"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः
No edit summary |
No edit summary |
||
पङ्क्तिः १४३: | पङ्क्तिः १४३: | ||
[[ऋग्वेदः सूक्तं १०.१३०|प्रउगशब्दोपरि संदर्भाः]] |
[[ऋग्वेदः सूक्तं १०.१३०|प्रउगशब्दोपरि संदर्भाः]] |
||
प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवायवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीयस्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री |
००:२०, १२ जनवरी २०१८ इत्यस्य संस्करणं
← सूक्तं १.१ | ऋग्वेदः - मण्डल १ सूक्तं १.२ मधुच्छन्दा वैश्वामित्रः |
सूक्तं १.३ → |
दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री |
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|
वायवा याहि दर्शतेमे सोमा अरंकृताः । |
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । |
भाष्यम्
' अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा विनियुक्तं तथा ' वायवा याहि ' इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास- ' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ' इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्ठ- गुणाभिधानम् ' इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् । याज्यायास्तद्रूपत्व दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् । तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-
' अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ' इति । तुशब्देन संस्कारत्वं वारयति संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ' अभि त्वा शूर ' ( ऋ. सं. ७. ३२. २२) इत्ययं प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः । तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते--
वशावद्वा गुणार्थं स्यात् ' इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्र- शब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ' सा वा एषा सर्वदेवत्या यदजा वशा वायव्यामा लभेत ' ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत् समाधानं सिद्धान्ती दूषयति-
' न श्रुतिसमवायित्वात् ' इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे ' महेन्द्राद्धाणौ च ' ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-
' गुणश्चानर्थकः ' डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह- ' तथा याज्यापुरोरुचोः ' इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या- पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ' एन्द्र सानसिम् ' ( ऋ. सं. १. ८. १) इत्यादिके इन्द्रस्य याज्यापुरोनुवाक्ये । ' महाँ इन्द्रो य ओजसा ' ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।। पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-
' वशायामर्थसमवायात् ' इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र- महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्ष- प्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं निराचष्टे--
-- - - - - -
- - - - -
हेत्वन्तरमाह-
' अभिधाने च कर्मवत् ' इति । यया प्रधानकर्म ' अग्निहोत्रं जुहोति ' इति द्वितीयासंयोगे- नाभिहितं, तया बं प्रनृगं शंसति ' इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह-- , फलनिर्वृत्तिश्च ' इति । ' स्तुतस्य स्तुतमसि ' ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रण- माम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-' इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ' ( तै. सं. ३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं- ' ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ' ( जै. सू. १०. ४. ४९) इति । अत्र संग्रहश्लोकौ-
प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।
तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।
अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ' ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् । तस्मिंश्च प्रातरनुवाके ' अग्निमीळे ' इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेव- ग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ' वायवा याहि ' इत्यादिसप्ततृचात्मकम् । एतच्च ब्राह्मणे ' ग्रहोक्थम् ' ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ' स्तोत्रमग्रे शस्त्रात् ' ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यै- न्द्रवायवमैत्रावरुणास्तृचा अश्विनी द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः ' इति । अस्यायमर्थः । ' वायवा याहि ' इत्यादिकं नवर्च सूक्तम् । ' अग्नि नव ' इत्यतो नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुण- देवताकः । ' अश्विना ' इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्र- वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।
प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवायवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीयस्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री