"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.१४१ पृष्ठं ऋग्वेदः सूक्तं १.१४१ प्रति स्थान... |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]] |
|||
| author = दीर्घतमा औचथ्यः |
|||
| translator = |
|||
| section = सूक्तं १.१४१ |
|||
| previous = [[ऋग्वेद: सूक्तं १.१४०|सूक्तं १.१४०]] |
|||
| next = [[ऋग्वेद: सूक्तं १.१४२|सूक्तं १.१४२]] |
|||
| notes = दे. अग्निः। जगती, १२-१३ त्रिष्टुप् । |
|||
}} |
|||
{{ऋग्वेदः मण्डल १}} |
{{ऋग्वेदः मण्डल १}} |
||
<div class="verse"> |
<div class="verse"> |
२३:४९, २० डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं १.१४० | ऋग्वेदः - मण्डल १ सूक्तं १.१४१ दीर्घतमा औचथ्यः |
सूक्तं १.१४२ → |
दे. अग्निः। जगती, १२-१३ त्रिष्टुप् । |
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|
बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥१॥ पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु । तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥२॥ निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥३॥ प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥४॥ आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे । अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥५॥ आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते । देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥६॥ वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः । तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥७॥ रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते । आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥८॥ त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥९॥ त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि । तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥१०॥ अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् । रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥११॥ उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः । स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥१२॥ अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः । अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥१३॥