"अग्निपुराणम्/अध्यायः ६८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}
अथ अष्टषष्टितमोऽध्यायः


<poem><span style="font-size: 14pt; line-height: 200%">यात्रोत्सवविधिकथनं
<poem>
भगवानुवाच
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।६८.००१
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥६८.००१
उत्सवेन विना यस्मात्स्थापनं निष्फलं भवेत् ।६८.००२
अयने विषुवे चापि शयनोपवने गृहे(१) ॥६८.००२
कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।६८.००३
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥६८.००३
शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।६८.००४
यवाञ्छालींस्तिलान्मुद्गान् गोधूमान् सितसर्षपान् ॥६८.००४
कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।६८.००५
पूर्वादौ च बलिं दद्यात्भ्रमन् दीपैः पुरं निशि ॥६८.००५
इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च ।६८.००६
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥६८.००६
पदे पदेऽश्वमेधस्य फलं तेषां न संशयः ।६८.००७
आगत्य देवतागारं देवं विज्ञापयेद्गुरुः ॥६८.००७
तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।६८.००८
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥६८.००८
देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(२) ।६८.००९
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥६८.००९
<small><small>टिप्पणी
१ शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः
२ समाचरेदिति ग, चिह्नितपुस्तकपाठः</small></small>
चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।६८.०१०
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥६८.०१०
वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।६८.०११
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥६८.०११
दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं ।६८.०१२
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥६८.०१२
हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।६८.०१३
प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥६८.०१३
स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।६८.०१४
नयेद्गुरुर्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥६८.०१४
निम्नगायोजनादर्वाक्तत्र वेदीन्तु कारयेत् ।६८.०१५
वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥६८.०१५
चरुं वै श्रपयेत्तत्र पायसं होमयेत्ततः ।६८.०१६
अब्लिङ्गैः(१) वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥६८.०१६
आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।६८.०१७
पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥६८.०१७
स्नायान्महाजनैर्विप्रैर्वेद्यामुत्तार्य तं न्यसेत् ।६८.०१८
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।६८.०१८
पूजयेत्पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥६८.०१८
<small><small>टिप्पणी
१ अर्चिकैरिति ग, चिह्नितपुस्तकपाठः
</small></small>इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः ॥






</poem>
</span></poem>



[[वर्गः:अग्निपुराणम्]]
[[वर्गः:अग्निपुराणम्]]

२२:०९, ९ नवेम्बर् २०१७ समयस्य संस्करणम्

अग्निपुराणम्
















अथ अष्टषष्टितमोऽध्यायः

यात्रोत्सवविधिकथनं
भगवानुवाच
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।६८.००१
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं ॥६८.००१
उत्सवेन विना यस्मात्स्थापनं निष्फलं भवेत् ।६८.००२
अयने विषुवे चापि शयनोपवने गृहे(१) ॥६८.००२
कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।६८.००३
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः ॥६८.००३
शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।६८.००४
यवाञ्छालींस्तिलान्मुद्गान् गोधूमान् सितसर्षपान् ॥६८.००४
कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।६८.००५
पूर्वादौ च बलिं दद्यात्भ्रमन् दीपैः पुरं निशि ॥६८.००५
इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च ।६८.००६
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः ॥६८.००६
पदे पदेऽश्वमेधस्य फलं तेषां न संशयः ।६८.००७
आगत्य देवतागारं देवं विज्ञापयेद्गुरुः ॥६८.००७
तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।६८.००८
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा ॥६८.००८
देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(२) ।६८.००९
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत् ॥६८.००९
टिप्पणी
१ शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने हरेरिति ङ, चिह्नितपुस्तकपाठः
२ समाचरेदिति ग, चिह्नितपुस्तकपाठः

चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।६८.०१०
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत् ॥६८.०१०
वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।६८.०११
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः ॥६८.०११
दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलं ।६८.०१२
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत् ॥६८.०१२
हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।६८.०१३
प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते ॥६८.०१३
स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।६८.०१४
नयेद्गुरुर्नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः ॥६८.०१४
निम्नगायोजनादर्वाक्तत्र वेदीन्तु कारयेत् ।६८.०१५
वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत् ॥६८.०१५
चरुं वै श्रपयेत्तत्र पायसं होमयेत्ततः ।६८.०१६
अब्लिङ्गैः(१) वैदिकैर्मन्त्रैस्तीर्थानावाहयेत्ततः ॥६८.०१६
आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।६८.०१७
पुनर्देवं समादाय तोये कृत्वाघमर्षणं ॥६८.०१७
स्नायान्महाजनैर्विप्रैर्वेद्यामुत्तार्य तं न्यसेत् ।६८.०१८
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।६८.०१८
पूजयेत्पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत् ॥६८.०१८
टिप्पणी
१ अर्चिकैरिति ग, चिह्नितपुस्तकपाठः
इत्यादिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः ॥