"भगवद्गीता/विश्वरूपदर्शनयोगः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) ३ अवतरण: adding bhagavat gita and other pages
(लघु) भगवद् गीता ११ इत्येतद् भगवद्गीता/विश्वरूपदर्शनयोगः इत्येतद् प्रति चालितम्
(भेदः नास्ति)

०४:०७, ६ जुलै २०११ इत्यस्य संस्करणं

एकादशोऽध्याय: विश्वरूपदर्शनयोग

ॐ
श्रीपरमात्मने नमः
'''अथैकादशोऽध्यायः'''

अर्जुन उवाच
  
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥

श्रीभगवानुवाच

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥

संजय उवाच

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥

अर्जुन उवाच

पश्यामि देवांस्तव देव देहे
: सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं कमलासनस्थ-
: मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥

अनेकबाहूदरवक्त्रनेत्रं
: पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
: पश्यामि विश्वेश्वर  विश्वरूप ॥११- १६॥

किरीटिनं गदिनं चक्रिणं च
: तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-
: द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥

त्वमक्षरं परमं वेदितव्यं
: त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
: सनातनस्त्वं पुरुषो मतो मे ॥११- १८॥

अनादिमध्यान्तमनन्तवीर्य-
: मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
: स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥

द्यावापृथिव्योरिदमन्तरं हि
: व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
: लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥

अमी हि त्वां सुरसंघा विशन्ति
: केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
: स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥

रुद्रादित्या वसवो ये च साध्या
: विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसंघा
: वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥

रूपं महत्ते बहुवक्त्रनेत्रं
: महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
: दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥

नभःस्पृशं दीप्तमनेकवर्णं
: व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
: धृतिं न विन्दामि शमं च विष्णो ॥११- २४॥

दंष्ट्राकरालानि च ते मुखानि
: दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
: प्रसीद देवेश जगन्निवास ॥११- २५॥

अमी च त्वां धृतराष्ट्रस्य पुत्राः
: सर्वे सहैवावनिपालसंघैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
: सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥

वक्त्राणि ते त्वरमाणा विशन्ति
: दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
: संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११- २७॥

यथा नदीनां बहवोऽम्बुवेगाः
: समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
: विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११- २८॥

यथा प्रदीप्तं ज्वलनं पतङ्गा
: विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका-
: स्तवापि वक्त्राणि समृद्धवेगाः ॥११- २९॥

लेलिह्यसे ग्रसमानः समन्ता-
: ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
: भासस्तवोग्राः प्रतपन्ति विष्णो ॥११- ३०॥

आख्याहि मे को भवानुग्ररूपो
: नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
: न हि प्रजानामि तव प्रवृत्तिम् ॥११- ३१॥

श्रीभगवानुवाच

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
: लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
: येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११- ३२॥

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
: जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
: निमित्तमात्रं भव सव्यसाचिन् ॥११- ३३॥

द्रोणं च भीष्मं च जयद्रथं च
: कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
: युध्यस्व जेतासि रणे सपत्नान् ॥११- ३४॥

संजय उवाच

एतच्छ्रुत्वा वचनं केशवस्य
: कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
: सगद्गदं भीतभीतः प्रणम्य ॥११- ३५॥

अर्जुन उवाच

स्थाने हृषीकेश तव प्रकीर्त्या
: जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
: सर्वे नमस्यन्ति च सिद्धसंघाः ॥११- ३६॥

कस्माच्च ते न नमेरन्महात्मन्
: गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
: त्वमक्षरं सदसत्तत्परं यत् ॥११- ३७॥

त्वमादिदेवः पुरुषः पुराण-
: स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
: त्वया ततं विश्वमनन्तरूप ॥११- ३८॥

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
: प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
: पुनश्च भूयोऽपि नमो नमस्ते ॥११- ३९॥

नमः पुरस्तादथ पृष्ठतस्ते
: नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
: सर्वं समाप्नोषि ततोऽसि सर्वः ॥११- ४०॥

सखेति मत्वा प्रसभं यदुक्तं
: हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
: मया प्रमादात्प्रणयेन वापि ॥११- ४१॥

यच्चावहासार्थमसत्कृतोऽसि
: विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
: तत्क्षामये त्वामहमप्रमेयम् ॥११- ४२॥

पितासि लोकस्य चराचरस्य
: त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
: लोकत्रयेऽप्यप्रतिमप्रभाव ॥११- ४३॥

तस्मात्प्रणम्य प्रणिधाय कायं
: प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
: प्रियः प्रियायार्हसि देव सोढुम् ॥११- ४४॥

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
: भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
: प्रसीद देवेश जगन्निवास ॥११- ४५॥

किरीटिनं गदिनं चक्रहस्त-
: मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
: सहस्रबाहो भव विश्वमूर्ते ॥११- ४६॥

श्रीभगवानुवाच

मया प्रसन्नेन तवार्जुनेदं
: रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
: यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११- ४७॥

न वेदयज्ञाध्ययनैर्न दानै-
: र्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
: द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११- ४८॥

मा ते व्यथा मा च विमूढभावो
: दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
: तदेव मे रूपमिदं प्रपश्य ॥११- ४९॥

संजय उवाच

इत्यर्जुनं वासुदेवस्तथोक्त्वा
: स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
: भूत्वा पुनः सौम्यवपुर्महात्मा ॥११- ५०॥

अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११- ५१॥

श्रीभगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११- ५२॥

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११- ५३॥

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥११- ५४॥

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११- ५५॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥

संबंधित कड़ियाँ

  1. भगवद् गीता
  2. श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता
  3. श्रीमद्भगवद्गीता हिन्दीभाषाऽऽनुवादसहिता 11

बाहरी कडियाँ