"अग्निपुराणम्/अध्यायः १७२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अथ द्विसप्तत्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; li... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
अथ द्विसप्तत्यधिकशततमोऽध्यायः
अथ द्विसप्तत्यधिकशततमोऽध्यायः



२२:४९, ११ नवेम्बर् २०१७ समयस्य संस्करणम्

अग्निपुराणम्
















अथ द्विसप्तत्यधिकशततमोऽध्यायः

सर्वपापप्रायश्चित्तानि

पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।१७२.००१
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१७२.००१
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(१) नमः ।१७२.००२
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥१७२.००२
चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।१७२.००३
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥१७२.००३
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।१७२.००४
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥१७२.००४
करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ।१७२.००५
तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥१७२.००५
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।१७२.००६
तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥१७२.००६
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।१७२.००७
हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥१७२.००७
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।१७२.००८
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥१७२.००८
नृसिंहानन्त गोविन्द भूतभवन केशव ।१७२.००९
टिप्पणी
१ विष्णवे विष्णवे इति ज.. , ञ.. च

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥१७२.००९
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।१७२.०१०
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१७२.०१०
ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।१७२.०११
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१७२.०११
यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।१७२.०१२
कायेन मनसा वाचा कृतं पापमजानता ॥१७२.०१२
जानता च हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१३
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१७२.०१३
शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१४
पापं प्रशमयाद्य त्वं(१) बाक्कृतं मम माधव ॥१७२.०१४
यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ।१७२.०१५
कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१७२.०१५
यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ।१७२.०१६
तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१७२.०१६
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।१७२.०१७
तस्मिन्(२) प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७२.०१७
यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।१७२.०१८
सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं(३) ॥१७२.०१८
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(४) ।१७२.०१९
टिप्पणी
१ प्रशमात्यर्थमिति ख.. , घ.. , ज.. च
२ अस्मिन्निति घ..
३ सर्वं गमयत्वघमिति झ..
४ यः पठेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ..

शारीरैर्मानसैर्वाग्जैः कृतैः पपैः प्रमुच्यते ॥१७२.०१९
सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।१७२.०२०
तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥१७२.०२०
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।१७२.०२१
प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥१७२.०२१
ततः कार्याणि(१) संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥१७२.०२२

इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥