन॑ । गच्छ॑थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । तेन॑ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य॑म् । या॒त॒म् ॥
यः । वाम् । अश्विना । मनसः । जवीयान् । रथः । सुऽअश्वः । विशः । आऽजिगाति ।
येन । गच्छथः । सुऽकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥
हे अश्विनौ “वां युवयोः स्वभूतः “मनसो “जवीयान् मनसोऽप्यतिशयेन वेगवान् “स्वश्वः शोभनाश्वः एवंभूतः “यः “रथः “विशः प्रजाः "आजिगाति अभिमुख्येन गच्छति । “येन रथेन “सुकृतः शोभनं यागं कुर्वतो यजमानस्य “दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे “नरा नेतारावश्विनौ “तेन रथेन “अस्मभ्यम् अस्माकं “वर्तिः वर्तनाधिकरणं गृहं यातम् आगच्छतम् ॥ जवीयान् । जवोऽस्यास्तीति जववान् । तदस्यास्ति' इति मतुप् । ततः आतिशायनिकः ईयसुन् । विन्मतोर्लुक् । ‘टेः' इति टिलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः ।, ‘बहुलं छन्दसि' इति अभ्यासस्य इत्वम् ॥
ऋषिं॑ नरा॒वंह॑सः॒ पांच॑जन्यमृ॒बीसा॒दत्रिं॑ मुंचथो ग॒णेन॑ ।
मि॒नंता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दयं॑ता ॥३
ऋषि॑म् । न॒रौ॒ । अंह॑सः । पाञ्च॑ऽजन्यम् । ऋ॒बीसा॑त् । अत्रि॑म् । मु॒ञ्च॒थः॒ । ग॒णेन॑ ।
मि॒नन्ता॑ । दस्योः॑ । अशि॑वस्य । मा॒याः । अ॒नु॒ऽपू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय॑न्ता ॥
ऋषिम् । नरौ । अंहसः । पाञ्चऽजन्यम् । ऋबीसात् । अत्रिम् । मुञ्चथः । गणेन ।
मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुऽपूर्वम् । वृषणा । चोदयन्ता ॥
‘हिमेनाग्निम् ' ( ऋ. सं. १. ११६. ८) इत्यनयोक्त एवार्थः पुनः प्रकारान्तरेण अनया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे "नरौ नेतारौ “वृषणा कामानां वर्षितारौ अश्विनौ “पाञ्चजन्यम् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन अत्रिः सर्वेषां हिताचरणात् तत्रभवः इत्युच्यते । तादृशम् “ऋषिम् “अंहसः पापरूपात “ऋबीसात् शतद्वारे यन्त्रगृहे अत्रेः पीडार्थम् असुरैः प्रक्षिप्तात् तुषाग्नेः सकाशात् "गणेन इन्द्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुञ्चथः अमोचयतम् । किं कुर्वन्तौ । “मिनन्ता शत्रून् हिंसन्तौ "दस्योः उपक्षपयितुः “अशिवस्य दुःखकारिणः असुरस्य संबन्धिनीः तस्मिन् अत्रौ प्रयुक्ताः “मायाः च "अनुपूर्वम् अनुपूर्व्येण “चोदयन्ता प्रेरयन्तौ निवारयन्तौ ॥ पाञ्चजन्यम् । ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का. ४. ३. ५८. १) इति भवार्थे ञ्यः । मिनन्ता । 'मीञ् हिंसायाम् । क्रैयादिकः। लटः शतृ । ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒र्ऋषिं॑ नरा वृषणा रे॒भम॒प्सु ।
सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यंति पू॒र्व्या कृ॒तानि॑ ॥४
अश्व॑म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒ऽएवैः॑ । ऋषि॑म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्ऽसु ।
सम् । तम् । रि॒णी॒थः॒ । विऽप्रु॑तम् । दंसः॑ऽभिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि॑ ॥
अश्वम् । न । गूळ्हम् । अश्विना । दुःऽएवैः । ऋषिम् । नरा । वृषणा । रेभम् । अप्ऽसु ।
सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥
“नरा नेतारौ “वृषणा कामानां वर्षकौ हे अश्विनौ “दुरेवैः दुष्प्रापैरसुरैः "अप्सु कूपस्थेषूदकेषु "गूळ्हं निगूढं निखातं "रेभम् “ऋषिं कूपादुन्नीय “विप्रुतं विश्लिष्टावयवं “तम् अश्वं “न व्याधितमश्वमिव “दंसोभिः आत्मीयैः भैषज्यरूपैः कर्मभिः “सं “रिणीथः समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । “वां युवयोः संबन्धीनि “पूर्व्या चिरंतनानि “कृतानि कर्माणि “न जूर्यन्ति न हि जीर्णानि भवन्ति ॥ दुरेवैः । दुरुपसृष्टात् एतेः “ ईषज्जुःसुषु' इति खल् । रिणीथः । ‘री गतिरेषणयोः । क्रैयादिकः । ‘प्वादीनां ह्रस्वः'। जूर्यन्ति। ‘जॄष् वयोहानौ' । दैवादिकत्वात् श्यन् ! ‘बहुलं छन्दसि' इति उत्वम् । हलि च' इति दीर्घः
सु॒षु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यंतं॑ ।
शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वंद॑नाय ॥५
सु॒सु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् ।
शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥
सुसुप्वांसम् । न । निःऽऋतेः । उपऽस्थे । सूर्यम् । न । दस्रा । तमसि । क्षियन्तम् ।
शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥
निर्ऋतिरिति भूनाम । “निर्ऋतेः पृथिव्याः “उपस्थे उत्सङ्गे “सुषुप्वांसं सुप्तवन्तं पुरुषमिव कूपमध्ये शयानं “सूर्यं “न सूर्यमिव “तमसि कूपान्तर्गतान्धकारे “क्षियन्तं निवसन्तं सूर्यमिव तेजस्विनमित्यर्थः ६ । “शुभे शोभार्थं निर्मितं “रुक्मं न रोचमानं सुवर्णमयाभरणमिव “दर्शतं दर्शनीयम् एवंगुणविशिष्टं कूपे असुरैः "निखातं "वन्दनाय वन्दनमृषिं हे "दस्रा दर्शनीयावश्विनौ युवाम् "उदूपथुः उद्धृतवन्तौ ॥ सुषुप्वांसम् ।' ञिष्वप् शये '। लिटः क्वसुः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । उपस्थे । उपपूर्वात् तिष्ठतेः ‘घञर्थे कविधानम् ' इत्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ॥ १३ ॥
तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् ।
श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कुं॒भाँ अ॑सिंचतं॒ मधू॑नां ॥६
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । प॒ज्रि॒येण॑ । क॒क्षीव॑ता । ना॒स॒त्या॒ । परि॑ऽज्मन् ।
श॒फात् । अश्व॑स्य । वा॒जिनः॑ । जना॑य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू॑नाम् ॥
तत् । वाम् । नरा । शंस्यम् । पज्रियेण । कक्षीवता । नासत्या । परिऽज्मन् ।
शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥
हे नरा नेतारौ नासत्यावश्विनौ “परिज्मन् परिगमने अभीष्टस्य प्रापणे निमित्तभूते सति "पज्रियेण पज्राणाम् अङ्गिरसां कुले जातेन “कक्षीवता मया "वां युवयोः संबन्धि “तत् कर्म “शंस्यम् प्रकर्षेण शंसनीयम् । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् “जनाय अपेक्षमाणाय पुरुषाय "वाजिनः वेगवतः तदीयस्य “अश्वस्य “शफात्' निर्गतैः "मधूनां मधुभिः शतसंख्याकान् “कुम्भान् “असिञ्चतम् अपूरयतम् । सिञ्चतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तत् शंस्यम्' इत्यर्थः ॥
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ।
घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्यं॑त्या अश्विनावदत्तं ॥७
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ।
घोषा॑यै । चि॒त् । पि॒तृ॒ऽसदे॑ । दु॒रो॒णे । पति॑म् । जूर्य॑न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
युवम् । नरा । स्तुवते । कृष्णियाय । विष्णाप्वम् । ददथुः । विश्वकाय ।
घोषायै । चित् । पितृऽसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥
हे "नरा नेतारौ अश्विनौ "युवं युवां “स्तुवते स्तोत्रं कुर्वते "कृष्णियाय कृष्णाख्यस्य पुत्राय “विश्वकाय "विष्णाप्वं “ददथुः । विष्णाप्वं नाम विनष्टं पुत्रं दत्तवन्तौ । घोषानाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वराय अदत्ता पितृगृहे निषण्णा जीर्णा आसीत् । सो अश्विनोरनुग्रहात नष्टकुष्ठा सती पतिं लेभे। तदेतदाह । हे “अश्विनौ पित्रा संबद्धे "दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य "पितृषदे पितृसमीपे निषण्णायै “जूर्यन्त्यै जरां प्राप्नुवत्यै “घोषायै “चित् एतत्संज्ञायै ब्रह्मवादिन्यै अपि रोगोपशमनेन “पतिं भर्तारम् “अदत्तं युवां दत्तवन्तौ ॥ पितृषदे । *षद्लृ विशरणादिषुः । क्विप् च ' इति क्विम्। जूर्यन्त्यै। ‘जॄष् वयोहानौ' । लटः शतृ । दिवादित्वात् श्यन् ।' बहुलं छन्दसि' इति उत्वम् ।' हलि च' इति दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥
यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य ।
प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तं ॥८
यु॒वम् । श्यावा॑य । रुश॑तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य॑ । अ॒श्वि॒ना॒ । कण्वा॑य ।
प्र॒ऽवाच्य॑म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वा॒म् । यत् । ना॒र्स॒दाय॑ । श्रवः॑ । अ॒धि॒ऽअध॑त्तम् ॥
युवम् । श्यावाय । रुशतीम् । अदत्तम् । महः । क्षोणस्य । अश्विना । कण्वाय ।
प्रऽवाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय । श्रवः । अधिऽअधत्तम् ॥
पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।
स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रं ॥९
पु॒रु । वर्पां॑सि । अ॒श्वि॒ना॒ । दधा॑ना । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
स॒ह॒स्र॒ऽसाम् । वा॒जिन॑म् । अप्र॑तिऽइतम् । अ॒हि॒ऽहन॑म् । श्र॒व॒स्य॑म् । तरु॑त्रम् ॥
पुरु । वर्पांसि । अश्विना । दधाना । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।
सहस्रऽसाम् । वाजिनम् । अप्रतिऽइतम् । अहिऽहनम् । श्रवस्यम् । तरुत्रम् ॥
ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मां॑गू॒षं सद॑नं॒ रोद॑स्योः ।
यद्वां॑ प॒ज्रासो॑ अश्विना॒ हवं॑ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाजं॑ ॥१०
ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः ।
यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥
एतानि । वाम् । श्रवस्या । सुदानू इति सुऽदानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः ।
यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यातम् । इषा । च । विदुषे । च । वाजम् ॥
सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रदं॑ता ।
अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतं ॥११
सू॒नोः । माने॑न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज॑म् । विप्रा॑य । भु॒र॒णा॒ । रद॑न्ता ।
अ॒गस्त्ये॑ । ब्रह्म॑णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला॑म् । ना॒स॒त्या॒ । अ॒रि॒णी॒त॒म् ॥
सूनोः । मानेन । अश्विना । गृणाना । वाजम् । विप्राय । भुरणा । रदन्ता ।
अगस्त्ये । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या । अरिणीतम् ॥
कुह॒ यांता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा ।
हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥१२
कुह॑ । यान्ता॑ । सु॒ऽस्तु॒तिम् । का॒व्यस्य॑ । दिवः॑ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒ऽत्रा ।
हिर॑ण्यस्यऽइव । क॒लश॑म् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह॑न् ॥
कुह । यान्ता । सुऽस्तुतिम् । काव्यस्य । दिवः । नपाता । वृषणा । शयुऽत्रा ।
हिरण्यस्यऽइव । कलशम् । निऽखातम् । उत् । ऊपथुः । दशमे । अश्विना । अहन् ॥
यु॒वं च्यवा॑नमश्विना॒ जरं॑तं॒ पुन॒र्युवा॑नं चक्रथुः॒ शची॑भिः ।
यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥१३
यु॒वम् । च्यवा॑नम् । अ॒श्वि॒ना॒ । जर॑न्तम् । पुनः॑ । युवा॑नम् । च॒क्र॒थुः॒ । शची॑भिः ।
यु॒वोः । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥
युवम् । च्यवानम् । अश्विना । जरन्तम् । पुनः । युवानम् । चक्रथुः । शचीभिः ।
युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत ॥
यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवैः॑ पुनर्म॒न्याव॑भवतं युवाना ।
यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुर्ऋ॒ज्रेभि॒रश्वैः॑ ॥१४
यु॒वम् । तुग्रा॑य । पू॒र्व्येभिः॑ । एवैः॑ । पु॒नः॒ऽम॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ ।
यु॒वम् । भु॒ज्युम् । अर्ण॑सः । निः । स॒मु॒द्रात् । विऽभिः॑ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः॑ । अश्वैः॑ ॥
युवम् । तुग्राय । पूर्व्येभिः । एवैः । पुनःऽमन्यौ । अभवतम् । युवाना ।
युवम् । भुज्युम् । अर्णसः । निः । समुद्रात् । विऽभिः । ऊहथुः । ऋज्रेभिः । अश्वैः ॥
अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् ।
निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥१५
अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् ।
निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
अजोहवीत् । अश्विना । तौग्र्यः । वाम् । प्रऽऊळ्हः । समुद्रम् । अव्यथिः । जगन्वान् ।
निः । तम् । ऊहथुः । सुऽयुजा । रथेन । मनःऽजवसा । वृषणा । स्वस्ति ॥
अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममुं॑चतं॒ वृक॑स्य ।
वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥१६
अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य ।
वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥
अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुञ्चतम् । वृकस्य ।
वि । जयुषा । ययथुः । सानु । अद्रेः । जातम् । विष्वाचः । अहतम् । विषेण ॥
श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा ।
आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑रं॒धाय॑ चक्रथुर्वि॒चक्षे॑ ॥१७
श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽनी॑तम् । अशि॑वेन । पि॒त्रा ।
आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥
शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्रऽनीतम् । अशिवेन । पित्रा ।
आ । अक्षी इति । ऋज्रऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचक्षे ॥
शु॒नमं॒धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ ।
जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥१८
शु॒नम् । अ॒न्धाय॑ । भर॑म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा॑ । इति॑ ।
जा॒रः । क॒नीनः॑ऽइव । च॒क्ष॒दा॒नः । ऋ॒ज्रऽअ॑श्वः । श॒तम् । एक॑म् । च॒ । मे॒षान् ॥
शुनम् । अन्धाय । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरा । इति ।
जारः । कनीनःऽइव । चक्षदानः । ऋज्रऽअश्वः । शतम् । एकम् । च । मेषान् ॥
म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः ।
अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥१९
म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒ऽभूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ ।
अथ॑ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर॑म्ऽधिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः॑ऽभिः ॥
मही । वाम् । ऊतिः । अश्विना । मयःऽभूः । उत । स्रामम् । धिष्ण्या । सम् । रिणीथः ।
अथ । युवाम् । इत् । अह्वयत् । पुरम्ऽधिः । आ । अगच्छतम् । सीम् । वृषणौ । अवःऽभिः ॥
अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गां ।
यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषां॑ ॥२०
अधे॑नुम् । द॒स्रा॒ । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् ।
यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥
अधेनुम् । दस्रा । स्तर्यम् । विऽसक्ताम् । अपिन्वतम् । शयवे । अश्विना । गाम् ।
युवम् । शचीभिः । विऽमदाय । जायाम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषाम् ॥
यवं॒ वृके॑णाश्विना॒ वपं॒तेषं॑ दु॒हंता॒ मनु॑षाय दस्रा ।
अ॒भि दस्युं॒ बकु॑रेणा॒ धमं॑तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥२१
यव॑म् । वृके॑ण । अ॒श्वि॒न॒ । वप॑न्ता । इष॑म् । दु॒हन्ता॑ । मनु॑षाय । द॒स्रा॒ ।
अ॒भि । दस्यु॑म् । बकु॑रेण । धम॑न्ता । उ॒रु । ज्योतिः॑ । च॒क्र॒थुः॒ । आर्या॑य ॥
यवम् । वृकेण । अश्विन । वपन्ता । इषम् । दुहन्ता । मनुषाय । दस्रा ।
अभि । दस्युम् । बकुरेण । धमन्ता । उरु । ज्योतिः । चक्रथुः । आर्याय ॥
आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै॑रयतं ।
स वां॒ मधु॒ प्र वो॑चदृता॒यंत्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वां ॥२२
आ॒थ॒र्व॒णाय॑ । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य॑म् । शिरः॑ । प्रति॑ । ऐ॒र॒य॒त॒म् ।
सः । वा॒म् । मधु॑ । प्र । वो॒च॒त् । ऋ॒त॒ऽयन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒ऽक॒क्ष्य॑म् । वा॒म् ॥
आथर्वणाय । अश्विना । दधीचे । अश्व्यम् । शिरः । प्रति । ऐरयतम् ।
सः । वाम् । मधु । प्र । वोचत् । ऋतऽयन् । त्वाष्ट्रम् । यत् । दस्रौ । अपिऽकक्ष्यम् । वाम् ॥
सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे ।
अ॒स्मे र॒यिं ना॑सत्या बृ॒हंत॑मपत्य॒साचं॒ श्रुत्यं॑ रराथां ॥२३
सदा॑ । क॒वी॒ इति॑ । सु॒ऽम॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः॑ । धियः॑ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ ।
अ॒स्मे इति॑ । र॒यिम् । ना॒स॒त्या॒ । बृ॒हन्त॑म् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒था॒म् ॥
सदा । कवी इति । सुऽमतिम् । आ । चके । वाम् । विश्वाः । धियः । अश्विना । प्र । अवतम् । मे ।
अस्मे इति । रयिम् । नासत्या । बृहन्तम् । अपत्यऽसाचम् । श्रुत्यम् । रराथाम् ॥
हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तं ।
त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥२४
हिर॑ण्यऽहस्तम् । अ॒श्वि॒ना॒ । ररा॑णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒ऽम॒त्याः । अ॒द॒त्त॒म् ।
त्रिधा॑ । ह॒ । श्याव॑म् । अ॒श्वि॒ना॒ । विऽक॑स्तम् । उत् । जी॒वसे॑ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥
हिरण्यऽहस्तम् । अश्विना । रराणा । पुत्रम् । नरा । वध्रिऽमत्याः । अदत्तम् ।
त्रिधा । ह । श्यावम् । अश्विना । विऽकस्तम् । उत् । जीवसे । ऐरयतम् । सुदानू इति सुऽदानू ॥
ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् ।
ब्रह्म॑ कृ॒ण्वंतो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥२५
ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥
एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । आयवः । अवोचन् ।
ब्रह्म । कृण्वन्तः । वृषणा । युवऽभ्याम् । सुऽवीरासः । विदथम् । आ । वदेम ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|
- १.११७.२१ तुलनीय - अग्निष्टोमो यज्ञः। यवोर्वरा वेदिः। यवखल उत्तरवेदिः। लाङ्गलेषा यूपः। यवकलापिश्चषालम्। - शां.श्रौ.सू. १४.४०.६; यवोपरि टिप्पणी