"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
==मूल पाठ==
==मूल पाठ==
ईशोपनिषत्</br>
ईशोपनिषत्</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥</br>
ॐ शांतिः शांतिः शांतिः॥</br>
ॐ शांतिः शांतिः शांतिः॥</br>
</br>
</br>
पङ्क्तिः ८: पङ्क्तिः ८:
</br>
</br>
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br>
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br>
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥</br>
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥</br>
</br>
</br>
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br>
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br>
पङ्क्तिः १६: पङ्क्तिः १६:
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br>
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br>
</br>
</br>
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।</br>
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।</br>
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br>
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br>
</br>
</br>
तदेजति तन्नैजति तद्दूरे तद्वन्तिके।</br>
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।</br>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br>
</br>
</br>
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।</br>
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।</br>
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥६॥</br>
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥</br>
</br>
</br>
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।</br>
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।</br>
तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥</br>
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥</br>
</br>
</br>
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।</br>
स पर्यगाच्छुक्रमकायमव्रण-मस्नाविरँ शुद्धमपापविद्धम्।</br>
कविर्मनीषी परिभूः स्वयम्भू-र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥८॥</br>
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥</br>
</br>
</br>
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।</br>
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।</br>
ततो भूय इव ते तमो य उ विद्यायाँ रताः॥९॥</br>
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥</br>
</br>
</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया।</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥</br>
</br>
</br>
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह।</br>
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।</br>
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥११॥</br>
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥</br>
</br>
</br>
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।</br>
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।</br>
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः॥१२॥</br>
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥</br>
</br>
</br>
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।</br>
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१३॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥</br>
</br>
</br>
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह।</br>
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।</br>
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥१४॥</br>
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥</br>
</br>
</br>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।</br>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।</br>
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥१५॥</br>
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥</br>
</br>
</br>
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः।</br>
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |</br>
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि॥१६॥</br>
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥</br>
</br>
</br>
वायुरनिलममृतमथेदं भस्मांतँ शरीरम्।</br>
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।</br>
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर॥१७॥</br>
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥</br>
</br>
</br>
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।</br>
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।</br>
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम॥१८॥</br>
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥</br>
</br>
</br>
॥इति ईशोपनिषत्॥</br>
॥इति ईशोपनिषत्॥</br>

१०:०८, २४ जून् २०११ इत्यस्य संस्करणं

मूल पाठ

ईशोपनिषत्
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शांतिः शांतिः शांतिः॥

॥अथ ईशोपनिषत्॥

ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥

स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥

विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥

सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥

वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥

॥इति ईशोपनिषत्॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः शांतिः शांतिः॥

संबंधित कड़ियाँ

बाहरी कडियाँ

  1. English Translation by Vidyavachaspati V. Panoli (link broken)
  2. Isa:va:syo:panishad English Translation by HH Sri Sri Sri Chinna Srimanna:ra:yana Jeeyar Swamiji
"https://sa.wikisource.org/w/index.php?title=ईशावास्‍योपनिषद्&oldid=12804" इत्यस्माद् प्रतिप्राप्तम्